दहरुत्तरेभ्यः॥13॥ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गञ्च॥14॥ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः॥15॥ प्रसिद्धेश्च॥16॥ इरपरामर्शात्स इति चेन्नासम्भवात्॥17॥ उत्तराच्चेदाविर्भूतस्वरूपस्तु॥18॥ अन्यार्थश्च परामर्शः॥19॥ अल्पश्रुतेरितिचेत्तदुक्तम्॥20॥ अनुकृतेस्तस्य च॥21॥ अपि स्मर्यते॥22॥ पूर्वाधिकरणे ‘परात्परं पुरुशयं पुरुषमीक्षत’ इत्युक्तस्य पुरिशयस्य परमात्मत्वं समर्थितम्। इहापि तथैव पुरिशयस्य परमात्मत्वं" समर्थ्यत इति सङ्गतिः। छान्दोग्ये- ‘अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुंडरीकं वेश्मदहरोस्मिन्नन्तराकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं" तद्वाव विजिज्ञासितव्यः’ मिति ब्रह्मपुरशब्दोक्तशरीरान्तर्वर्तिहृदयपुण्डरीकमध्यवर्तित्वेन श्रुतौ दहराकाशो भूताकाशः।‘तस्मिन्यदन्त’रिति दहराकाशेऽन्तरन्वेष्टव्यतया श्रुतः परमात्मा। अथवा दहराकाशः परमात्मा। ‘तस्मिन् यदन्त’रिति श्रुतः तदीयोऽपहतामत्वादिगुणनिवह इति संशये भूताकाश इति तावत्प्राप्तं, अत्र रूढेः। ‘तस्मिन् यदन्त’ रिति श्रुतस्तु परमात्मा, न तु तदीयगुणनिवहः। ‘तदन्वेष्टव्य’मित्यस्य ‘तस्मिन्यदन्त’ रित्येतन्मात्रान्वयित्वेन गुणमात्रस्योपास्यत्वापत्त्या गुणिनोऽनुपास्यत्वप्रसङ्गात् । एवञ्च वाक्यशेषे श्रूयमाणाः सर्वे परमात्मधर्माः ‘तस्मिन् यदन्त’रिति निर्दिष्टे परमात्मन्यन्वयं" लभन्त इति न तेषामप्यनुपपत्तिरित। एवं प्राप्ते सिद्धान्तः- दहराकाशः परमात्मा। न भूताकाशः। वाक्यशेषगतेभ्यो हेतुभ्यः। वाक्यशेषे हि ‘यावन्वा अयमाकाशः तावानेषोऽन्तर्हृदय आकाश’ इति दहराकाशस्य भूताकाशात् भेदापेक्षः। तेनोपमानोपमेयभावो निबध्यते। तदनन्तरं" ‘अस्मिन्द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणी’ति प्रकृतं दहराकाशं अस्मिन्निति निर्दिश्य तस्य सर्वजगदाधारत्वमुच्यते। ततो ‘यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन् समाहित’ मित्यस्योपासकस्य लोके यद्भोग्यजातं वर्तते यच्च मनोरथमात्रस्पदमिह नास्ति सर्वं तद्भोग्यजातमस्मिन् दहराकाशे समाहितमिति तस्य निरतिशयभोग्यत्वेन तस्य निरतिशयानन्दत्वं प्रदर्श्यते। ‘तदेतत्सत्यं ब्रह्मपुर’ मिति तमेव दहराकाशमेतच्छब्देन परामृश्य तस्य सत्यभूतब्रह्माख्यपुररूपत्वमुच्यते। ‘ब्रह्मपुर’ मित्यत्र निषादस्थपतिन्यायेन सामानाधिकरण्यौचित्यात्। ततः ‘अस्मिन्कामास्समाहिता’ इति तमेव दहराकाशं ‘अस्मिन्निति’ निर्दिश्य काम्यभूतांश्च गुणान् ‘कामा’ इति निर्दिश्य तेषां दहराकाशान्तर्वर्तित्वमुक्त्वा तदेव दहराकाशस्य काम्यभूतकल्याणगुणविशिष्टत्वं तस्यात्मत्वञ्च ‘एष आत्माऽपहपाप्मा विजरो विमृत्युर्विशोको वलिजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्प’ इति वर्ण्यते। ततः ‘अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकषु कामचारो भवती’त्यात्मशब्देन परामृष्टं" तदन्तर्वर्तिनश्च काम्यानपहतपाप्मत्वादिगुणांश्च अनुसन्दधतां फलं प्रदर्श्यते। तथा ‘तद्यथाऽपि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो नविन्देयुरेवमेवेमास्सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढा’ इति ‘एत’मिति प्रकृतं दहराकाशं निर्दिश्य तत्र अहरहस्सर्वेषां गमनं गन्तव्यस्य तस्य ब्रह्मलोकशब्देन निर्देशश्च दृश्यते। परमात्मनि खलु सर्वेषामहरहस्सुषुप्तिकाले गमनमन्यत्राभिधीयमानं दृष्टम्, ‘एवमेव खलु सोम्येमास्सर्वाः प्रजास्सतिसम्पद्य नविदुः सतिसम्पत्स्यामह’ इति। ब्रह्मलोकशब्दश्च तस्मिन्दृष्ट ‘एष ब्रह्मलोकस्सम्राडिति होवाचे’ ति । तथा ‘अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाये’ति, प्रकृतदहराकाशं" ‘य आत्मे’ ति निर्दिश्य तस्य जगद्विधारकत्वं प्रतिपाद्यते। सच परमात्मनो महिमा। ‘एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाये’ति श्रुत्यन्तरात्। एतेभ्यो वाक्यशेषगतेभ्यो हेतुभ्यो दहराकाशः परमात्मा। आकाशशब्दस्य हिपरमात्मन्यपि वैदिकी प्रसिद्धिरप्यस्ति ‘आकाश इति होवाचे’त्यादिश्रुत्यन्तरे। ननु यदि ‘तस्मियदन्त’रित्येतत् परमात्मवर्तिगुणनिवहपरं स्यात्, न तु प्राधान्येन दहराकाशस्यापि। तस्यापि प्राधान्येन उपास्यत्वमुपपादनीयम्। ‘अथ य इहात्मानमनुविद्य व्रजत्येतांश्च सत्या कामा’निति वाक्यशेषानुसारादिति चेत्। सत्यं इत्थं तदुपपादनं। ‘तदन्वेशष्टव्य’मित्यत्र तत्पदेन प्रथमानिर्दिष्टमन्तर्वर्तिमात्रं न परामृश्यतेस, किं तु सप्तमीनिर्दिष्टो दहराकाशोऽपि। ‘त्यदादीनि सर्वैर्नित्यं, नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्या’मिति सूत्रैर्नपुंसकैकशेषस्य एकवचनस्यचोपपत्तेरित्युक्तं भाष्यादिषु। अत्रेदं विचार्यते- तदिति नपुंसक शेषत्वं ‘त्यदादीनि सर्वैर्नित्य’ मिति परसूत्रेणैव हि वक्तव्यम्। तत्र नैकवद्भावानुवृत्तिरस्ति। ‘एकवच्चास्यान्यतरस्या’मित्यत्र अस्येतद्यस्य नपुंसकसूत्रकृतैकशेषस्यैवायमेकवद्भाव इत्येतदर्थत्वात्। न च वाच्यं त्यदादिषु नपुंसकानपुंसकयोर्नपुंसकशेषसिध्यर्थं" ‘नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्या’मिति सूत्रस्याप्यनुवृत्त्या भाव्यमिति त्यदादिषु स च सा च ताविति स्रीपुंसकयोः पुंशेषसिध्यर्थं" स च तच्च ते सा च तच्च ते इति नपुंसकानपुंसकयोर्नपुंसकशेषसिध्यर्थं च ‘त्यदादितश्शेषे पुंनपुंसकतो लिंगवचना’नीति वार्तिककृतायत्नान्तरस्य कृतत्वात् तथैकवद्भावसिध्यर्थं भाष्यवार्तिकादिषु यत्नान्तरदर्शनात्। कथं तर्हि तंत्ररूपे ‘दधि मधु घृतं पयो धाना उदकं तंडुलास्तत्संसृष्टं" प्राजापत्य’मिति चित्रेष्टिविधिवाक्ये दध्यादिप्रत्येकद्रव्यको यागगणः न तु संसृष्टैकद्रव्यको याग इति सिद्धान्तसिद्धये तत्पदं" संसृष्टशब्दोक्तैकद्रव्यपरं न भवति, किं तु दध्याद्यनेकद्रव्यपरमित्युक्त्वा दध्यादिषु तदिति नपुंसकैकशेषाभ्यां निर्व्यूढुं अभ्युच्चायार्थं" तथा निर्वाहान्तरं कृतम्। सर्वनाम्नां प्रक्रान्तपरत्व एव स्वारस्येन प्रक्रंस्यमानपरत्वस्यानन्यगतिकत्वात् द्रव्यविशेषस्यैवाकांक्षापूरकत्वेन संसृष्टमात्रस्य प्रजापतिसम्बन्धानर्हत्वाच्च न्यायतस्तत्पदस्य दध्याद्यनेकद्रव्यपरत्वावश्यं भावेसति तदित्येकवचनोपात्तमेकत्वं ‘गुणेत्वन्याय्यकल्पने’ति न्यायेन पाशबहुत्ववदनिवक्षितमिति मुख्यहेतुक्तयनन्तरं अथवा ‘नपुंसकनमनपुंसकेनैकवच्चास्यान्यतरस्या’मिति स्मरणात् नपुंसकानपुंसकानेकाभिप्रायमुपि युक्तमेव तदिति नपुंसकैकवचनं एवं प्राजापत्यमपि द्रष्टव्यमित्युक्तत्वादिति। अत्रेदं" समाधानं ‘अन्वेष्टव्य’मित्यत्र नपुंसकानपुंसकैकशेषे कृते सति तत्रैकस्मिन्नर्थ इवैकवचनरुपं कार्यं भवत् तद्विशेषणे तदर्थानुपपत्तिनि सर्वनाम्न्यापि भवति, यथा ‘अस्मदोद्वयोश्चे’ति सूत्रेणास्मदर्थस्य एकत्वे द्वित्वे च बहुवचनं भवत् अस्मदर्थवर्तिनि क्रियापदेऽपि भवति वयं ब्रूमइति इहापि ‘शुक्लश्च शुक्ला च शुक्लञ्च शुक्लं वर्तत’ इति क्रियापदेऽपि एकवचनं दृश्यते तद्वत् सर्वनाम्न्यपि भवितुमर्हति। अत एव महाभाष्ये– ‘शुक्लश्च कम्वलः शुक्ला च बृहतिका शुक्लञ्च वस्रं तदितं शुक्लं तानीमानि शुक्नाली’ति द्विविधे नपुंसकसूत्रोदाहरणे कृतैकवद्भावमेव तदिति पदं प्रथमोदाहरणविशेषणं कृतम्। एं चित्रेष्टिवाक्येऽपि प्राजापत्यशब्दे नपुंसकसूत्रप्रवृत्तौ, तदन्तर्वर्तिनि तदिति पदेऽपि नपुंसकैकवचनं भवतीति तन्त्ररत्नाभिप्रायः। एवमिहापि ‘अन्वेष्टव्य’ मित्यत्र नपुंसकसूत्रेणैकवद्भावे कृते तदन्तवर्तिनि तदिति पदेऽपि नपुंकलिंगमेकवचनं च युक्तमेव। तस्माद्दहराकाशः स्वान्तर्वर्त्यपहतपाप्मत्वादिगुणनिवहेन सहोपास्यः" परमात्मैव। न भूताकाश इति सिद्धम्। ननु माभूदयं भूताकाशः, जीवस्तु स्यात्, दहरविद्याप्रकरणे– ‘अथ य एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत’ इति तस्य परामर्शादिति चेन्न। तत्र अपहतपाप्मत्वाद्यसम्भवात्। ननु दहरवाक्यादुत्तरस्मिन् प्राजापतिवाक्ये जीवस्याप्यपहतपाप्मत्वादिकमाम्नातम्। तत्र हि ‘य आत्माऽपहतपाप्त्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पस्सोऽन्वेष्टव्यस्सविजिज्ञासितव्यस्ससर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानाती’ ति प्राजापतिवचनमैतिह्यरूपेणोपश्रुत्य अन्वेष्टव्यात्मजिज्ञासया प्राजापतिमुपसेदुषे मघवते प्रजापतिना ‘य एषोऽक्ष्णि पुरुषो दृश्यते एष आत्मे’ति ‘य एष स्वप्ने महीयमानश्च रत्येष आत्मे’ति च ाजागराद्यवस्थात्रयवान् जीव एव जिज्ञासितापहतपाप्मत्वादि गुणकात्मेत्युपदिष्टः। सत्यम्। संसारदशायामविद्यातिरोहितापहतपाप्मत्वादिगुणको जीवः पश्चाद्विमुक्तकर्मरूपाविद्याबन्धः शरीरात् समुत्थितः परंज्ोतिरुपसम्पन्नस्सन्नपहतपाप्मत्वादिगुणविशिष्टः प्रजापतिवाक्येऽभिधीयते। ‘एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत’ इति जीवस्य परंज्योतिः प्राप्त्या तस्यापहतपाप्मत्वादिगुणकस्वरूपाभिनिष्पत्तिमुक्त्वा प्राप्यस्य परंज्योतिषः ‘स उत्तमः पुरुष’ इति पुरुषोत्तमत्वं विधाय ‘स तत्र पर्येति जक्षत्क्रीजन् रममाणस्स्रीभिर्वा यानैर्वा ज्ञातिभिर्वे’त्यादिना तं प्राप्नुवतो जीवस्य तल्लोकानुभाव्यमहाफलकीर्तनात्। दहरवाक्ये तु नित्याविर्भूतापहतपाप्मत्वादिगुण एव दहराकाशः प्रतीयते। तथाभूतापहतपाप्मत्वादिग्रहणसम्भवे कारणाधीनाविर्भावस्य तस्य ग्रहणायोगात्। तस्माद्दहराकाशे जीवत्वाशङ्का न कार्या। यद्येवं दहरविद्याप्रकरणे- ‘अस्माच्छरीरात्समुत्थाये’त्यादिना जीवपरामर्शः किमर्थः, दहराकाशस्य जगत्विधरणादिवत् जीवस्स्वरूपाविर्भावापादानरूपमहिमविशेषप्रतिपादनार्थः" प्रजापतिवाक्यसिद्धस्यार्थस्यायमनुवादः। ननु यदि दहरो न जीवः, कथं तर्ह्यल्पपरिमाणश्रवणमिति चेत्, अत्र वक्तव्यमुत्तरम् ‘सर्वत्र प्रसिद्धोपदेशा’ दित्यधिकरणे ‘निचाय्यत्वादेवं व्योमवच्चे’ ति पूर्वमेवोक्तम्। ननु संसारदशातिरोहितजैवापहतपाप्मत्वादिव्यतिरेकेण नित्याविभूतमन्यदपहतपाप्मत्वादिकमस्तीत्यत्रैव न प्रमाणम्। दहरविद्याप्रकरणे अपहतपाप्मत्वादिश्रवणस्य प्रजापतिवाक्यसिद्धसंप्रतिपन्नजैवापहतपाप्मत्वादिविषयत्वोपपत्तेः। अतो नित्याविर्भूतैरपहतपाप्मत्वादिभिः दहरो न जीव इत्येतन्नयुक्तम्। किंतु सूक्ष्मत्वलिंगात् दहरो जीव इत्येव यक्तमितिचेदुच्यते– परमात्मानुकाररूपा तत्साम्यापत्तिर्हि मुक्तिः। ‘यदा पश्यः पश्यते रूक्मवर्ण’मित्यादि श्रुतेः, ‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यधंतिचे’ति स्मृतेश्च। एवं च जीवस्य मुक्तावपहतपाप्मत्वादिगुणाविर्भावः परमात्मनो नित्याविर्भूतापहतपाप्मत्वादिगुणकत्वमन्तरेण न सम्भवति। अन्यथा जीवस्य मुक्तौ तत्साम्यापत्तययोगात्। अतो जीवस्य मुक्तिदशाविर्भाववत् जैवापहतपाप्मत्वादप्रतिपादकप्रजापतिवाक्यसामर्थ्यादेव परस्य नित्याविर्भूतमपहतपाप्मत्वादिकमस्तीति सिद्धेः तद्विषयत्वं दहरविद्याप्रकरणश्रुतस्य ‘य आत्माऽपहतपाप्मे’त्यादेर्युक्तमिति ततः परमात्मैव दहराकाशः न जीव इति सिद्धम्॥ संग्रहकारिकाः॥ युक्तो दहराकाशोः भूताकाशः प्रसिद्धत्वात्। अपहतपाप्मत्वाद्या गुणास्तदन्तरगतान्वयिनः॥ जीवोवाऽसो श्रवणादमुं प्रकृत्यैष संप्रदाय इति। संति च तत्रोक्तगुणाः प्राजापत्येन वाक्येन॥ मैवं परमात्माऽसौ स्वामिन्यभिहितगुणेभ्य इत्युचितम्। तस्माद्यदिति गुणोक्तर्गुणविषय इति तद्वृत्तम्॥ नित्याविर्भूतास्ते गुणा न सन्त्येव जीवस्य। संति तु परस्य लिंगान्मुक्तेस्तत्परमसाम्यरूपत्वात्॥ इति दहराधिकरणम्॥5॥