21 ईक्षतिकर्माधिकरणम्

ईक्षतिकर्मव्यपदेशात्सः॥12॥ प्रश्नोपनिषदि- ‘सयोह वै तद्भगवन्मनुष्येषु प्रायणांतर्मोकामभिध्यायीत कतमं वाव स तेन लोक्रं जयती’ ति पिप्पलादं प्रति सत्यकामप्रश्ने ‘एतद्वै सत्यकाम परञ्चापरञ्च ब्रह्म यदोङ्कारस्तस्माद्विद्वानेतेनैवायतनेन एकतरमन्वेती’ति तत्प्रतिवचनमुपक्रम्य ‘स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसमभिसम्पद्यते तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवत्यथ यो द्विमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकं स सोमलोके विभूतिमनुभूय पुनरावर्तत ’ इत्येकमात्रमोङ्कारमुपासीनस्य तत्प्रथममात्रात्मकऋक्प्रापणीयमनुष्यलोकप्राप्तिफलं द्विमात्रं तमुपासीनस्य तद्द्वितीयमात्रात्मकयजुः प्रापणीयांतरिक्षलोकप्राप्तिफलञ्चाभिधाय इदमाम्नायते– ’ यः पुनरेतं त्रिमात्रेण ओमित्यनेनैवाक्षरेण परंपुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षत’ इति। अत्र ध्यातव्यः" परमपुरुषएवेक्षणीयः। फलफलिनोरीक्षणध्यानयोरेकविषयत्वनियमात्, ‘परं पुरुष ‘मित्यत्र परत्वावधित्वेन विवक्षितस्यापि केभ्यश्चित् परत्वसम्भवेन ‘परात्परं पुरिशयं पुरुष ‘मिति निर्देशस्य ततो भेदावहत्वाभावादित स्थिते ध्यातव्य ईक्षणीयश्च पुरुषः किं जीवसमष्टिरूपश्चतुर्मुखः, उत सर्वेश्वर इति संशये चतुर्मुख इति तावत्प्राप्तम्। ब्रह्मलोकशब्दोदितचतुर्मुखलोकगतेनेक्ष्यमाणत्वात्। न च ब्रह्मलोकशब्दो भगवल्लोकपर इति वाच्यम्। मनुष्यलोकान्तरिक्षलोकप्रायपाठेन तस्यापि प्राकृतचतुर्मुखलोकपरत्वात्। न च जीवघशब्दो जीवसमष्टिरूपचतुर्मुखवाचीति तस्मात्परः पुरुषस्सर्वेश्वर एव स्यादिति वाच्यम्। तस्य व्यष्टिजीवसंघातवाचित्वोपपत्तेः। ‘घनाः कठिनसंघातमेघकाठिन्यमुद्गरा’ इति संघातेऽपि घनशब्दस्मरणात्। न च तथाऽपि व्यष्टिजीवसंघातात् परस्समष्टिजीव इति तस्मात्परः पुरुषस्सर्वेश्वर एव स्यादिति वाच्यम्। देहेन्द्रियादिभ्यः पराद्व्यष्टिजीवसंघातात् चतुर्मुखस्य परत्वोपपत्तेः। परजीवघनशब्दयोस्सामानाधिकरण्यसम्भवे वैयधिकरण्यकल्पनायोगात्। न च ‘ऋग्भिरेतं यजुर्भिरन्तरिक्षं सामभिर्यत्तत्कवयो वेदयन्ते तमोङ्कारेणान्वेति विद्वान् यत्तच्छांतमजरममृतमभयं परञ्चे’ ति तदनन्तरश्लोकोक्तममृतत्वादिकं सर्वेश्वर एवान्वेतीति तदनुसारेण परः पुरुषस्सर्वेश्वरस्स्यात् ध्यातव्यास्यैव प्राप्यत्वादिति वाच्यम्। उपक्रमानुसारेण औपसंहीरिकामृतत्वादेश्चतुर्मुखएवापेक्षिकामृतत्वादिरूपतया अन्वयोपपत्तेरिति। एवं प्राप्ते सिद्धान्तः– ईक्षतिकर्म परमात्मा। उत्तरमन्त्रगतात् अमृतत्वादिव्यपदेशात्,एतस्माज्जीवघनात्परापर"मिति व्यपदेशाच्च जीवत्वाविशेषेण हिरण्यगर्भस्याप जीवघनकोटिनिविष्टत्वात्। ब्रह्मलोकशब्दश्च भगवल्लोकपरः। सर्वपापविनिर्मुक्तप्राप्यत्वात्। “यत्तत्कवयो वेदयन्त” इत्यत्र “तद्विष्ण परमं पदं सदा पश्यंति सूरय” इत्यादिश्रुत्यन्तरसिद्धकविशब्दोक्तसूरिद्दश्यत्वलिङ्गात् ‘एतद्वै सत्यकामे’त्यादिना उपक्रान्तपरोपासनाप्रकरणाच् लिंगप्रकरणैः प्रायपाठस्य बाधेन तस्य अकिञ्चित्करत्वात्। ननु उपक्रमे परोपासनावत् अपरोपासनस्यापि श्रवणात् तदपि निरुपणायमितिचेत् सत्यम्। पूर्वमेव तन्निरूपितम्। पूर्वं हि तदुपासनं ऐहिकामुष्मिकत्वेन द्विधा विभज्य एकमात्रप्रणवेन तदुपासनस्य मनुष्यलोकावाप्तिं, द्विमात्रप्रणवेन तदुपासनस्य स्वर्गावाप्तिञ्च उपन्यस्य हि त्रिमात्रप्रणवेन परमपुरुषोपासनं प्रक्रान्तम्। तस्मात् ध्यानेक्षणविषयभूतः" परः पुरुषः सर्वेश्वर इति सिद्धम्॥ संग्रहकारिके॥ आदिष्टस्सत्यकामं प्रतिहि पुरिशयः पूरुषोह्येष वेधाः" पुंसा लोकं तदीयं समधिगतवता वीक्ष्यमाणत्वलिङ्गात्। उक्तोऽत्र ब्रह्मलोको न भवति हि परब्रह्मलोकस्तदा हि स्यादुक्तैकद्विमात्रप्रणवविदि फलप्रायपाठस्य बाधः॥ विष्णुरेष विजरामृततोक्तेः सर्वजीवपरताव्यपदेशात्। ब्रह्मलोकमिति तत्पदमुक्तं लिंगतो भवतु सन्निधिबाधः॥ इति ईक्षतिकर्माधिकरणम्॥4॥