मध्ये प्रासंगिकमधिकरणत्रयं पूर्वतंत्रगर्तेद्रपीताद्यधिकरणवत् गर्भाधिकरणतया प्रासंगिकं प्रवृत्तम्। संग्रहश्लोकेषु तु बुद्धिसौकर्यार्थं उपरितनसूत्रद्वयार्थोऽपि अत्रैव संगृहीतः॥ तदुपर्यपि बादरायणस्सम्भवात्॥25॥ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात्॥26॥ शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्यां॥27॥ अत एव च नित्यत्वं॥28॥ समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च॥ मनुष्याधिकारप्रसङ्गात् देवादीनां ब्रह्मविद्यायामधिकारोस्ति न वेति विचार्यते। तत्र पूर्वपक्षः- नास्त्यधिकारश्शरीररहितानां" तेषां ब्रह्मविद्यानुष्ठाने सामर्थ्याभावात्। न च तेषां शरीरवत्त्वे प्रमाणमस्ति। नच “वज्रहस्तः पुरन्दरः, इन्द्रोवृत्राय वज्रमुदयच्छ” दित्यादिमन्त्रार्थवादः तत्र प्रमाणं। अनुष्ठेयार्थस्मृतिस्तुत्यर्थानां तेषान्तत्र तात्पर्याभावात्। नच स्मृतिद्वारतया तत्सिद्धिः। सताचासताचस्तुतिदर्शनेन स्तुत्यर्थं द्वारभूतार्थसत्तानपेक्षणात्। न च स्तुत्यर्थं प्रतीयमानतामात्रेण तत्सिद्धिः। तात्पर्याभावे तदसिद्धेः, तात्पर्याधीिनत्वाच्छब्दप्रामाण्यस्य । नच तत्रापि तात्पर्यं, कल्पकाभावात्। प्रामाण्यनिर्वाहप्रयोजनपर्यवसानाय हि तत्कल्पनं। कर्मकाण्डवचसां विधिनिषेधाधीनप्रवृत्तिनिवृत्तिभ्यां ब्रह्मकाण्डवचसां स्वतः पुरुषार्थब्रह्मप्रतिपादनेन च प्रयोजनपर्यवसानं" लब्धमेव। न च देवतोद्देस्यकद्रव्यत्यागात्मकयागविधिवाक्यान्येव देवतापेक्षणीति वाच्यं। शरीररहितस्यापि उद्देशसम्भवेन ततस्तासां" शरीरापेक्षाऽसिद्धेः। न च क्षणध्वंसिनां कर्मणां कालांतरभाविफलसाधनत्वनिर्वाहाय द्वारापेक्षायां “तृप्त एवैवमिंद्रप्रजया पशुभिस्तर्पयती” त्याद्यर्थवादतः प्रतीतस्य देवताप्रसादस्य द्वारत्वेन परिग्राह्यतया तासां विग्रहादिपञ्चकसिद्धिः। अपूर्वस्य द्वारस्य सद्भावेन द्वारान्तरानपेक्षणात् ।नच अर्थवादप्रतीते देवताप्रसादे स्थिते नापूर्वं कल्प्यमिति वाच्यम्। देवतारहितेषु दानादिषु अपूर्वकल्पनाऽवश्यंभावात् यागहोमेष्वपि सम्प्रतिपन्नाचेतनदेवताकेषु चेतनदेवताकेष्वपि केषुचित् तत्कल्पनाऽवश्यम्भावाच्च। न ह्यश्वमेधे मेध्यस्याश्वस्य गुणक्रियांगान्युद्दिश्य “कृष्णाय स्वाहा श्वेताय स्वाहा यन्मेहसि तस्मै स्वाहा यच्छकृत्करोषि तस्मै स्वाहा दद्भ्यस्स्वाहा हनूभ्यां स्वाहे” त्यादिमन्त्रैः" किर्यमाणेषु होमेषु चेतनादेवतास्ति। न च तिर्यग्जन्मगतान् पितॄनुद्दिश्य क्रियमाणेषु श्राद्धेषु तिर्यग्भूताः पितरः फलप्रदानसमर्थाः। न च इन्द्रादयोपि कल्पावसानेषु निवृत्ताधिकारः कल्पावसानानुष्ठितभाविकल्पभोग्यफलयागादिफलप्रदानसमर्थाः। एतेन “यजदेवपूजाया"मिति स्मरणेन यागस्य देवताराधनरूपत्वात् तदाराधनानां राजाराधनवत् आराधनप्रसन्नाराधनीयदेयफलार्थत्वावश्यम्भावात् यागविधिसामर्थ्येन देवताविग्रहसिद्धिरित्यपि शङ्का निरस्ता। राज्ञश्शिशवः तत्पादुकादयश्च राजभृत्यैरुचितोपचारेण पूज्यन्ते। ज्योतिष्टोमे सोमलता पयोन्ननिवेदनेन पूज्यते। पितृमातृगुरुभर्त्रतिथिविद्यावृद्धादयश्च शुश्रूषादिभिः पूज्यन्ते। न च तेषां फलप्रदातृत्वमस्ति। राजकुमारादीनामुपंचारो राजादीनामेव पूजा, तेषाञ्च फलदातृत्वमस्तीति यद्युच्येत, तदा देवतानामिज्या वर्णाश्रमादिरूपाचारप्रवर्तकस्य सर्वेश्वरस्यैव पूजा, तस्य फलदातृत्वमस्तीति ततएव यागस्य देवपूजात्वसिद्धेः न तत इन्द्रादिदेवानां विग्रहसिद्धिः। एतेन “इन्द्रो ह वै देवानामभिप्रवब्राजविरोचनोऽसुराणा"मित्यादि ब्रह्मकाण़्डगतोपाख्यानैः इन्द्रादीनां विग्रहसिद्धिशङ्काऽपि निरस्ता। कर्मकाण्डगतोपाख्यानानामपि पारिप्लवाधिकरणन्यायत् तत्तद्विद्याविधिशेषत्वेन कर्मकाण्डगतैरिव ब्रह्मकाण्डगतैरपि अर्थवादैः स्तुतिद्वाराभूतार्थासिद्धेः। तस्माद्देवादीनां विग्रहरहितानां सामर्थ्याभावेन नास्ति ब्रह्मविद्यास्वधिकार इत्येवं प्राप्ते सिद्धांतः॥ ब्रह्मोपासनं मनुष्याणामुपरि ये देवादयः तेष्वपि संभवत्येव। न च विग्रहाभावेन तेषां सामर्थ्याभावः, सर्वास्वप्युपनिषत्सु सृष्टिप्रकरणेषु “नारायणद्ब्रह्मा जायते, नारायणाद्रुद्रोजायते, इन्द्रो वरुणस्सोमे रुद्र” इत्यादिवाक्यैः देवादीनां सृष्टिप्रतिपादनात्, सर्वासु श्रुतिषु इन्द्रादिपदानां कर्मविशेषफलत्वप्रतिपादनाच्च। तथा हि सामगानां सामविधिब्राह्मणे “मयिवर्च” इत्यनेन कल्पेन चत्वारि वर्षाणि प्रयुञ्जानः त्रयाणां लोकानामाधिपत्यं गच्छती"ति श्रूयते। त्रैलोक्याधिपत्यमिंद्रत्वमेव। तथा छन्दोगानामुपनिषदि- “वसूनामेवैको भूत्वाऽग्निनैव मुखेनैतदेवामृतं द्दष्ट्वा तृप्यती"त्यादिवाक्यैः वसुरुद्रादित्यमरुत्साध्द्याख्यगणदेवतापदप्राप्तिः मधुविद्याफलत्वेन प्रतिपाद्यते। तथा देवतावशीकरणस्य कर्मविशेषफलत्वश्रवणादपि तासां विग्रहसिद्धिः। तथा हि सामविधिब्राह्मणे श्रूयते- “यः कामयेतावर्तयेयामित्येकरात्रं” क्षुरसंयुक्तस्तिष्ठेत् सुतासांमधुमत्तमा” इति वर्गः। “एतेषामेकमनेकं वा सर्वाणि वा प्रयुञ्जानः एकरात्रेण कुटुंबिनमावर्तयति, द्विरात्रेण राजोपजीविनं, त्रिरात्रेण राजानं, चतूरात्रेण ग्रामं, पञ्चरात्रेण नगरं, षड्रात्रेण जनपदं, सप्तरात्रेणासुररक्षांसि, अष्टरात्रेण पितृपिशाचान्, नवरात्रेण यक्षान्, दशरात्रेण गन्धर्वाप्सरसः, अर्धमासेन वैश्रवणं, मासेनेंद्रं, चतुर्भिः प्रजापतिं, संवत्सरेण यत्किञ्चिज्जगत् सर्वं हास्थ गुणीभवती"ति। एवं देवतानां विग्रहसामान्यसिद्धौ “सहस्राक्षो गोत्रभिद्वज्रवाहुरस्मासुदेवो द्रविणं दधातु, चत्वारि शृङागा त्रयो अस्य पादा द्वेशीर्षे सप्तहस्तासो अस्ये"त्यादिमन्त्रैः इन्द्राग्न्यादीनां सहस्राक्षसप्तहस्तत्वादिविशिष्ट- विग्रहविशेषसिद्धिः। न च तेषु विग्रहविशेषप्रतिपादनानपेक्षा शङ्कनीया। “यां देवतां वषट्करिष्यन् स्यात्तांमनसाध्यानासम्भवात्, तथा अर्थवादैरपि वज्रहस्तत्वादिविशिष्टविग्रहसिद्धिः। अत एव शाबरभाष्ये प्रजापतिचपोत्खननादिवाक्यानामपि लाक्षणिकार्थपरिग्रहेण द्वारभूतस्याप्यर्थस्य सद्रूपता दर्शिता। किंच “इन्द्रो वृत्राये"त्यादिवादानां इन्द्रवृत्रादिशब्देभ्योपि विभक्त्युत्पत्त्यर्थमर्थवत्त्वन्तावदपेक्षितम्। तदभावे प्रातिपदिकत्वाभावेन विभक्त्यनुत्पत्तेः। अपेक्षितोर्थस्तदर्थवादैस्समर्पितो वज्रहस्तत्वादिरूप एव पर्यवस्यति। अपेक्षितार्थविशेषसमर्पणे विद्यमाने तं परित्यज्य अपेक्षापूरणार्थं अर्थांतरग्रहणायोगात्। ननु “नकिरिन्द्र त्वदुत्तरः न ज्यायो अस्ति वृत्रहन् नक्येवं” यथात्वं, आत्वा विशंत्विन्दवःसमुद्रमिव सिन्धवः, नत्वामिन्द्रातिरिच्यते, इन्द्रं विश्वा अवीवृधन् समुद्रव्यचसङ्गिरः” इत्यादयो मन्त्राः न केवलमिन्द्रं प्रकाशयन्ति। किन्तु सर्वोत्तरत्वसर्वसोमग्रहपात्रत्वसर्वाग्जाल- प्रतिपाद्यत्वादिभिरसदर्थैस्स्तुवन्त्यपि। अतो न स्तुतिद्वारा अर्थसत्तानियम इति चेत्, यत्र विरोधः तत्र “श्रृणोतग्रावाण” इत्यादिष्विव असदर्थावलम्बनत्वस्यापि दर्शनात्। यत्र न विरोधः तत्र औत्सर्गिकस्वतः प्रामाण्यवशादपि अर्थसत्ताऽभ्युपगन्तव्या। किमुत तदपेक्षायां। तस्माद्विधिमन्त्रार्थवादैर्देवादीनां” विग्रहसिद्धेः सामर्थ्यसद्भावात् मोक्षफलायां ब्रह्मविद्यायामस्त्यधिकारः। ननु मन्त्रार्थवादादिवशात् देवानां विग्रहवत्त्वाभ्युपगमे “अग्निमग्न आवह, इन्द्रागच्छ हरिव आगच्छ, अध्वर्यो द्रावयत्वं सोममिन्द्र पिपासति, उपोनूनं युयुजे बृषणा हरी, आ च जगाम वृत्रहा, कस्यवाऽहदेवा यज्ञमागच्छति कस्य वा न बहूनां यजमानाना"मित्यादिबहुतरमंत्रार्थवाददर्शनात् देवानां” यज्ञदेशागमनमपि अङ्गीकर्तव्यम्। कथमेकस्येन्द्रस्य युगपदनेकयज्ञदेशागमनं घटते। भूतवशिनान्तेषां योगिनामिव युगपत् बहुशरीरपरिग्रहसम्भवादिति ब्रूमः। “अग्नेस्त्रयो ज्यायांसो भ्रातर आसन् ते देवेभ्यो हव्यं वहन्तः प्रामीयन्त, अवाढ्ढव्यानि सुरभीणि कृत्वे"त्यादि श्रुतिषु लोकान्तरस्थदेवसमीपप्रापणार्थं हव्यवदृनश्रवणं तु येषु दर्वीहोमादिषु देवताह्वानं तदागमनं वा न श्रुतं तद्विषयं। यद्वा यज्ञदेशमागता देवाः हविर्गृहीत्वा “यद्वै देवा हविजुषन्ते अल्पमप्येकमाहुतिमपि तद्गिरिमात्रं वर्धत” इति यज्ञदेशागमनहव्यवहनश्रुत्योर्न विरोधः। माभूदिन्द्रादीनां विग्रहवत्वे कर्मणि विरोधः। शब्दे तु स्यात्, विग्रहाणामनित्वावश्यंभावेन तद्विशिष्टवाचिनामिन्द्रादिशब्दानां” तदुत्पत्तेः पूर्वं पश्चाच्च अर्थशून्यत्वस्य अनिवार्यत्वात्। यद्युच्येत डित्थादिसाङ्केतिकशब्दानामिव कादाचित्केनाप्यर्थेन अर्थवत्त्वमुपपद्यत इति तदाऽपि इन्द्रादिपूर्वापरकालयोः- “इन्द्रागच्छे"त्यादीनामर्थशून्यत्वमनिवार्यमिति चेन्न। इन्द्रादीनामिंद्रादिशब्दप्रभवतयेन्द्रादि- शब्दानां घटादिशब्दवत् प्रवाहनादिव्यक्तिपरम्परागजातिवाचित्वात्। यथा हि शिल्पी शिल्पशास्रावगतमिंद्राद्याकारं स्मृत्वा तदाकारां” प्रतिमां निर्माति, तथा प्रजापतिर्वेदावगतं पूर्वपूर्वेन्द्राद्याकारं स्मृत्वा तत्तदाकारविशिष्टानिंद्रादीन् सृजतीति हि “वेदेन रूपे व्याकरोत् सतासती प्रजापतिस्सभूरिति व्याहरत् स भूमिमसृजत स भुव इति व्याहरत् सोऽन्तरिक्षमसृजते"त्यादिश्रुतिषु श्रूयते। तथा स्मर्यते च “नामरूपं च भूतानां कृत्यादीनां प्रपञ्चनम्। वेदशब्देभ्य एवादौ देवादीनां चकार स” इति। ननु माभूदर्थद्वारको वैदिकशब्दे विरोधः। शब्दद्वारकस्तु स्यात्। मंत्रार्थवादादीनां हि प्रतीयमानार्थे प्रामाण्यमुपपादितम्। तथा च “मंत्रकृतो वृणीते” विश्वामित्रस्य सूक्तं भवति, संहिताकारपदकारसूत्रकारब्राह्मणकाराणा” मित्यादिप्रामाण्याद्वेदस्य पौरुषेयत्वनिवार्यमितिचेत् नायमपि दोषः। “विश्वामित्रस्य सूक्तं भवती"त्यादिवेदशब्देभ्यो विश्वामित्रादीनां तत्तत्सूक्तविशेषदर्शनादिरूपकृत्यविशेषान् नामरूपाणिचानुसन्धाय पूर्वकल्पानुष्ठितपुण्यवशात् विश्वामित्रादीन् सूक्तादीननधीत्यैव द्रष्टुं समर्थान् प्रजापतिः” सृष्ट्वा विश्वामित्रादिपदेषु निवेशयति। अनधीत्य तत्तत्सुक्तादिदर्शनसामर्थ्यमेव च मन्त्रकृत्त्वादिकं। ततो न वेदानित्यत्वापत्तिः। अथ स्यात चतुर्मुखस्य स्वमानेन परार्धद्वयजीविनः चतुर्युगसहस्ररूपैकैकदिवसात्मकस्य अवान्तरकल्पस्यावसाने तावत्कालप्रमाणरात्रिरूपे नैमित्तिकप्रलये भूर्भुवस्स्वरिति त्रैलोक्यमात्रस्य नाश इति वेदसत्त्वात् भवतुवेदशब्दपूर्विका तदनंतरसृष्टिः। तदीयवर्षशतावसाने तावत्प्रमाणोः यः प्राकृतप्रयकालः तदा व्याकृतप्रयन्तसर्वनाशे वेदस्यापि नाशावश्यम्भावात् कथन्तदनन्तरमहाकल्पादौ वेदशब्दपूर्विका सृष्टिः, कथञ्च प्राकृतप्रलये नश्यतो वेदस्य नित्यत्वमितिचेत् उच्यते- तदा वेदानां नाशो न दोषः, “छन्दांसि जज्ञिरेतस्मादि"ति श्रुतिषु महाकल्पादौ तेषामपि सृष्टिश्रवणात्। समानानुपूर्विकत्वरूपे तु नित्यत्वे नास्ति विरोधः। महाकल्पावृत्तावपि सृज्ज्यानां” समाननामरूपत्वात्। नच तदसिद्धिः। " यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मा” इति मन्त्रे महाकल्पादौ ब्रह्मसृष्ट्यनन्तरं” तस्मै वेदप्रदानश्रवणस्य ब्रह्मा शिल्पिन्यायेन पूर्वकल्पेन्द्रादिनामरूपाणि मन्त्रार्थवादेभ्योऽवगत्य तत्समाननामरूपानिन्द्रादीन् सृजत्वित्येतदर्थत्वात्, “तस्य सुप्तस्य देवस्य नाभौ पद्ममजायत। तस्मिन् पद्मे महाभावग वेदवेदाङ्गपारगः। ब्रह्मोत्पन्नस्सतेनोक्तः” प्रजास्सृजमहामत” इत्यादिस्मरणाच्च। तस्माद्देवादीनां विग्रहवतामर्थित्वसामर्थ्ययोगादस्तिब्रह्मविद्यायामधिकार इति सिद्धं॥ संग्रहकारिकाः॥ देवादीनामधिकृतिर्विद्यायां नैव विद्यते। तेषां विग्रहशून्यानां नखल्पवस्ति समर्थता॥ न च मन्त्रार्थवादेभ्यस्तत्सिद्धिप्रार्थनोचिता। आन्यपर्याद्विरोधाच्च दुर्वारात्कगर्मशब्दयोः॥ मैवम्मन्त्रार्थवादानां द्वारार्थेऽप्यस्ति मानता। न कर्मणि विरोधोऽस्ति नैकविग्रहसम्भवात्॥ न शब्दे जातिशब्दत्वात् सम्त्वान्नामरूपयोः॥ इति देवताधिकरणम्॥7॥