18 द्युभ्वाद्यधिकरणम्

॥अथ तृतीय पादः॥ द्युभ्वाद्यायतनं स्वशब्दात्॥1॥ मुक्तोपसृप्यव्यपदेशाच्च॥2॥ नानुमानमतच्छब्दात्प्राणभृच्च॥3॥ भेदव्यपदेशाच्च॥4॥ प्रकरणात्॥5॥ स्थित्यदनाभ्याञ्च॥6॥ आथर्वणिकाः समामनंति– ‘यस्मिन् द्यौः पृथीवी चांतरिक्षमोतंमनस्सप्राणैश्च सर्वैः तमेवैकंजानथात्मानमन्यावाचो विमुंचथ अमृतस्यैषसेतुरिति। अत्र द्युभ्वाद्यायतनं जीवः परोवेति संशये जीवइति तावत्प्राप्तं, ‘अराइव रथनाभौ संहतायत्र नाड्यः सएषोऽन्तश्चरते बहुधा जायमन इति उत्तरमत्रे नाड्याधारत्तवशरीरांतस्संचारजन्मवत्त्वानां जीवलिंगानामाम्नानात्, तत्र आदिमन्त्रे ‘ओतं मनस्सह प्राणैश्च सर्वै’रिति मनः प्राणाश्रयत्वरूपजीवलिंगाम्नानात्, ‘एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पंचधा संविवेष। प्राणैश्चित्तं सर्वभोतं" प्रजानां यस्मिन् विशुद्धे विभवत्येव आत्मे’त्यन्यत्र जीवे मनः प्राणयोरोतत्वश्रवणात्। द्युपृथिव्याद्यायतनत्वन्तु जीवस्य अदृष्टद्वारा सङ्गमयितव्यमित्येवं प्राप्तेऽभिधीयते– द्युभ्वाद्यायतनं परमात्मा, तदसाधारणामृतसेतुत्वश्रवणात्, अमृतसेतुत्वं ह्यमृतत्वप्रापकत्वं, सेतुर्हि नद्यादिषु कूलस्य प्रतिलम्भकः। एवं संसारार्णवपारभूतस्यामृतस्य प्रतिलम्भक इत्यर्थः। आत्मशब्दश्चात्र स्वशब्दः, सह्याप्नोतेर्मन्प्रत्यये बाहुलके दकारे च सति निष्पन्नः। नियंतृत्वेन सर्वत्र व्याप्तिमति परमात्मन्येव मुख्यवृत्तिः। नाड्याधारत्वं परस्यापि सम्भवति ‘सन्ततं सिभिस्तु लम्बत्याकोशसन्निभ’मित्युपक्रम्य ‘तस्याश्शिखायामध्ये परमात्मा व्यवस्थित’ इत्याम्नानात्। बहुधा जायमान्तवमपि तस्यास्ति, ‘अजायमानो बहुधा विजायते, अजोऽपि सन्नव्ययात्मा भूतानामूश्वरोऽपि सन्। प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायये’ त्यादिश्रुतिस्मृतिदर्शनात्। किंच ‘यदा पश्यः पश्यते सुक्मवर्णं कर्तारमूशं पुरुषं ब्रह्ययोनिं। तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति, यथा नद्यस्स्यन्दमापास्समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान्मारूपाद्विमुक्तः परात्परं" पुरुषमुपैतिदिव्य’मिति मुक्तप्राप्यत्वश्रवणादपि द्युपृथिव्याद्यायतनं परमात्मा। अपि च यथाऽस्मिन् प्रकरणे प्रधानप्रतिपादकशब्दाभावात् न प्रधानं द्युपृथिव्याद्यायतनं, एवंजीवोऽपि, तत्प्रतिपादकशब्दस्याप्यभावात्, ननु इदं दृष्टांतदार्ष्टान्तिकद्वयमप्युक्तं। तथाहि– प्रधानस्य तावत् ‘यस्मिन् द्यौ’रित्यादिरेव तच्छब्दः, अक्षरब्राह्मणे ‘यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या ’ इत्यादिना प्रधानस्य द्युपृथिव्यादिसकललोकाधारत्वप्रतिपादनात् ‘यस्मिन् द्यौ’ रित्यस्य गच्छब्दयोगेन तदनुवादत्वप्रतीतेः। नच तस्मिन् ‘अमृतस्यैषसेतु’ रिति व्यपदेशानुपपत्तिः। अमृतश्दोह्यत्र ब्रह्मपरः, नत्वमृतत्वरूपमोक्षपरः। ‘यस्मिन् द्यौ’ रिति मन्त्रात्पूर्व ‘तदेतत्सत्यममृत’मिति ‘आनन्दरूपममृतं यद्विभाती’ति च ब्रह्मणि अमृतशब्दाम्नानेन तस्यैव अत्रामृतशब्देन प्रत्यभिज्ञानात्। अतः प्रधानं ‘अमृतस्यैषसेतु’रिति व्यपदेष्टुं शक्यम्। ब्रह्माधीनत्वेन ब्रह्मसंबन्धित्वात्। ‘सेतु’ रित्यपि व्यपदेष्टुं शक्यम्। सेतु शब्दोहि ‘षिञ्बन्धन् ’ इति धातोः व्युत्पन्नोबन्धहेतुमाचष्टे। नच बन्धहेतुमात्रं जलबन्धहेतुमात्रं वा तदर्थः, घटोदरनिस्सरज्जलबन्धहेतुमधूच्छिष्टादौ तदप्रयोगात्, किंतु पारावारमध्यवर्तित्वविशेषितं जलबन्धनहेतुत्वं तदर्थः, तस्मादिह लक्षकेण सेतुशब्देन पारवत्त्वं लक्षयितुं युक्तं, सहजत्वात् शब्दार्थैकदेशत्वाच्च। पारवत्त्वन्तु प्रधानस्यैव अस्ति, न ब्रह्मणः, ‘महद्भूतमनंतमपार’मिति श्रुतेः। आत्मशब्दोऽपि देहपरतया तस्मिन्नुपपद्यते, ‘आत्मा जीवे धृतौ देह ’ इत्यादिस्मरणात्। ‘अन्यवाचो विमुंचथे’त्येतदपि प्रधानमेव देहं जानीध्वं स्थूलदेहविषयास्तु देहत्ववाचो विमुंचथ देहविविक्तात्मज्ञानार्थं हि देहोमुमुक्षुभिर्ज्ञातव्यः, सतु न स्थूलदेहः, आगमापायिनः ततो विवेकस्य मुज्ञानत्वात्। किंतु अन्तःकरणादिरूपापन्नाव्याकृतात्मा सूक्ष्मदेह इति, तस्मात् प्रधानं द्युभ्वाद्याधार इति घटते। जीवइति पक्षोऽपि घटते, जीवोपकरणानां तेषां जीवादृष्टायत्तोत्पत्तिस्थितिकत्वेन तदाश्रितत्वव्यपदेशोपपत्तेः। यथावा असनाभौ समर्षिताएवमस्मिन् प्राणे सर्वं समर्पितमिति भृमविद्यायां, ‘एवमेताभूतमात्राः प्रज्ञामात्रस्वर्पिता ’ इति प्रतर्दनविद्यायांच, अचिद्वर्गस्य जीवाश्रितत्वप्रतिपादनाच्च। ‘एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पंचधा संविवेशे’ति ‘प्राणैश्चित्तं सर्वमोत प्रजानां यस्मिन्विशुद्धे विभवत्येषआत्मे’ति मुण्डकएव अग्रे मनसः प्राणानांच जीवाश्रितत्वप्रतिपादनात्। आत्मशब्दश्च तस्मिन्नुपपद्यते ‘प्रणवोधनुश्शरोह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते। अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवे’दिति प्राचीनमन्त्रे तत्रैव आत्मशब्दस्य प्रयुक्तत्वात्। तमेवैकं जानथात्मन’मित्येतदपि तस्मिन्नुपपद्यते। ‘मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं सन्निधाय। तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाती’ति जीवविज्ञानस्य ब्रह्मदर्शनहेतुत्वोक्त्या तस्याप्राधान्येन अपेक्षितत्वात्। ‘अन्या वाचो विमुञ्चथे’त्येतदपि तस्मिन्नुपपद्यते। ‘धनुर्गृहीतत्वौपनिषदं" महास्रं शरंह्युपासानिशितं सन्दधीत। आयम्य तद्भावगतेन चेतसा लक्ष्यन्तदेवाक्षरं सोम्य विद्धी’ति व्यवहितपूर्वमंत्रे देहस्थौल्यादिविशिष्टतया भासमानस्य जीवस्य उपासनया देहादिविवेकदार्ढ्यापादनेन तनूकरणोक्तेः, जीवोपासनायाञ्च तदन्यविषयवाग्विमोकावश्यम्भावात्। ‘अमृतस्यैष सेतु’रिति व्यपदेशस्तु प्रधाने वर्णितयैव रीत्या जिवेप्युपपद्यते। तस्मात् प्रधानजीवपक्षयोः न काचिदनुपपत्तिरिति चेत् उच्यते– ‘यस्मिन् द्यौ’रित्यादेरक्षरब्राह्मणोक्ताक्षररूपाधारान्तरसापेक्षद्युपृथिव्याद्याधारप्रधानानुवादकत्वन्तावदयुक्तम्। सन्मूलास्सोम्येमास्सर्वाः" प्रजा’ इत्यादि छान्दोग्य श्रुत्याम्नातनिरपेक्षसर्वाधारब्रह्मानुवादकत्वे सम्भवति सापेक्षाधारानुवादकत्वकल्पनायोगात्। एवं च द्युभ्वादिसर्वाधारत्वोक्तिनिर्वाहार्थं अपेक्षितत्वेन आत्मशब्दस्य व्यापकत्वरूपार्थएव ग्राह्यः, समभिव्याहृतपदान्तरैकवाक्यत्वयोग्यएव लाक्षणिकार्थोग्राह्यइति अत्रधिकरणे व्यवस्थापितत्वात्। एवं ब्रह्मैकान्तिकद्युपृथिव्याद्याधारत्वात्मश्रुत्यनुसारेण ‘निष्कलं" निष्क्रियं शान्तं निरवद्यं निरञ्जनम्। अमृतस्य परं सेतुं दग्धेन्धमिवानल’मिति श्वेताश्वतरे ब्रह्मणि अमृतसेतुत्वव्यपदेशदर्शनात्, तदनुसारेण ‘अमृतस्यैषसेतु’ रित्यस्य अमृतस्यस्वस्य स्वयमेव प्रापक इत्येवार्थौ ग्राह्यः, तथाऽपि उत्तरमन्त्रगता शरीरान्तस्सञ्चारोक्तिर्व्यापके ब्रह्मणि न युज्यत इति चेत् न। सुबालोपनिषदि– ‘यस्य पृथिवी शरीरं यः पृथिवीमन्तरे सञ्चर’न्नित्यादिवाक्यसन्दर्भे सर्वनियन्तृतया सर्वत्र व्याप्तेस्संचारत्वेन व्यपदेशदर्शनात्, इहापि तस्यास्तथात्वेन व्यपदेशोपपत्तेः। अपि च अस्मिन् प्रकरणे ‘समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः। जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक’ इति मंत्रः श्रूयते। अस्यार्थः– समाने एकस्मिन् वृक्षे वृक्षवदूश्चनार्हस्वभावे शरीरे निमग्नः पांसुपुञ्जनिमग्नजलकण इव तदैक्यमापन्नः पुरुषो जीवः अनीशया प्रकृत्या मुह्यमानश्शोचति। अयं यदा स्वस्वमादन्यं जुष्टं प्रीयमाणं प्रसीदन्तं सर्वस्येषं अस्यचेश्वरस्य निखिलजगन्नियमनरूपं महिमानं च पश्यति तदा वितशोको भवतीति। अस्मिन् मंत्रे यद्यपि ब्रह्मवज्जीवोऽप्युपात्तः, तथाऽपि द्रष्टृत्वसमानाधिकरणं मुह्यमानत्वं दृश्यत्व समानाधिकरणमीशत्वं च व्यपदिशन्तीयं श्रुतिः ‘तमेवैकं जानथे’ति ज्ञयतया निर्दिष्टं द्युभ्वाद्याधारमीशमेव प्रत्यभिज्ञापयति। किं" च प्रकरणमिदं परमात्मन इति प्रागक्षराधिकरणे दर्शितम्। अतोऽप्ययं परमात्मा। न च अक्षरप्रकरणादेव अक्षराधिकरणसिद्धात् द्युपृथिव्याद्याधारस्य परमात्मत्वसिद्धौ किमनेनाधिकरणेनेति शङ्कनीयम्। प्रकरणस्य नाडीसम्बन्धबहुधाजायमानत्वमनःप्राणाधारत्वादिभिः जीवैकातिभिः विच्छेदशङ्कायां" तत्परिहारार्थत्वात्। अपि च अस्मिन्प्रकरणे ‘द्वासुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्ति अनस्नन्नन्यो दीप्यमानः परमात्मा च प्रतिपाद्यते, तथाऽपि द्युभ्वाद्याधारः परमात्मैवेति युक्तं, दीप्यमानत्वोक्त्या तत्रैव प्राकरणिकसर्वज्ञत्वाद्यन्वयस्वारस्यात्। अनेन सूत्रेण सर्वविज्ञानप्रतिज्ञोपक्रमात् ’ ब्रह्म वेद ब्रह्मैव भवती’ त्युपसंहाराच्च जीवब्रह्माभेदे प्रकरणस्य तात्पर्यमिति शङ्कानिराकरणमपि कृतम्। ‘अभि , अनश्न’ न्नित्युपपत्तिसहितभेदव्यपदेशेन तयोर्भेद एव सिद्ध्योदिति॥ सङ्ग्रहकारिके॥ द्युभ्वाद्यायतनं जीवो मनः प्राणान्वयश्रुतेः। समनन्तरमन्त्रे च नाडीयोगजनिश्रुतेः॥ परमेश्वर एव स्यात् सर्ववस्तुविधारकः। अमृतप्रापयितृताप्रमुखप्रतिपादनात्॥ इति द्युभ्वाद्यधिकरणम्॥