25 मध्वधिकरणम्

मध्वादिष्वसम्भवादनधिकारं जैमिनिः॥30॥ ज्योतिषि भावाच्च॥31॥ भावं तु बादरायणोऽस्ति हि॥32॥ पूर्वाधिकरणे सामान्येन देवानां तदभीप्सितपरोपासनाधिकारोऽस्तीत्युक्तम्। अथ उपासनाविशेषेषु देवताविशेषाणामधिकारोऽस्ति न वेति चिन्त्यत इति सङ्गतिः। अस्ति छान्दोग्ये मधुविद्याः। तस्यां वस्वादय उपास्याः प्राप्याश्च श्रूयन्ते। तत्रह्यादित्यव्यपाश्रयाणि लोहितादिपञ्चरूपात्मकानि पञ्चामृतानि वसुरुद्रादित्यमरुत्साध्यगणभोग्यत्वेनोपास्यानि, तदुपासनानाञ्च वस्वादिपदप्राप्तिः फलमिति वर्णितं, ‘तद्यत्प्रथमममृतं तद्वसव तृप्यन्ति सयएतदेवममृतं वेद वसूनामेवैको भूत्वा अग्निनैव मुखेन एतदेवामृतं दृष्ट्वा तृप्यन्ती’त्यादिना। तस्यांवस्वादीनां नास्त्यधिकारः। स्वस्य स्वोपास्यत्वासम्भवात्, स्वपदप्राप्तेः फलत्वसम्वाच्चेति पूर्वःपक्षः। ननु नायं पूर्वपक्षो युक् इह कल्पे वस्वादीनां सतां कल्पान्तरेऽपि वसुत्वादिकम्विति, इहि जन्मनि ब्राह्मणस्य सतो जन्मान्तरेऽपि ब्राह्मण्यमस्त्वितीच्छावदिच्छोपपत्तेः, भूमविद्यामद्ध्यगतायां प्राणविद्यायां स्वस्य स्वोपास्यत्वसम्प्रतिपत्तेश्चेति चेत्, एवं पूर्वपक्षी मन्यते। मधुविद्याया न वस्वादिभावः" फलम्। किन्तु वस्वादिस्थानप्राप्तिपूर्वकं तत्तद्भोगसाम्यं। यथा ‘अस्मद्भ्रातॄणाम्मध्ये त्वमेक’ इत्युक्तौ भ्रातृभिर्भोगसाम्यं। अन्यथा मधुविद्यानिष्ठानां प्रायणानन्तरं वस्वादिभावप्राप्तौ ‘अष्टौवसव’ इत्यादिश्रुतिसिद्धसंख्यातिरेकप्रसङ्गात्। दृष्टञ्च ‘वैष्णवं" वामनमालभेत स्पर्धमान’ इति विधिशेषस्य ‘विष्णुरेव भूत्वेमान् लोकानभिजयती’त्यर्थवादस्य विष्णुवज्जेतृत्वमात्रपरत्वं। तस्माद्वस्वादीनामप्राप्तफलत्वोक्तिर्युक्तैव। तथा स्वोपासनासम्भवोक्तिरपि युक्ता। तदुपासनया तद्भोगसाम्यप्राप्तेश्तत्प्रीतिद्वारत्वस्यौत्सर्गिकत्वेन वस्वादिषु प्रीणयितृत्वप्रीणनीयत्वरूपकर्तृकर्मभाव- विरोधात्। न हि स्वयमेव स्वात्मानं प्रीणयित्वा प्रीतात्स्वस्मात् फलंलभत इत्यस्ति सम्भवः। प्राणविद्यायांतु भगवत्प्रीत्यैव फललाभः। न हि तत्र स्वोपासनस्य स्वसमभोगप्राप्तिफलश्रवणमस्तीति। किंच ‘तन्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृत’ मिति श्रुतिः न देवादीनां" ब्रह्मविद्याधकारप्राप्त्यर्था। मनुष्याणामिव तेषामप्यर्थित्वादिसत्त्वे- नाधिकारस्य स्वतः प्राप्तत्वात्। किन्तु मधुविद्यायामधिकार इति पूर्वपक्षः। सिद्धान्तस्तु- वस्वादीनामपि तस्यामस्त्येवाधिकारः। तेषामपि स्वान्तर्यामितया ब्रह्मोपासनसम्भवात् ‘य एतामेवं ब्रह्मोपनिषदं वेदे’ त्युपसंहारे ब्रह्मविद्यात्वश्रवणात् तेषामपि भाविवस्वादित्वप्राप्तिपूर्वकब्रह्मप्रेप्सासम्भवाच्च। एतेन पूर्वपक्ष्यापादितः प्रीणयितृप्रीणनीयैक्यापत्तिमूलस्सर्वोऽपि दोषो निरस्तः। वस्वादिभिस्स्वान्तर्यामितयोपास्यस्य सर्वेश्वस्यैव प्रीणनीयत्वात्। तस्माद्वस्वादीनागपि स्वप्रीणनीयोपास्यतत्फलप्रेप्सयोस्सम्भवात् अस्ति मधुविद्याधिकारः। एवं वाय्वादीनां संवर्गविद्याद्यधिकारोऽपि द्रष्टव्यः। नन्वग्न्यादिभ्य उपरि स्थितानामिन्द्रादीनामर्चिरादिगतिस्मरणं" न सम्भवति। तच्च विद्याङ्गमिति ‘तदोकोग्रज्वलन’ मिति सूत्रे सूत्रकार एव ‘तच्छेषगत्यनुस्मृतियोगा’ दिति सूत्रांशेन स्फुटिकरिष्यति। अप्तोऽङ्गानुष्ठानाशक्तानां देवानां कथं विद्याधिकारः। यदि गतिस्मरणमदृष्टार्थं तदाऽर्चिरादिदेवता अपि मनुस्याणां मुच्यमानानां" अर्चिरादिका गतिरिति स्मरिष्यति। यदि त्वेवंभूतेन मार्गेण मया विद्यया परमपदं प्राप्यमिति स्मरणमहरहः कर्तव्या। यामुपासनायां" ऋत्विक्कर्तृकहविश्शेषभक्षणनियमस्तेषांकरिष्यमाणकर्मसन्तताविवोत्साहजननार्थं, तदाग्न्यादयः स्वस्वानपेक्षितांश विहायापेक्षितं" स्वपदान्मुपरित्थितं गत्यंशं स्मरिष्यन्ति। यथा ऋत्विजोऽश्वमेधादिषु अतिबहुपशुप्रभवहविश्शेषमध्ये अपेक्षितांशमात्रं भक्षयन्तीति न सङ्कटं किंचित्। ननु देवानां ब्रह्मविद्याधिकारचिन्तेयं क्कोपयुज्यते। न तावदस्मदादीनां प्रवृत्तौ। नापि देवानां। तेषां स्वकीये विग्रहवत्त्वे तत्प्रयुक्तसामर्थ्यादिमत्त्वे च स्वयमेवावगतिसद्भावात्। उच्यते- देवता न संति चेत् मधुविद्यादीनां वस्वादिपदप्राप्तिः" फलं न भवेत्। वरुणग्रहनिर्मोकादिवत् बाधितस्य फलत्वेन श्रुतस्यापि विधेयक्रियाफलत्वायोगात् अन्यदेव तत्फलं कल्प्यं स्यात्। अन्तरादित्यविद्यादिष्वादित्यदेवतान्तर्यामित्वेन ब्रह्मोपासनं न सिध्यत्। गत्यनुस्मृतावचेतनान्यर्चिरादीन्येव मार्गपर्वत्वेन चिन्तनीयानि स्युः। ’ भाक्तं वानात्मवित्त्वा’दित्यादिसूत्रोक्तन्यायेन यागादिफलं भुञ्जानानान्निरन्तरमाजानदेवकर्मकरतावगत्या वैराग्यं न सिध्यत्। मनुष्याणामेतादृशाभिमतासिद्धिः फलं देवतासद्भावप्रसाधनस्य। मंत्रार्थवादाः प्राप्तिविरोधयोरसतोः प्रतीयमानार्थे प्रामाण्यं न जहातीति देवताविग्रहप्रसाधनोपयोगिन्यायसमर्थनस्यापि ‘प्लवाह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म। एतच्छ्रेयो येऽभिनन्दन्ति ,मूढा जरामृत्यू ते पुनरेवापियंति॥ जायस्व म्रियस्वेत्येतत् तृतीयं स्थानं, तेनासौ लोको न संपूर्यते तस्माज्जुगुष्सेते’त्यादिमन्त्रार्थवादप्रामाण्यावधारणेन विवेकवैराग्यादिसिद्धिः फलमित्याद्यूह्यम्॥ संग्रहकारिके॥ तथाऽपि मधुविद्यायां वस्वादीनान्नविद्यते। अधिकारो विरोधाच्च प्राप्तत्वात्तत्फलस्य च॥ मैवं सा ब्रह्मविद्यातदधिगतिफला वर्णिता वाक्यशेषे तस्माद्वस्वादिशब्दे प्रविकसितपरब्रह्मपर्यन्तशक्तिः। स्वावस्थब्रह्मचिन्ताविधिषु न वलते कर्मकत्रैक्यशङ्का मुक्तेः प्राक् द्वारभूतं फलमपि घटते भावि वस्वादिप्राप्तिः॥ इति मध्वधिकरणम्॥8॥