19 भूमाधिकरणम्

भूमा सम्प्रसादादध्युपदेशात्॥7॥ धर्मोपपत्तेश्च॥8॥ मुण्ड केपरमात्मप्रकरणाविच्छेदेनं परमात्मत्वं साधितम्, तर्हि भूमविद्यायाः जीवप्रकरणाविच्छेदेन जीवपरत्वमिति उत्थामात्सङ्गतिः। छन्दोगास्समानंति। ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति सभूमा यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्प’ मिति। भूमशब्दः ‘पृथ्वादिभ्य इमनिज्वे ‘ति पृथ्वादिगणपठितात् बहुशब्दात् भावार्थे इमनिच्प्रत्यये ‘बहोर्लोपो भूच बहोरि’ति बहोः परस्य इमनिचः इकारलोपे बहुशब्दस्य भूइत्यादेशे च सति निष्पन्नो बहुत्ववाची। यद्यपि बहुत्वं वैपुल्यं संख्याविशेषश्च। तथाऽप्यत्र वैपुल्यमर्थः, ‘यत्रान्यत्पश्यति तदल्प’मित्यल्पप्रतियोगित्वश्रवणात्, पूर्वत्र ‘आकाशोवाव तेजसो भूया’ नित्यादौ बहुत्वसंख्याहीनेऽप्यकाशादिके वैपुल्यवति बहुशब्दनिष्पन्नभूयश्शब्ददर्शनाच्च। भूमशब्दोऽयमप्लशब्दनिर्दिष्टधर्मिप्रतियोगिविषयत्वादेव धर्मिपरः, न धर्ममात्रपरः। ततश्च भूमेति विपुल इत्यर्थः। वैपुल्यविशेष्यश्चात्मा। ‘तरति शोकमात्मवि’ दिति प्रकृत्य भूमानमुपदिश्य ‘आत्मैवेदं सर्व ‘मित्युपसंहारात्। तत्र किमयं भूमविशिष्टः प्रत्यगात्मा परमात्मा वेति संशये प्रत्यगात्मेति तावत्प्राप्तम्। आत्मजिज्ञासयोपसेदुषे नारदाय नामादिप्राणपर्यन्तेषु उपास्यतयोपदिष्टेषु ‘अस्ति भगवो नाम्नो भूयः, अस्ति भगवो वाचो भूय ‘इत्यादिप्रश्नतत्प्रतिवचनवच्च ‘अस्ति भगवः प्राणाद्भूय ’ इति प्रश्नस्य ‘अदोवाव प्राणाद्भूय’ इति प्रतिवचनस्यचाभावेन आत्मोपदेशस्य प्राणपर्यन्तताप्रतीतेः प्राणशब्दस्य प्राणसहचरिते प्रत्यगात्मनि वृत्त्युपपत्तेः, ‘प्राणोह पिता प्राणो माता प्राणो भ्राता प्राणस्स्वसे’ त्यादिचतनवाचिपित्रादिशब्दसामानाधिकरण्याच्च पित्रादिरूपजीववाचित्वावगमात्, नत्वयमात्मोपदेशः परमात्मविषय इति युक्तम्। ‘स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वा आचार्ये वा ब्राह्मणं वा किञ्चिद्भृशमिव प्रत्याह धिक्त्वास्त्वित्येवैनमाहुः पितृहावै त्वमसि मातृहावै त्वमसी’ त्यादिना सप्राणेषु पित्रादिषु अधिक्षिप्यमाणेषु हिंसोपक्रोशवचनात्। ‘अथ यद्यप्येनानुत्क्रान्तप्राणान् शूलेन समासं व्यतिषन्दहेन्नैवैनं ब्रूयुः पितृहासीति न मातृहासी’ त्यादिना तेषु उत्क्रान्तप्राणेषु शूलेन सम्यक्प्रक्षेपपूर्वकं व्यत्यस्य समन्तादृह्यमानेष्वपि हिंसाव्यवहाराभाववर्णनाच्च। नहि परस्य हिंस्यत्वमस्ति, न वा तस्योत््क्रान्तिरस्ति। न च प्राणशब्दोक्तजीवप्रतिपादनानन्तरं ‘एष तु वा अतिवदति यस्सत्येनातिवदति’ ति तुशब्देन तत्प्रकरणविच्छेदद्योतनात् ततःप्रभृति सत्यशब्दोक्तपरमात्मप्रकरणमिति तस्मिन् प्रकरणे प्रतिपाद्यमानो भूमा परमात्मैव स्यादिति शङ्कनीयम्। ‘सवा एष एवं पश्यन्नेवं मन्वान एं विजानन्नतिवादी भवती’ति प्राणवादिनो यदतिवादित्वं स्वोपास्यस्यान्यतउत्कर्षवादित्वरूपमुक्तं" तस्य ‘एषतुवा’ इति वाक्ये प्रत्यभिज्ञानेन प्रकरणविच्छेदाभावात्। ‘एष तु वा अग्निहोत्री यस्सत्यं वदती’त्युक्तौ प्रसिद्धाग्निहोत्रिण इव प्रकृतप्राणातिवादिनस्सत्यवदनमङ्गं विधीयते, सत्येव तु सत्यवचने अग्निहोत्रित्ववत् प्राणातिवादित्वं प्रतिष्ठितं भवतीत्येततदर्थतया तुशब्दसामञ्जस्यात्। तस्मात् प्रत्यगात्मैवात्र प्रतिपाद्यः। अत एव ‘अहमेवाधस्तादहमुपरिष्टा’ दित्यारभ्य ‘अहमेवेदं सर्व ’ मित्युपसंहारे प्रत्यगात्मन एव वैभवमुपदिश्यते, तस्य च भूमशब्देन ‘अहमेवाधस्ता ’ दित्यादिनाचोक्तं" वैपुल्यं मुक्तौ धर्मज्ञानविकासादुपपद्यत’ इति। एवं प्राप्ते सिद्धांतः– ‘एषतु वा अतिवदति यस्सत्येनातिवदती’ त्यत्र तुशब्दसत्यशब्दाभ्यां प्राणातिवादिनोऽन्यः सत्यादिवादी प्रतीयते। ‘अपशवोवा अन्य गोअश्वेभ्यः" पशवो गोअश्वा’नित्यत्र पश्वन्तरेभ्योगो अश्ववत् प्रकृतप्राणातिवादिनः सत्यादिवादी प्रशस्त इत्यपि प्रतीयते। ततश्च तस्मादेतस्य प्राशस्त्यं तदतिवदननिमित्तात् प्राणात् एतदतिवदननिमित्तस्य सत्यस्याधिक्येनैवेति पर्यवस्यतीत्यनेन वाक्येन प्रकृताज्जीवात् अधिकत्वेन भूमोपादिश्यते। नचात्र ‘एषतु वा अग्निहोत्री’ति वाक्यान्यायावतारः, तत्रहि द्रव्यदेवताऽन्तराभावेन अग्निहोत्रांतरप्रतीतेः तुशब्दस्वारस्यभङ्गः, इह प्रकृतातिवदननिमित्तप्राणव्यतिरिक्तसत्यशब्दोक्त परमात्मरूपातिवदननिमित्तान्तरप्रतीतेः किमिति तत्स्वारस्यभङ्गः कार्यः। सत्यशब्दोहि परमात्मवाचकः, छांदोग्यएव ‘तस्य ब्रह्मणोनाम सत्यमिती’ ति श्रवणात्। ‘सत्यने’ ति तृतीयाविभक्तिः करणत्ववाचिनी तस्यातिवदननिमित्तत्वमाह। अतस्तुशब्दस्यनामाकरणविभक्तिस्वरस्यभङ्गेन प्रकृतप्राणादिवादिविषयत्वककल्पनाया नावकाशः। अतश्च प्रकृतात् प्राणशब्दोक्तात् जीवादधिकत्वेनोपदेशात् सत्यशब्दोक्तोभूमा परमात्मा। नच ‘महतः परमव्यक्त’मिति श्रुतौ जीवादधिकत्वेनोपदिष्टे शरीरे व्यभिचारान्नायं हेतुरिति वाच्यम्। जीवाधिकात्मत्वेनोपदेशे तात्पर्यात्। एवं निरतिशयानन्दत्वश्रवणादपि भूमा परमात्मा। ननु सत्यशब्दोक्तोभूमैव प्रकरणी परमात्मा, प्राणशब्दोक्तोजीवस्तु तदधस्तनपर्वभूत इति सिद्धान्ते ‘अस्ति भगवोनाम्नोभूयः वाग्वावनाम्नोभूयसी’ त्यादि प्रश्र्नप्रतिवचनाभ्यां। न हि यदर्थमन्यत्प्रक्रांतं तदनुक्तिर्युक्तितिचेत्, उच्यते- पूर्वपर्यायेष्वनुक्तस्यातिवादित्वस्य प्राणपर्याये प्रतिपादनात् उपक्रांतात्मोपदेशः प्राणएव समाप्त इति मत्वा नारदे भूय- पृच्छति सनत्कुमारः प्राणविज्ञानमप्युक्रांतात्मविषयं नभवतीति न तेन सम्यगतिवादित्वं किंतु सत्येन परमात्मनेति सत्यविज्ञानं स्वयमेव उपचिक्षेप, ततः ‘सोहं भगवस्सत्येनातिवदानी’ति पृष्टवते तस्मै विज्ञानमतिश्रद्धादिसाधनरपरंपरया तमेव सत्यशब्दोक्तं परमात्मानं भूमानमुपदिदेश इत्येवमन्यथोपपन्नौ प्रश्र्नप्रतिवचनाभावौ। ननु ‘यत्रनान्य’ दित्यादिविषयवाक्यस्य यस्मिन् अधिकरणे अन्यन्नपश्यतीत्याद्यर्थप्रतीतेः ब्रह्मणि दर्शनश्रवणादिगोचरस्य सर्वस्य मिथ्यात्वेन निर्विशेषविषयन्तद्भूमवाक्यं प्रतिभाति, कथन्तदनन्तकल्याणु- गुणाकरस्य भगवत- प्रतिपादकं वर्ण्यते, कथञ्च ‘नपश्योमृत्युं पश्यति नरोगं नोत दुःखताम्। सर्वं हि पश्यः पश्यति सर्वमाप्नोति सर्वश’ इति मन्त्रेण भूमदर्शिनः सर्वदर्शित्वं वर्णयताऽपि दुःखादर्शनं" प्रतिपाद्यते। उच्यते– तत्र ‘यस्मि’ न्नित्यत्र अनुभूयमानइत्यध्याहारः कार्यः। न हि ब्रह्मसद्भावमात्रात्तस्मिन्नन्यस्यादर्शनादिकं भवति, अस्मदादीनामपि द्दश्यदर्शनाद्यभावापत्तेः। ‘यत्रे’ त्यस्य च निजसकलगुणविभूतिविशिष्टइत्यर्थः। भूमशब्दस्य ब्रह्मशब्दवत् त्रिविधपरिच्छेदराहित्यार्थकत्वात् तद्वैशिष्ट्येन च दर्शनं च सत्येव च सर्वस्य तदन्तर्गतत्वात् निजसकलगुणविभूतिविशिष्टात् तस्मादन्यस्य ततः पृथग्भूतस्यादर्शनादिवचनमुपपद्यते। यदितु विभूतिरैश्वर्यं नियमनरूपं, तदा तन्नियाम्यस्य प्रतीतिसापेक्षमिति नियाम्यरूपप्रतियोगितया सर्वस्यापि दर्शनादिकमोपेक्षितं। अस्त्वेवं, तथापि कथं दुःखादर्शनमुपपादानीयं, भूमविभूत्यन्तर्गततया सकल संसारिगतदुःखानामपि दर्शनस्यानिवारणात्। ततश्च समन्वयाधिकरणोक्तरीत्या सुखसाक्षात्कारमात्रस्य पुरुषार्थत्ववत् दुःखसाक्षात्कारमात्रस्य हेयत्वं वाच्यमिति भूमानं पश्यतो मुक्तस्य संसारदशापेक्षयाऽप्यधिकदुःखानुभवत्वं स्यात्। न च ब्रह्मविभूतितया अनुभूयमानं सर्वं सुखरूपमेव स्यादितिवाच्यं। ब्रह्मणोऽन्यतया संसारिभिरनुभूयमानं दुःखरूपं परिमितसुखरूपञ्च भवत् ब्रह्मविभूतित्वेनानुभूयमानं सुखरूपं भवतीत्यस्य विरुद्धत्वात्, एकस्यसुखदुःखोभयरूपतानुपपत्तेरितिचेत्, उच्यते– कर्मवश्यैर्ब्रह्मान्यत्वेनानुभूयमानं जगत् तेषां तत्तत्कर्मानुरूपं दुःखरूपं परिमितसुखरूपञ्च भवति, कर्मरूपाविद्याविमुक्तस्य तदेव जगत् विभूतिगुणविशिष्टब्रह्मानुभवान्तर्गतं सुखमेव भवति, यथा पित्तोपहतेन पीयमानं पयः पित्ततारतम्येन दुःखरूपमल्पसुखञ्च भवति, तदेव पयः पित्तानुपहतेन पीयमानं सुखात्मकमेव भवति, यदा हि यदनुभूयमानं पुरुषानुकूलं भवति तदा तत्सुखं, यदातदननुकूलं तदा तदेव दुःखं। अतएव हिमातपादीनां निदाघहेमताद्यवस्थाभेदेन सुखदुःखोभयरूपत्वमिति न काचिदनुपपत्तिः। यत्तु ‘अहमेवाधस्ता’दित्यादि ‘सएवेदं सर्व ’ मित्यन्तस्य स्वरूपेणोपासनार्थ, ‘आत्मैवाधस्तादित्यादि ‘आत्मैवेदं सर्व ’ मित्यन्तं विद्वदन्तर्यामित्वेनोपासनार्थं, ‘तस्यह वा एतस्यैवंपश्यत एवं" मन्वानस्यैवं विजानत आत्मतः प्राणआत्मतआशा आत्मतस्समर ’ इत्यादिना प्रकृतादात्मनः प्राणाद्युत्पत्तिप्रतिपादने प्रकृतस्यात्मनो विद्वांसं प्रत्यात्मत्वं विशिष्योक्तं। एवं त्रेधा तस्य सर्वात्म्योपदेशः त्रिविधोपासनासिद्ध्यर्थं इति न कस्यापि वैयर्थ्यमिति विवेक्तव्यम्॥ संग्रहकारिकाः॥ भूमा प्राणस्तस्मात् ऊर्ध्वन्नाम्न इव वागादेः। प्रश्नप्रतिवचनाभ्यां विनैव भूम्नोऽवतारणतः॥ प्राणश्च जीवएव स्फुटमात्मोपक्रमोपसंहारात्। मातृत्वादिश्रवणात् हिंस्यत्वोक्तेरहंत्ववचनाच्च॥ सत्यं प्राणो जीवः स न भूमा किं तु पुरुष एव परः। एष तु वा अतिवदतीत्यत्र तुशब्देन पूर्वविनिवृत्तेः॥ निरतिशयानन्दत्वश्रवणादपि यत्र नान्यदित्यादौ। अहमेवाधस्तादित्यहं ग्रहो दर्शितस्तस्मिन्॥ इति भूमाधिकरणम्॥2॥