23 प्रमिताधिकरणम्

शब्दादेव प्रमितः॥23॥ त्द्दद्यपेक्षया तु मनुष्याधिकारत्वात्॥24॥ पूर्वत्राणीयस्त्वरूपं अल्पपरिमाणं परस्मिन्नुपपादितम्। इदानीमंगुष्ठमात्ररूपमप्यल्पपरिमाणं तस्मिन्नुपपाद्यत संगतिः। कठवल्लीषु श्रूयते–“अंगुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति। ईशानो भूतभव्यस्य न ततो विजुगुप्सत” इत्यादिः। किमयमंगुष्ठप्रमितो जीवः" परोवेति संशये जीव इति प्राप्तम्। “स विष्वरूपस्रिगुणस्रिवर्त्मा प्राणाधिपस्सञ्चरति स्वकर्मभिः। अंगुष्ठमात्रो रवितुवल्यरूप- सङ्कल्पाहङ्कारसमन्वितो य” इति तस्यांगुष्ठमात्रत्वश्रयणात्। न तु परः, तस्य क्वचिदपि तथात्वश्रवणाभावात्। एवञ्चोपक्रमभूतांगुष्ठमात्रत्वानुसारेण भूतभव्येशानत्वश्रवणं जीव एव देहेन्द्रियादिनियन्तृत्वादिविषयतया योजनीयमिति। ननु श्वेताश्वतरे- “अंगुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः। हृदा मनीषा मनसाभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ती"ति, तैत्तिरीयके- “अंगुष्ठमात्रः पुरुषोऽगुष्ठञ्च समाश्रितः। ईशस्सर्वस्य जगतः प्रभुः प्रीणाति विश्वभु"गिति परस्याप्गुष्ठमात्रत्वं श्रूयते। सत्यम्। परस्यांगुष्ठमात्रत्वश्रवणं” क्वचिदपि नास्तीति कृत्वाचिंतयेदमधिकरणम्। यद्वा तदपि मंत्रद्वयं “अंगुष्ठमात्रो रवितुल्यरूप” इति मन्त्रान्तरानुसारेण जीवपरमिति पूर्वपक्षी मन्यते। एवं प्राप्ते सिद्धान्तः– अंगुष्ठप्रमितः परमात्मा। भूतभविष्यदात्मकसर्वजगदीशितृत्वश्रवणात्। तस्य देहेन्द्रियादिनियन्तृत्वविषयतया सङ्कोचायोगात्। नन्वगुष्ठमात्रत्वं” प्रथमश्रुतमिति तदनुसारेण देहेन्द्रियादिनियन्तृत्वविषयतया चरमश्रुतं तत् योजनीयम्। तं स्वाच्छरीरात् प्रवृहेन्मुञ्जादिवेषीकां" धैर्येण। तं विद्याच्छुक्रममृत" मिति मंत्रे हृदयनिविष्टत्वश्रवणात् तदुपाधिकमंगुष्ठमात्रत्वं परमात्मनस्सम्भवतीति वाच्यम्। शाण्डिल्यविद्यायां- “एषम आत्माऽन्तर्हृदयेऽणीय"निति हृदयोपाधिकं परस्याणीयस्त्वमेव श्रुतम्। दहरविद्यायामपि तैत्तिरीयके- “तस्य मधये वह्निशिखा अणीयोर्ध्वा व्यस्थितः। तस्याश्शिखायमध्ये परमात्मा व्यवस्थित” इत्यणीयोवह्निशिखामध्यवर्तित्वोक्त्या परमात्नोऽप्यणीयस्त्वे तात्पर्यमवगतम्। तस्मादुंगुष्ठमात्रत्वं हृदयोपाधिकमित्येतत् न सम्भवतीतिचेत् सम्भवत्येव। दहरशाण्डिल्यविद्ययोहृदयकमलोर्ध्ववर्तिसुषिरवर्तितयोपास्यः” परमात्मेति तत्र तदवच्छेदोपाधिकमणीयस्त्वं, इह कृत्स्नहृदयवर्त्युपास्यो विवक्षित इति तदवच्छेदोपाधिकमंगुष्ठमात्रत्वमिति व्यवस्थोपपत्तेः। न च खरतुरगभुजगादीनां अंगुष्ठाभावात् अंगुष्ठमात्रत्वं हृदयोपाधिकमित्येतन्नव्यापकमिति वाच्यम्। मनुष्याणामुपासनाधिकारात् तेषाञ्च हृदयस्य तत्तदंगुष्ठप्रमितत्वात्। आराग्रमात्रस्य जीवस्य हृदयोपाधिनाऽप्यंगुष्ठमात्रत्वं न सम्भवतीति। अत्रेदं वक्तव्यम्। अंगुष्ठमात्रत्वं" जीवलिंगमेव। अंगुष्ठमात्रशब्देन हि अंगुष्ठाधिकपरिमाणव्यवच्छेदः क्रियते। न त्वंगुष्ठपरिमाणमपि विधीयते। एकस्य शब्दस्य उभयत्र तात्पर्यायोगात्। अत एव अग्नीषोमीयपशौ अध्रिगुप्रैषे छागस्य पार्श्वद्वयगतानामस्थ्नां वंक्तिशब्दवाच्यानामियत्ताप्रकाशकस्य “ष़ड्विंशतिरस्य वंक्रय” इति मंत्रस्य अश्वमेधपशौ अश्वे चोदकप्राप्तस्य तत्प्रकरणाम्नातेन “चतुस्रिंशद्वाजिनो देवबंधोर्वक्रीरश्वस्य स्वधितिसमेती"ति वैशेषिकमंत्रेण अपवादप्रसक्तौ तदपवादार्थेन “षड्विंशतिरेषां” वंक्रय"इति षड्विंशतिपदयुक्त एव सः प्राकृतोमंत्रः प्रयोक्तव्यः। न तु “अश्वस्तूपरो गोमृगस्ते प्राजापत्या” इति विहिताश्वतूपरगोमृगवंक्रीणां” समस्यवचन ऊहः कर्तव्य इति पूर्वपक्षे प्राप्ते॥ “षड्विंशतिरित्येव ब्रूया"दिति वाक्यस्यैवकारेण षड्विंशतिमात्रव्यतिरिक्तं यदन्यत् चतुस्रिंशदिति मत्रान्तरं प्राप्तम्, तन्नकर्तव्यमित्यत्र तात्पर्यावगमात् षड्विंशतिपदयोगेऽपि तात्पर्यकल्पने वाक्यभेदापत्तेः न्यायप्राप्तस्य अश्वतूपरगमृगवंक्रीणां समस्वचनरूपस्य ऊहस्य न बाध इति व्यवस्थापितं पूर्वतंत्रे नवमाध्याये। अत एव च भाष्यकारैरिहाधिकरणे “यावन्वा अयमाकाश” इति दहराकाशस्य परमात्मनो भूताकाशसमपरिमाणत्वोक्तिरयुक्ता, “ज्यायान् दिव” इत्यादिवाक्यान्तरे तस्य तदधिकरपरिमाणश्रवणादित्याशंक्य “यावन्वा” इत्यादिवाक्यं हृदयावच्छेदप्रयुक्ताल्पपरिमाणत्वनिवृत्तिमात्रपरम् न तु भूताकाशसमपरिमाणत्वपरमपीत्युक्तम्। एवमंगुष्ठमात्रत्वस्य अंगुष्ठाधिकपरिमाणव्यवच्छेदरूपतायामाराग्रमात्रत्वस्याप्याराग्राधिकपरिमाणव्यवच्छेदरूपत्वप्राप्तेराराग्रपरिमाणत्वमपि जीवस्य न स्यादिति चेत्। नास्त्येववस्तुततस्तस्याराग्रपरिमाणत्वमपि। अत एव “आराग्रमात्रोऽप्यवरोऽपि दृष्ट” इत्येतदनन्तरं” वालाग्रशतभागस्य शतधा कल्पितस्य च। भागो जीवस्स विज्ञेयस्सचानन्त्याय कल्पत" इति मंत्रेण आराग्रपरिमाणत्वादत्यल्पमतिसूक्ष्मं परिमाणान्तरं प्रतिपादितम्। तस्मादंगुष्ठाधिकपरिमाणव्यवच्छेदस्य परमात्मन्यनुपपत्तेः" जीवे तदुपपत्तेश्च जीव एवांगुष्ठमात्र इति निश्चिते तदनुसारेण चरमश्रुतं भूतभव्येशितृत्वं तस्मिन्नेव सङ्कोचनीयमिति पूर्वपक्षो वर्णनीयः। “अंगुष्ठमात्र " इत्येतन्मात्रशब्दस्य अवधारणार्थं परिगृह्य अंगुष्ठपरिमाणाधिकपरिमाणव्यवच्छेदपरत्वं न कल्पनीयम्, किं” तु शब्दस्य “प्रमाणे द्वयसच्दघ्नच्मात्र च” इति प्रमाणार्थविहितमात्रच् प्रत्ययरूपत्वं परिगृह्य अंगुष्ठसमपरिमाणत्वपरत्वकल्पनं" युक्तम्। भावरूपलध्वर्थपरिगृह्ये सम्भवति अभावद्वयघटितगुर्वर्थकल्पनायोगात्। एवं च अंगुष्ठमात्रत्वं परमात्मन्येव सम्भवति। अधिकपरिमाणस्य अल्पपरिमाणावच्छेदोपाधिकाल्पत्वस्य व्योमादिषु दृष्टत्वात्। वालाग्रायुतांशपरिमाणस्य जीवस्य तु हृदयावच्छेदप्रयुक्तमप्यंगुष्ठमात्रत्वं" न सम्भवति। अल्पपरिमाणस्य अधिकपरिमाणवकवस्तुमध्यवर्तित्वप्रयुक्ताधिकपरिमाणत्वव्यपदेशस्य क्वचिदप्यदर्शनात्। जीववाक्येषु अंगुष्ठमात्रत्वश्रवणन्तु अंगुष्ठाधिकपरिमाणव्यवच्छेदविषयत्वेनोपपादनीयम्। एकस्यापि शब्दस्य तत्र तत्र उचितार्थभेदसम्भवात्। यद्वा- तेषु हृदयशततमनाड्यवच्छेदोपाधिकयोर्धर्मज्ञानगतयोरंगुष्ठमात्रत्वाराग्रमात्रत्वयोस्तस्मिन् सद्वारकान्वयः। नचेहांगुष्ठवाक्ये सद्वारकान्वयः कल्प्यः। परमात्मनि साक्षात्तदन्वयसम्भवादिति सिद्धांतो वर्णनीयः। यद्येवं प्रथमश्रुतेन अंगुष्ठमात्रत्वलिंगेनैव परमात्मेति निर्णयसम्भवे किमिति तन्निर्णयार्थं ईशानश्रुतिस्सूत्रकारेणाश्रिता। तस्यास्सर्वेश्वरे रूढतया ततो झटिति निर्णयमभिप्रेत्य। अत एव सूत्रे “शब्दादेवे"त्येवकारः। आस्तां यौगिकार्थविचारावगम्याल्लिंगान्निर्णयः रूढतयाऽभिधानश्रुतिरूपादीशानशब्दादेव तावन्निर्णयस्संभवतीतिहि तदाभिप्रायः। तस्मादंगुष्ठप्रमितः परमात्मेति सिद्धं॥ संग्रहकारिकाः॥ अंगुष्ठमात्रः पुरुश्शरीरी श्रुत्यन्तरे तस्य तथा प्रसिद्धेः। ईसानतात्वस्तु जघन्यपाठात् तद्भोग्यभोगस्थितिहेत्वपेक्षा॥ ईशानशब्दस्वरसोपनीतस्सर्वस्य नेता पुरुषोत्तमोऽसौ। अंगुष्ठमात्रत्वमणौ विभौ च स्वारस्यहीनं हृदयपेक्षयाऽस्तु॥ अस्माद्भयेन जगतः प्रवृत्तिरुक्ता स्वकार्येषु। अस्य च निरवधि दृष्टं सर्वानुग्राहकं ज्योतिः॥ यदिदं किंचेति मनौ न तत्र सूर्यइति मंत्रे च। आभ्यामपि लिंगाभ्यां परमात्मांऽगुष्ठमात्रोऽसौ॥ इति॥ “हृद्यपेक्षयात्वि” त्येतावतीह स्थितमधिकरणं कम्पनात् ज्योतिर्दर्शनादिति सूत्राभ्यामुत्तरत्र समापयिष्यते। कम्पनात्॥40॥ एवं प्रासंगिकेऽधिकरणत्रये वृत्ते यदंगुष्ठाधिकरणान्ते स्थितमुत्तरत्र समापयिष्यतइत्युक्तं, तत्सूत्रद्वयेन समापयति- “अंगुष्ठमात्रः” पुरुषो मध्य आत्मनी"ति " अंगुष्ठमात्रः पुरुषोऽन्तरात्मे"त्यनयोर्मन्त्रयोर्मध्ये “यदिदं किं च जगत्सर्वं प्राण एजति निस्सृतम्। महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ती"ति मन्त्रः पठ्यते। अस्यार्थः। अस्मिन्नंगुष्ठमात्रे पुरुषे प्राणशब्दनिर्दिष्टे स्थिते ततो निस्सृतमिदं सर्वं जगदुद्यतवज्रतुल्यादेतस्माद्यन्महतोभयं तस्माद्धेतोः एजति- कम्पते। तच्छासनातिवृत्तौ प्रत्यवायो भवष्यतीति भयात् स्वस्वकार्येषु प्रवर्तत इत्यर्थः। “भयादस्याग्निस्तपति भयत्तपति सूर्यः। भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चम” इत्यनन्तरमंत्रे आग्न्यादीनामंगुष्ठमात्रनिमित्तभयहेतुकस्वस्वव्यापारप्रवृत्त्युपन्यासादिहापिमंत्रे “महद्भयं वज्रमुद्यत” मिति प्रथमानां पञ्चम्यर्थतां कम्पत इत्यस्य स्वस्वव्यापारप्रवृत्यर्थताञ्चोलोच्यैवं व्याख्यातम्। एवंरूपात् कम्पनादपि अंगुष्ठप्रमितः परमात्मा॥ व्योतिर्दर्शनात्॥41॥ तयोरेव अंगुष्ठमात्रविषययोर्मन्त्रयोर्मध्ये " न तत्र सूर्यो भाति न चं द्रतारकं नेमा विद्युतो भा्ति कुतोऽयमग्निः। तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाती"ति परमात्मासाधारणं सर्वतेजसां छादकं तेषां कारणभूतं अनुग्राहकञ्च अंगुष्ठमात्रपुरुषस्य ज्योतिर्दृश्यते। अत्र हि “तमेव भान्तमनुभाति सर्व” मिति तद्भानानुभानरूपभानपौर्वापर्योक्त्या सर्वतेजः- कारणत्वमुक्तम्। पूर्वार्धेन सर्वतेजश्छादकत्वमुक्तम्। चतुर्थपादेन सर्वतेजोऽनुग्राहकत्वमुक्तं। इदं परमात्मासाधारणम्। “तं देवा ज्योतिषां ज्योतिः, यस्यादित्यो भामुपयुज्य भाती” त्यादिश्रुत्यन्तरदर्शनात् आथर्वणस्यैव " न तत्र सूर्य” इति मन्त्रस्य पाठाच्च। एवम्भूतज्योतिर्दर्शनादपि अंगुष्ठमात्रः पुरुषः परमात्मा॥ इति प्रमिताधिकरणम्॥10॥