20 अक्षराधिकरणम्

अक्षरमम्बरान्तधृतेः॥9॥ सा च प्रशासनात्॥10॥ अन्यभावव्यावृत्तेश्च॥11॥ यथा जीवादूर्ध्वपदेशात् भूमा न जीवः, एवं प्रधानादूर्ध्वमुपदेशात् अक्षरं न प्रधानमिति समर्थ्यतइति सङ्गतिः। वाजसनेयिनस्समामनंति– ‘एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति अस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छाय ’ मित्यादि। अत्राक्षरं प्रधानं परमात्मावेति संशये प्रधानमिति तावत्प्राप्तम्। ‘अक्षरात्परतः पर ’ इत्यादिषु अक्षरशब्दस्य प्रधाने प्रयोगात्। तथा ‘तदक्षरमधिगम्यत ’ इत्यादिषु परमात्मनि तस्य प्रयोगसत्त्वेऽपि प्रमाणान्तरप्रसिद्धश्रुतिप्रसिद्धयोः प्रधानपरमात्मनोर्मध्ये प्रमाणांतरप्रसिद्धस्य प्रथानस्य झटिति बुद्ध्यारोहेण प्रथमप्रतीतत्वात् अनुमानस्य प्रत्यक्षमात्रापेक्षापेक्षा श्रुतेर्व्युत्पत्तिग्रहादावुभयापेक्षेति आनुमानिस्याक्षरस्य श्रुतिप्रतिपन्नात् परमात्मनश्शीघ्रप्रतीतिकस्य श्रुतिलिंगादिषु पूर्वपूर्वस्य उत्तरोत्तरस्मादिव ततः प्रबलत्वात् अस्थूत्वादीनां" प्रधानेऽपि संभवेन भूतयोन्यक्षरइव परमात्मैकांतिकलिङ्गाभावात्। एवंप्राप्तेसिद्धांतः– अक्षरंपरमात्मा, नाव्याकृतं प्रधानम्। ‘एतस्मिन् खल्वक्षरे गार्ग्याकाशओतश्च प्रोतश्च’त्यव्याकृताधारतयाऽक्षरस्यो- पदेशात्। स्यादेतत्, आकाशशाब्दोयं भूताकाशपरोऽस्तु, प्रसिव्द्यतिलङ्घनायोगात्। यद्युच्येत अक्षरब्राह्मणात्पूर्वं गार्गिब्राह्मणे गार्गियाज्ञवल्क्ययोः प्रश्नोत्तरपरंपरायां ‘यदिदं" सर्वमप्स्वोतञ्च प्रोतञ्च कस्मिन्नु खल्वापओताश्च प्रोताश्चेति वायौगार्गीति कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेति अन्तरिक्षलोकेषु गार्गि’त्यारभ्य, ‘ब्रह्मलोकेषु गार्गि’ त्यन्तेन सन्दर्भेण पृथिवीसलिलवाय्वन्तरिक्षलोकगन्धर्वलोकादित्यलोकचन्द्रलोकनक्षत्रलोकदेवलोकेंद्रलोकप्रजाप- तिलोगब्रह्मलोकानां पूर्वपूर्वस्य उत्तरोत्तस्मिन् ओतत्वप्रोतत्ववर्णनानन्तरं ‘कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्च’ति पुनः पृष्टे याज्ञवल्क्येन ‘गार्गि मातिप्राक्षीर्मा ते मूर्धा व्यपप्तदनतिप्रशन्यो वै दैवतामतिपृच्छसि मातिप्राक्षी’ रिति सक्रोधमुक्ता भीता गार्ग्युपरराम। अनेन ब्रह्मलोकांतसकललोकाधारतया वक्त्व्या महती काचिद्देवतेति सूचितं। ततश्च बहुषुब्राह्मणेषु याज्ञवल्क्यविजिगीषया तेन सह जल्पकथायां पर्यायेण प्रवर्तमानेष्वनुप्रविष्टा गार्गी तदानीं भीत्योपरताऽपि स्वोपरमानन्तरमुद्दालके प्रसिद्धब्रह्मविदि सूत्रमन्तर्यामिणञ्च पृष्टवति याज्ञवल्क्येन जिते सर्वेषां ब्राह्मणानामेव परीजयोजायते, समाभूदिति मन्यमाना याज्ञवल्क्यं प्रक्ष्यामीति ब्राह्मणाननुज्ञाप्य ‘अहं वै याज्ञवल्क्य यथा काश्योवा वैदेहोवा उग्रपुत्रउज्जयं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ शरौ सपत्नातिव्यायिनौ’ हस्ते कृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यां उपोदस्थां तौ मे ब्रूही’ति द्वितीयप्रश्ननिवारणपरिजिहीर्षया प्रश्नद्वयानुज्ञां" युगपदेश याज्ञवल्क्यं प्रतिपृष्ट्वा पृच्छति तदनुज्ञाता ‘यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतञ्च भवच्च भविष्यच्चेत्याच्चत्याचक्षते कस्मिन् तदोतञ्च प्रोतञ्च’ति पृष्ट्वा ‘यदूर्ध्वं गार्गि दिव’ इत्यादिना ‘आकाशएवतदोतञ्च प्रोतंचे’त्यन्तेनोत्तरिते ‘कस्मिन्नु खल्वाकाशओतश्च प्रोतश्चे’ति द्वितीयप्रश्नस्य उत्तरतया ‘एतद्वैतदक्षर’मित्यादि ‘एतस्मिन् खल्वक्षरे गार्ग्याकाशओतश्च प्रोदश्चे’त्यन्तं कृत्स्नमक्षरब्राह्मणं प्रवृत्तं। तत्र गार्गिब्राह्मणांते याज्ञवल्क्येन यः प्रश्नस्सक्रोधं" निवारितः, सएव खलु गार्ग्या सर्वेषां ब्राह्मणानां पराजयोभविष्यतीति भीतया तस्य प्राग्वक्त्व्यतया उपक्षिप्ता देवता सेह आकाशशब्देनोदितेति सूचितं। एव़ञ्च कथमयमाकाशशब्दो भूताकाशपरस्स्यादिति तर्हि प्रधानपरोपि नस्यात्, तस्यापि देवतात्वाभावात्। तस्मात् प्रथानपरत्ववादिना इत्थं समाधेयं। पूर्वं ब्रह्मलोकांतसललोकाधारप्रश्ने यदव्यवहितोत्तरं तत्परदेवातविषयमित्याशयेन न तन्निवारणं, किंतु धृष्टैषा तस्याप्याधारं प्रक्ष्यति, सप्रश्नः परदेवताविषयोभविष्यतीति दूरद्दष्ट्या तन्निवारणं कृतमिति, तस्याकाशशब्दस्य भूताकाशविषयत्वेप्येवमेव समाधातुं शक्यमिति चेत्, उच्यते- ‘यदूर्ध्वं गार्गिदिव’ इत्यादिना ‘आकाशशब्दस्य भूताकाशपरत्वे घटते, तस्यापि विकारांतर्गतत्वात्, तस्मादिहाकाशपदमव्याकृतपरमिति तस्याप्याधारतयोपदिश्यमानमक्षरं परमात्मैव। नाव्यक्तम्। यत्तु श्रुतिप्रसिद्धात् प्रमाणातरप्रसिद्धं प्रथमं प्रतीयत इति तन्न। अक्षरशब्दस्य अश्नोति व्याप्नोतीति अवयवशक्त्या स्वार्थप्रतिपादने प्रमाणान्तरानपेक्षणात् व्युत्पत्तिदशायामर्थस्वरूपं येन प्रमाणेनावगतं तस्य प्रतिपादनदशायामनुपयोगात्। उक्तं" हि वार्तिके– ‘अर्थबोधेनपेक्षत्वान्मानांतरमनाद्दतं। व्युत्पत्त्युपायभूतं यत् तच्च तन्मात्रएव त्वि’ ति। किंच गोशाब्दादिसम्बन्धग्रहविषयसास्नावव्द्यक्त्यादिष्विव प्रधाने प्रत्यक्षे न प्रवर्तते, अनुमानमपि सांख्याद्यभिमतं तत्र न प्रवर्तत इति सांख्याधिकरणे वक्ष्यते, ततश्च ब्रह्मवत् प्रधानमपि श्रुत्येकगम्यमिति न प्रसिध्यप्रसिद्धिकृतोऽपि तयोर्विशेषः, तस्मात् सर्वविकाराधारत्वलिंगेन आकाशशब्दोदितमव्याकृतमित्यवगमात्, अक्षरशब्दोदित मव्याकृतमित्यत्र हेत्वसिद्धेश्च, आकाशशब्दोदितस्य अव्याकृतस्याधारतयोच्यमानमक्षरं" परमात्मैव। ‘तदा एतदक्षरं गार्ग्यद्दष्टं द्रष्ट्रश्रुतं श्रोतृ अमतं मन्तृ अविज्ञातं विज्ञातृ’ इति द्रष्ट्टच्वाद्युपदेशादप्यक्षरं" परमात्मा, नत्वव्याकृतं। ननु तर्ह्यक्षरं जीवास्तु, तत्र दर्शनाद्यविषयत्वस्य दर्शनादिमत्त्वस्य चोपपत्तेः। ‘यथा वा अरानाभौ समर्पिता एवमस्मिन् प्राणे सर्वं समर्पित’मिति श्रवणेन तस्यसकलचिद्वर्गाधारत्वोपपत्तेश्चेतिचेत् मैव- ‘एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठत’ इत्यादिना प्रशासनाधीनधारकत्वश्रवणात्। यद्यपि पर्यायेण देवमनुष्यादिजन्मवति जीवेपि द्यावापृथिव्यादिशासितृत्वं" तत्तददिकारोपयुक्तजन्मप्राप्त्याकथंचित्समर्थयितुं शक्यं, तथापि निरपेक्षशासितृत्वरूपं प्रकृष्टशासितृत्वं तत्पूर्वकजचन्द्रसूर्यादिधारकत्वञ्चास्मिन्नसम्भवत्येव। किंच सर्वैरद्दष्टस्य सतस्सर्वद्रष्ट्टत्वादिकं ‘नान्यदतोऽस्ति द्रष्ट्ट नान्यदतोऽस्ति श्रोतृ’ इत्यादिनाक्रियमाणं द्रष्ट्रन्तरनिषेधादिकञ्च जीवे नोपपद्यते, किंतु अन्तर्याम्यधिकरणोक्तरीत्या परमात्मन्येवोपपद्यते। तस्मादक्षरं परमात्मैव॥ संग्रहाकारिका॥ अक्षरमनुमितिगम्या प्रकृतिर्नागमनिरूपितं ब्रह्म। अनुमानमक्षरमात्रापेक्षं सहि तद्द्वयापेक्षः॥ मैवमव्याकृतधृतेः श्रौतं ब्रह्म तदक्षरं। श्रुतेरपेक्षा व्युत्पत्तौ न त्यर्थप्रतिपादने॥ द्रष्ट्टत्वश्रोतृत्वप्रमुखा नाव्याकृतं हि पश्यंति। न च जीवोऽक्षरमेतत् प्रशासितृत्वादिवैघट्यात्॥ इति अक्षराधिकरणम्॥3॥