शुगस्य तदनादरश्रवणात्तदाद्रवणात् सूच्यते हि॥33॥ क्षत्रियत्वगतेश्च॥34॥ उत्तरत्र चैत्ररथेन लिंगात्॥35॥ संस्कारपरामर्शात्तदभावाष्तिलापाच्च॥36॥ तदष्तावनिर्धारणे च प्रवृत्तेः॥37॥ श्रवणाध्ययनार्थप्रतिषेधात्॥38॥ स्मृतेष्च॥39॥ वस्वादीनामर्थित्वसामर्थ्यसद्भावात् ब्रह्माविध्यायामधिकारोऽस्तीत्युक्तं।तर्हि शूद्राणामपि तत्सत्भावात् अधिकारस्स्यादिति शङ्कया सङ्गतिः।शूद्राणामधिकरोऽस्ति न वेति तदुपसंहारसामर्थ्यसत्वासत्त्वाभ्यां,संशये पूर्वपक्षः।अस्त्यधिकारस्तेषामपि।अग्निविध्याभावाध्दि कर्मानधिकारः पूर्वतन्त्रापशूद्राधिकरणे साधितः।न चोपासनेषु मनोवृत्तिमात्ररूपेषु तदापेक्षाऽस्ति।अतः स्रीणामिव तेषामप्यधिकारोऽस्त्येव।न च तेषां विध्यासहकारिकर्मासम्भवः। स्ववर्णाश्रमधर्मसम्भवात् ।न च तेषां ब्रह्मस्वरूपतदुरासानप्रकारज्ञानासम्भवः,इति हासपुराणसत्त्वात् ।अत एव हि विदुरादयो ब्रह्मनिष्ठाः।अस्तिच छन्दोग्योपनिषदि तेषां विध्याधिकारलिङ्गम्।तत्राहि संवर्गविध्यायां विध्याधिकारिणः शूद्रेत्यामन्त्राणं द्दश्यते ।“आजहारेमाश्शूद्रानेनै मुखेन मामालापयिष्यता” इत्येवन्तत्रोपाख्यायते जानश्रुतिर्नाम राज्यपरिपालकः श्रध्दयाबहुप्रदः सर्वासु दिक्षु ग्रामनगरमार्मारष्यतीर्थादिषु पान्थानामन्नोदकशयनाचछादनादिभोग्यजातसंपूर्णानावसथान् मापयांचक्रे ।तस्य धार्मिकप्रवरस्य कर्माभिः क्षीणदुरितस्य ब्रह्म्मविविदिषामुत्पादायितुं केचन महर्षयो हंसरूपमास्थाय निशायां" हम्र्ये शयावस्य तस्योपरि पङ्क्तिमाबध्याजम्मुः। तेषामग्रेसरं हंसं ‘भोगो भल्लाक्ष भल्लाक्षे’ति विपरीतलक्षणया मन्दलोचनेति सम्भ्रमेण द्विवारं सम्बोध कश्चिद्धंस उवाच। जानश्रतेरन्नदानादिप्रभावजनितं ज्योतिः द्युलोकपर्यन्तं व्याप्तं वर्तते। तत्र त्वं सग्नः प्रदग्धो माभूरिति, एकमुक्तवन्तन्तग्रगामी हंसः प्रत्युवाच। एतं वराकं जानश्रुतिं शकटसहितं रैक्वमिव कीद्दशमाहात्म्यशालिनमात्थेति। एतदाकर्ण्य तेन पृष्ठगामिना हंसेन कोऽसौ रैक्व इति पुनः पृष्टस्सएव प्रत्युवाच। सर्वेषामपि सर्वं सत्कर्मविज्ञानजातं यदजीयसत्कर्मविज्ञानन्तर्भूतं" सरैक्व इति। तदेतद्धंसवाक्यं जानश्रुतिः स्वनिंदारैक्वप्रशंसागर्भमाकर्ण्य कथमपि निशामतिवाह्य तल्पं त्यचन्नेव क्षत्तारमाहूय शकटचिह्नसहितं रैक्वमुक्त्वा तदन्वेषणाय प्रेषयित्वा क्वचिद्देशे शकटस्याधस्तात् पामानं कण्डूयमानं रैक्वं द्दष्ट्वा प्रत्यागत्य तस्मिन्निवेदितवति स्वयं रैक्वमुपसंपद्य गवां षट्शतानि निष्कमश्वतरीयुक्तं रथञ्चोपहृत्य त्वदुपास्यां देवतामुपदिशेति प्रार्थयामास। ततस्तमुवाच रैक्वः ‘अहहारेत्वा शूद्र तवैव सह गोभिरस्त्वि’ति। अहेति निपातः। हारसहितः इत्वा रथः गोभिस्सह तवैवास्त्विति तदर्थः। पुनर्जानश्रुतौ रैक्वस्यैतावता न सन्तोष इति मत्वा गवां सहस्रं पूर्वानीतं हारादिकं रैक्वस्य विवाहार्थं स्वकन्याञ्चोपहृत्य विद्योपदेशार्थं" प्रार्थयमाने रैक्वस्येदं वाक्यं ‘आजहारेमाश्शूद्रे’त्यादि। इमाः दक्षिणाः आहृतवानसि। अनेनैव मुखेन विद्याग्रहणोपायेन मामालापयिष्यसि। विद्योपदेष्टारं करिष्यसीत्यर्थः। यद्यपि ‘अहहारेतवाशूद्रे’ति पूर्ववाक्येऽपि ‘शूद्रे’ त्यामन्त्रणमस्ति। तथाऽपि शूद्रवत् ब्रह्मविद्यागौरवमजानानस्स्वल्पांदक्षिणामाहरसीति कोपेन क्षत्रिय एव ‘शूद्रे’त्यामन्त्रित इत्यन्यथासिद्धिर्वक्तुं शक्या। न तु द्वितीयवाक्य इत्यभिप्रेत्य इदं सन्तोषवाक्यमुदाहृतं" भाष्ये। एवं शूद्रस्यापि विद्याधिकारोऽस्तीति प्राप्ते राद्धान्तः– शूद्राणान्तात् न ब्रह्मस्वरूपतदुपासनप्रकारपरिज्ञानोपायोऽस्ति। न च पुराणादिकं तदुपायः, ‘इतिहासपुराणाभ्यां वेदं समुपबृह्मये’दिति वेदतात्पर्यनिर्णयार्थत्वेन तस्य विनियुक्तम्। न च ‘श्रावयेच्चतुरोवर्णान् कृत्वा ब्राह्मणमग्रत’ इति शूद्राणां पुराणादिश्रवणानुमतेर्वैफल्यं, पापक्षयार्थत्वोपपत्तेः। विदुरधर्मव्याधादीनान्तु ब्रह्मनिष्ठा न पुराणादिना, किंतु जन्मान्तरवासनानुवृत्त्या। ‘शूद्रे’त्यामन्त्रणमपि न शूद्राणां विद्याधिकारे लिङ्गं। इह शूद्रशब्दस्य रूढ्या जदातिवाचित्वाभावात् ‘शूचेर्द्दश्चे’त्युणादिसूत्रेण ‘शुच शोक’ इति धातोः ‘स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपी’त्यादिसूत्रानुवृत्तरप्रत्ययस्य ‘अमितम्योर्दीर्घश्चे’ति तदनन्तरसूत्रानुवृत्तदीर्घस्य धातुचकारस्थाने दकारादेशस्य च विद्यायकेन निष्पन्नस्य तस्य योगेन शोचितृत्वार्थकत्वात्। नचेह रूढिप्राबल्यं शङ्कनीयं।हंसवाक्यानादरश्रवणेन तदैव रैक्कोपसर्पणेन कार्येण च सूचितस्य शोकस्य वुद्धिस्थतया बुद्धिस्थयोगस्य रू़ढितः प्रबसत्वात् ।किंच जानश्रुतेःक्षत्रियत्वावगमादपि तद्धिषयशूद्र शब्दो यौगिकः।उपाक्यानोपक्रमेहि “जानश्रतिर्ह पौत्रायणः श्रद्धा देयो बहुदायि बहुवाक्य आससहसर्त आवसथान्मापयांचक्र सर्वत एव मेन्नमत्स्यन्ती"ति जानश्रुतेः दानपतित्वं सर्वेभ्यःपक्कान्नदयित्वञ्चोक्तम्।मध्ये च “सह सञ्जिहान एव क्षत्तरामुवाचे क्षत्तृप्रेषणं।“इयं जाया अयं ग्रामो यस्मिन्नास्स"इति रैक्काय कनायाप्रदान रैक्कस्तदा यत्र ग्रामेस्थितः तस्य ग्रामस्य दानंचोक्तम्।अन्ते च “ते हैते रैक्कपर्णानाममहावृषेषु यत्रास्म उवास ति तस्मै महावृषाख्यदेशगतबहुग्रामप्रदत्वमुक्तम्।एतैर्लिगैःजानश्रुतेः क्षत्रियत्वमवगतम्।यद्यपि अन्यायवृत्ताश्शूद्रा अपि राज्यं” परिपालयन्तः “वैश्यात् ब्राह्मणकन्यायां क्षत्ता नाम प्रजायते”।“जीविकावृत्तिरेतस्य राजांतःपुररक्षण"मित्युक्तलक्षणत्रसंग्रहा कुर्वति। तथाऽपि वेदनिबद्धं तत् न तादृशं वक्तुं शक्यम्। बाधकाभावे वैदिकलिंगावगम्यस्य धर्म्यस्यैव ग्राह्यत्वात्। अन्यथा शूद्रेत्यामन्त्रणेनावगतशूद्रस्य विद्याग्रहणं अधर्म्यं वेदेन निबद्धमिति वक्तुं शक्यतया शूद्रस्य विद्याधिकारे उक्तवैदिकलिंगासिध्या तद्बाधकानामनुपन्यसनीयतापत्तेः। तस्माज्जानश्रुतिः क्षत्रियोऽवगम्यत इति युक्तमेव। किंच अस्यामेव संवर्गविद्यायामुत्तरत्र चैत्ररथस्य क्षत्रियत्वात् तस्यापि क्षत्रियत्वमवगम्यते। उत्तरत्र हि ‘अथ ह शौनकञ्च कापेयमभिप्रतारिणञ्च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्ष’ इत्यादौ शौनकस्य ब्राह्मणस्य द्वितीयोऽभिप्रतारिं क्षत्रिय इति तत्प्रायपाठात् रैक्कस्य ब्राह्मणस्य द्वितायो जानश्रुतिरपि क्षत्रिय इत्यवगम्यते। स्यादेतत्। जानश्रुतेः क्षत्रियत्वनिर्धारणमिह प्रायपाठसत्वाधीनं, तत् अभिप्रतारिणः क्षत्रियत्वनिर्धारणाधीनं, तदपि तस्य चैत्ररथत्वनिर्धारणाधिनं, तच्च तस्य कापेययाज्जयत्वनिर्धारणाधीनं, तत्कुतो निर्धार्यते। नहि तदिह वा अन्यत्र वा श्रुतमस्ति। न च कापेयसहपाठात् तत्सम्बन्धः” क्वचित्सिध्यन् तद्याज्यत्वरूपस्सिध्यतीति वाच्यम्। भोजनार्थं सहोपविष्टावित्येव हि सहपाठः। न च तावन्मात्रेण कश्चन कुलसम्बन्धस्सिध्यति। अतिथिगृहस्थयोर्व्यभिचारात्, प्राचीनशालीयसंज्ञादिषु व्यभिचाराच्च। तेषामेकविद्यत्वं सम्बन्धश्चेत्, इहापि तदेव सम्बन्धस्स्यात्। उभयोरपि असंवर्गाविद्योपासकत्वात्। ननु छन्दोगब्राह्मणे ‘अथ यस्य ज्योतिरुक्थ्यः पूर्वमहर्भवत्यायुरुत्तर’ इति विहितस्य द्विरात्रस्य ‘एकाकिनमेवैनमन्नाद्यस्याद्यक्षं करोती’ त्येनं द्विरात्रयाजिनमेकमेव भ्रातृवर्गादिमध्ये ऐश्वर्यस्याध्यक्षं करोतीत्येवं फलार्थवादमुक्त्वा तदुपपादकमर्थवादान्तरमाम्नातम्। ‘एतेन वै चित्ररथं कापेया अयाजयन् तेमेकाकिमन्नाद्यस्याध्यक्षमकुर्वन् तस्माच्चैत्ररथीनामैकः क्षत्रपतिर्जायत’ इति चित्ररततद्वंश्यानां कापेययाज्यत्वं श्रुतमिति चेत्, किंततः। न खल्वभिप्रतारी चित्ररथः, नामभेदेन ततो भेदावगमात्। नापि चित्ररथवंश्यः, तथा श्रवणाभावात्। भाष्ये तु ‘एते नवै चित्ररथं कापेया अयाजयन्नि’ति श्रुतिपाठो लिखितः। तत्रापि अभिप्रतारिणः” कापेययाज्यत्वासिद्धिशङ्का तुल्या। तस्य चैत्ररथत्वाश्रवणादेव। तस्मादभिप्रतारिणः कापेययाज्यत्वं ततश्चित्ररथवंश्यत्वञ्च अवगन्तुमशक्यमिति चेत् उच्यते– कापेयस्तावत् श्रुत्यन्तरबलात् चित्ररथयाजकत्वेन प्रत्यभिज्ञायत इति तावन्निर्विवादं। तत्सहोपविष्टोऽभिप्रतारी कापेययाज्यः चित्ररथवंश्यश्चेति बुद्धिरौत्सर्गिकी। बाधकाभावात्। भवत्येव यथाह्विदितपूर्वस्य हस्तिनो निकटे दृश्यमाने पुरुषे राज्ञो हस्तिपकोऽयमिति प्रत्यभिज्ञायमाने सति अयमस्य हस्तिपकस्य शिक्षणीयो हस्ती राजकीयश्चेति बुद्धिः। ननु सिध्यतु कापेययाज्यत्वमभिप्रतारिणः, ततश्चित्ररथवंश्यत्वं न सिध्यति, अन्यस्यापि तद्याज्यत्वसम्भवादिति चेत्। न त्रिविधाः खलु याजकाः पितृपितामहादिपरम्परया कुलक्रमागाताः” याजकाः पितृभूताः तदसम्भवे कस्यचिदाधानप्रभृतिषु सर्वेषु कर्मसु याजका मनुष्यभूताः, तदसम्भवे तत्र कर्मणि दैवादागत्य आर्त्विज्यं” कुर्वन्तो देवभूताः। अतस्समानान्वयानां याज्ययाजकभावस्य मुख्यत्वेन औत्सर्गिकत्वात्, पूर्वराजचरित्रेषु बहुशो याज्ययाजककुलव्यवस्थादर्शनाच्च कापेयानां पितृभूतयाजकत्वावधारणात् कापेययाजकयोगेन चित्ररथवंश्यत्वसिद्धिः। तस्मात् संवर्गविद्यान्वयिनोर्द्वयोः ब्राह्मणस्य द्वितीयः क्षत्रिय इत्युत्तरदर्शनात् तत्प्रायपाठादपि रैक्वस्य द्वितीयो जानश्रुतिः क्षत्रियः। ननु रैक्वो ब्राह्मण इति कुतोऽवगतं, येन शौनकद्वितीयवत् तद्वितीयः क्षत्रियस्स्यात्। तदन्वेषणार्थं प्रेषिते क्षत्तरि तमन्विष्यप्रत्यागते सति ‘यत्रारे ब्राह्मणस्यान्वेषणा तदेनमच्छे’ति यत् तपोनवादौ ब्राह्मणानामावासस्थले ब्राह्मणस्यान्वेषणं कर्तुमुचितं, तत्र गत्वैनं प्राप्नुहीत्यर्थकेन तस्य ब्राह्मणत्वस्य स्फुटीकरणात्। तस्मादिह आमन्त्र्यमाणस्य क्षत्रियत्वावगमात् न शूद्रेत्यामन्त्रणेन तस्य विद्यादिकारः। विद्यापेरदेशेषु उपदेश्यस्य उपनयनसंस्कारपरामर्शात् शूद्रस्य तदभावाभिलापाच्च न शूद्रस्य विद्याधिकारः। छान्दोग्ये ह्येवमुपाख्यायते शैसवे प्रमीतपतृकस्सत्यकामो ‘विद्यार्थमाचार्यमुपेस्य, ब्रह्मचर्य चरिष्यामि किं गोत्रोऽह’मिति मातरं पृष्ट्वा तया त्वज्जनकपरिचरणं कृत्वैव स्थिताऽस्मिनाहं" गोत्रं वेदेत्युक्तः गौतममासाद्य ‘ब्रह्मचर्यं भवति वत्स्याम्युपेयां भगवन्त’ मित्युक्त्वा ‘किंगोत्रस्व ’ मिति पृष्टो ‘नाहं" गोत्रवं वेद माताऽपि नावेदीत् माता मे जबाला सत्यकामोऽह’ मित्युवाच। अथ गौतमस्सत्यवचनेन ‘नायमब्राह्मण’ इति निर्धार्य ‘समिधं सोम्याहरोपत्वानेप्य’ इत्युक्तवानिति। ननु अपरामृष्टमुपनयनं विद्याङ्गमध्ययनाङ्गं वा उभयधापि नोपपद्यते। विद्यांगोपनयने गोत्रपरिज्ञानस्य अनपेक्षितत्वेन गोत्रप्रश्नानुपपत्तेः। अध्ययनांगोपनयन एव गोत्रभेदेन प्रकारभेदसत्त्वेन गोत्रप्रश्नोपयोगात् अध्ययनागोपनयने ‘समिधं सोम्याहरे’ ति विनियोगानुपपत्तेः। विद्यांगोपनयन एव ‘तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठ’मिति तमित्पाणित्वस्य विहितत्वात्, अग्रे सत्यकामाय षोडशकलब्रह्मविद्योपदेशस्यैव दर्शनात्, वेदाध्यापनस्यादर्शनाच्च। उच्यते– उपक्रमगतोगोत्रप्रश्नानुसारादध्ययनांगमिदमुपनयनं। अध्ययनन्तु ‘उपनीये’त्यनेनैव गृहीतं। तस्य अध्ययनपर्यंतोपनयनपरत्वात्। पूर्वतन्त्रे हि ‘तस्मादग्निचिद्वर्षति न धावे’दित्यत्र अग्निचि’दित्यस्य यदर्थोग्नेश्चयनसंस्कारः, तत्पर्यन्ताग्निचयनपरते त्यग्निचयनांगकक्रतौभूत एव ‘वर्षति न धावे’दित्यादीना आग्निचिद्वतानि, न त्वग्निचयनसंस्कारमात्रे भूत इति निर्णीतं क्रमलक्षणे।विद्याप्रदेशे अध्ययनांगोप"नयनपरामर्शो विद्यार्थमपि तदपेक्षास्त न विद्याधिकार"इति ज्ञानपनार्थः।समिदाहरणनियोगस्तु तस्मिन् दयया तस्मै विद्यामप्युपदेक्ष्यामीत्यभिप्रायो वर्णनीयः।अस्तु शूद्रस्याप्युपनयनमित चेत् न “न शूद्रेपातकं किञ्चिन्नच संस्कारमर्हति"त्येतदनन्तरं “धर्मेप्सवस्तु धर्मज्ञास्सतां वृत्तिमनुव्रताः”।मन्त्रवर्जन्नदुष्यन प्रश्सां प्राप्नुवन्ति चे “त धार्मिकाणां शूद्राणां मन्त्रवर्जसंस्काराभ्यनुज्ञानं कृतमिति चेत् सत्यं।तज्जातकर्मादिमात्रविषयं।न तु उपनयनविषयमपि।“शूद्रश्चतुर्थ वर्ण एकजाति"रिति गौतमस्मृतौ।आहत्य तस्य द्वितीयजन्मरूपोपनयनाभावस्रणात् इहापि शूद्रत्वाभावनिर्धारणे सत्येव अध्ययनांगोपनयनप्रवृत्युपन्यासाच्च।किं शूद्रस्य वेदवाक्यश्रवनतदध्ययनतदर्थविचारज्ञानानुष्ठानानि,“पद्यु वा एतत्श्मशानं यच्छूद्रःतस्माच्छूद्रसमीपे नाध्येतव्य"मि शूद्रसमीपे अध्ययनप्रतिषेधेन गौतमस्मृतौ “अथहास्यवेदमुपश्रुण्वतस्रपुजतुभ्यां श्रोत्रप्रतिपूरणमुदाहरणे जिह्वाच्छेदो धारणे शरीरभेद"इ शूद्रस्य वेदश्रवणादिषु दण़्डविधानेन चार्थात्प्रतिषिध्यन्ते।यस्य हि समीपेऽपि नाध्येतव्यं वेदवाक्यं,यस्य च तच्छ्रवणेऽपि महान् दण्डः,स तत्कथं श्रुणुयात्।अश्रुण्वतः कुतोऽध्ययनमनुष्ठानं वा,तस्मान्नशूद्रस्य विद्याधिकार इति सिद्धम्॥ संग्रहकारिके॥ विद्यास्वस्त्यधिकारश्शूद्राणामपि फलार्थित्वात्। इतिहासपुराणाभ्यां वेद्यत्वाद्दर्शनाच्च तथा॥ वेदोपबृह्मणतया विद्यार्थे ते न तु स्वतन्त्रतया। विदुराद्यास्स्वयमुद्गतविद्या जानश्रुतिस्तु स नृपः॥ इति अपशूद्राधिकरणम्॥9॥