वैश्वानरस्साधारणशब्दविशेषात्॥25॥ स्मर्यमाणमनुमानं स्यादिति॥26॥ शब्दादिभ्योऽन्तः प्रतिष्ठानाच्च नेति चेन्न तथादृष्ट्युपदे- शादसंश्रवात्पुरुषमपि चैनमधीयते॥27॥ अत एव न देवता भूतञ्च॥28॥ साक्षादप्यविरोधं जैमिनिः॥29॥ अभिव्यक्तेरित्याश्मरध्यः॥30॥ अनुस्मृतेर्बादरिः॥31॥ संपत्तेरिति जैमिनिस्तथाहि दर्शयति॥32॥ आमनंति चैनमस्मिन्॥33॥ त्रैलोक्यात्मकरूपोपन्यासादक्षरवद्वैश्वानरोपि परमात्मेति निर्णीयत इति सङ्गतिः। छन्दोगाः ‘आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि तमेव नो ब्रूहि’ति ऋषिभिः पृष्टस्य केकयराजस्योत्तरेष्वामनन्ति– ‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्त’ इति । तत्र किमयं वैश्वानरः परमात्मेति शक्यनिर्णयः उताशक्यनिर्णयइति वैश्वानरशब्दस्य साधारण्यात्। संशये पूर्वपक्षः। वैश्वानरशब्दश्चतुर्ष्वर्थेषु दृश्यते। जाठराग्नौ तावत् ‘अयमग्निवैश्वानरो येनेदमन्नं पच्यते यदिदमद्यते तस्यैषघोषो भवति यदेतत्कर्मावपिधाय श्रृणोती’ति, महाभूततृतीये च ‘विश्वस्माअग्निं भुवनाय देवाः वैश्वानरं केतुमह्नामकृण्व’न्निति, देवतायांच ‘वैश्वानरस्य सुमतौ स्याम राजा हि कं भवनानामभिश्री’रिति, परमात्मनिच ‘सएषवैश्वानरो विश्वरूपः प्राणोग्निरुदयत’ इति। ननु अयमादित्यविषयोवैश्वानरशब्दः, न तु परमात्मविषयः, तदनन्तरं ‘तदेतदृचाभ्युक्त’मित्युपक्रम्य हि ‘सहस्ररश्मिश्शतधावर्तमानः प्राणः प्रजानामुदयत्येषसूर्य’ इति सौरमन्त्रस्य वैश्वानरविषयत्वेनोदाहरणात्, तत्र ‘सएष’ इति सर्वनाम्नोः" ‘आदित्योहप्राण’ इति प्रकृतादित्यपरत्वाच्चेतिचेत् उच्यते— न केवलमादित्यपरस्तत्र वैश्वानरशब्दः, किंतु आदित्यान्तर्वर्तिपरमात्मपर्यन्तः, ‘अथोत्तरेण तपसा श्रद्धया विद्ययाऽऽत्मान्नमन्विष्यादित्यमभिजायन्ते एतद्धै प्राणानामायतनममृतमभयं परायणमेतस्मान्न पुनरावर्तन्त ’ इत्यग्रे श्रवणात्। ननु ‘को न आत्मा किं ब्रह्मे’त्युपक्रमगतब्रह्मश्रुत्या वैश्वानरः परमात्मेति शक्यनिर्णयः। नच वाजसनेयिशाखायां ‘वैश्वानरं ह वै भगवान् सम्प्रति वेद तन्नो ब्रूहि’ति वैश्वानर शब्देन उपक्रमात् उपक्रमो न विनिगमक इति वाच्यम्। तस्य साधारणस्य वैश्वानरशब्दस्य छान्दोग्योपक्रमगतब्रह्मश्रुत्यनुसारेण परमात्मनि पर्यवसानोपपत्तेरितिचेत् मैवम्। ‘को न आत्मा किं ब्रह्मे’ति विमृष्टवतां प्राचीनशालादिनामग्रे द्युप्रभृतिषु वैश्वानरात्मदृष्टिर्वर्णितेति तदनुसारेण तदीयवचनगतयोरात्मब्रह्मश्रुत्योरात्मब्रह्मदृष्टिविषयत्वाकारेण अन्यत्र गौणतयैव प्रयोगात्। एवं ह्युपाख्यायते– औपमन्यवादयः" पंच महर्षयः ‘को न आत्मा किं ब्रह्मे’ ति मीमांसित्वा निश्चयमलभमानः वैश्वानरोपासनापरमुद्दालकं गत्वा तेनापि तस्यामकृत्स्नवेदिना अश्वपतिः केकयो वैश्वानरमुपास्ते तमभ्यागच्छामेत्युक्ताः उद्दालकषष्ठास्तमभिजग्मुः, स च तेषां ज्ञानं परीक्ष्य ततो वक्तव्यशेषं" वक्ष्यामीत्यभिसन्धाय औपमन्यव कं त्वमात्मानमुपास्त’ इत्यादिना तान् षडपि ऋषीन् क्रमेण पृष्टौ तैः ‘दिवमेव भगवोराज’न्नित्यादिभिर्यथाक्रमं" द्युसूर्यानिलाकाशजलावनिषु वैश्वानरबुद्द्या स्वैरूपास्यमानतयोक्तेषु दिवादयो वैश्वानरं प्रति मूर्द्धचक्षुः प्राणमध्यस्थानपादावयवत्वेनोपास्याः, न तु वैश्वानरत्वेनेति व्यस्तोपासनाः प्रतिषिध्य समस्तोपासनाविषयस्य वैश्वानरस्य प्रागुपक्षिप्तं द्युमूर्द्धत्वादिविशिष्टं रूपमेकीकृत्योपदिदेश ‘मूर्द्धैव सुतेजा’ इत्यादिनेति। तस्माद्वैश्वानरः परमात्मेति न शक्यनिर्णय इति । एवं प्राप्ते सिद्धांतः– परमात्मेति शक्यनिर्णयएव, ‘को न आत्मा किं ब्रह्मे ‘ति जीवात्मनामात्मभूतं परमात्मानं जिज्ञासमानैस्तदभिज्ञइति राजानमुपसन्नैः प्राचीनशालादिभिः पृष्टेन राज्ञोपदिष्टत्वात्। न च तेषामात्मब्रह्मशब्दयोर्गौणत्वाभिमानश्शङ्कनीयः, यतः ‘को न आत्मा किं ब्रह्मे ’ ति विमर्शः अस्माभिरन्योन्यविरोधेन आत्मब्रह्मबुद्धद्योपास्यमानेषु द्युप्रभृतिषु वस्तुतः किन्तथाभूतं ब्रह्म किमेतेषामन्यतममन्यद्वेति वस्तुतत्वविषयः, न तु तेषु किंतथाभूतब्रह्मदृष्टिमारोप्योपास्यमित्यारोपितरूपविशिष्टविषयः, ‘अन्नब्रह्मे मनोब्रह्मे ‘त्यादिवत् अनेकत्र प्रतीके ब्रह्मदृष्ट्यापोरसंभवात् विरोधाभावेनास्मदुपास्यानां द्युप्रभृतीनां मध्ये किंतथाभूतब्रह्मदृष्ट्योपास्यमिति निर्द्धारणानपेक्षनात्। अतएव ‘दिवमेव भगवोराज’ न्नित्यादिवाक्यैः स्वस्वभ्रमएवोद्धाटितः, सम्भवति ह्यद्यापि चन्द्रसूर्यादिषु केषांचित् ब्रह्मत्वभ्रमवत् द्युप्रभृतिषु तेषां तद्भ्रमः, अतस्तत्र गौणत्वशङ्काऽनास्पदाभ्यामात्मब्रह्मश्रुतिभ्यां" वैश्वानरः परमात्मेति शक्यएव निर्णेतुं। किं च ‘सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ती’त्यनेन सर्वत्र वर्तमानमनवधिकातिशयानन्दरूपतया भोग्यं परंब्रह्मानुभवतीत्युच्यते, न तु कर्मवश्यैरात्मभिर्यदन्नं भुज्यते तदत्तीति, तस्य मुमुक्षून् प्रति हेयत्वात्। परमानन्दानुभवफलञ्च परमात्मपक्षएव घटते। ‘तद्यथैषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयत’ इत्युच्यमानं सर्वपापप्रदाहफलञ्च तत्पक्षएव घटते। द्युप्रभृतिपृथिव्यन्तत्रैलोक्यात्मकं शरीरमिहोपदिस्यमानं ‘अग्निर्मूर्द्धा चक्षुषी चन्द्रसूर्या ’ विति श्रुतौ ‘द्यां मूर्द्धानां यस्य विप्रा वदंति खं वै नाभिश्चन्द्रसूर्यौ च नेत्रे। दिशश्श्रोत्रे विद्धि पादौ क्षितिञ्च सोऽचिन्त्यात्मा सर्वभूतप्रेणेत’त्यादिस्मृतिषु च परमात्मनः प्रसिद्धं रूपं प्रत्यभिज्ञापयद्वैश्वानरं" परमात्मानमवगमयति। स्यादेतत्, उक्तहेतुभिः वैश्वानरः परमात्मेति नशक्यनिर्णयः, शब्दादिभ्योन्तःप्रतिष्ठानाच्च जाठरइत्यपि प्रतीतेः। अग्निशब्दस्तावत् वाजसनेयके ‘सएषोग्निवैश्वानर’ इति वैश्वानरसमानाधिकरणश्श्रूयते। छांदोग्ये च ‘हृदयं गार्हपत्योमनोऽन्वाहार्यपचनआस्यमाहवनीय’ इति वैश्वानरस्याग्नित्रयस्थानकल्पनं क्रियते। ‘तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं सयां प्रथमामाहुतिं जुहुयात्तां जुहुयात् प्राणाय स्वाहे ’ त्यादिना वैश्वानरस्य प्राणाहुत्याधारत्वमाम्नायते। तस्य च पुरुषेऽन्तः प्रतिष्ठितत्वं वाजसनेयिभिराम्नायते– ‘सयोहैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठित्वं वेदे’ति। एवमुक्तहेतुभिः वैश्वानरोजाठरइत्यपि प्रतीयत इति चेत्, नैषदोषः। त्रैलोक्यशरीरस्य वैश्वानरस्य परमात्मनोजाठराग्निशरीरतया तद्विशिष्टस्योपासनोपदेशात्। अग्निशब्दादिभिः न केवलो जाठरः" प्रतिपाद्यते, किन्तु तद्विशिष्टः परमात्मा, केवलस्य जाठरस्य त्रैलोक्यशरीरत्वासंभवात्, ‘अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः। प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विध ‘मिति गीतासु भगवतो जाठराग्निशरीरतया अशितपीतान्नादिपक्तृत्वप्रतिपादनाच्च। एतेभ्यएव हेतुभ्यः अग्न्देवतायाः तृतीयमहाभूतस्य च वैश्वानरत्वशङ्काऽपि प्रत्युक्ता। जैमिनिस्त्वाचार्योमन्यते– यथा वैश्वानरशब्दस्साधारणोपि परमात्मासाधारणधर्मदर्शनात् विश्वेषां नराणां नेता वैश्वानरः स एव स्वार्थिकाण्प्रत्ययेन वैश्वानर इत्येवं परमात्माभिधायको निश्चीयते, एवंमग्न्शब्दोऽग्रनयनादियोगेन परमात्माभिधायक इति निश्चीयते, तस्य योगस्य ज्वलनादपि सर्वान्तरात्मनि परमात्मन्येव सुप्रतिष्ठितत्वादिति। ननु अपरिच्छिन्नस्य परमात्मनः ‘यस्त्वेतमेवं प्रादेशमात्र’मिति श्रूयमाणं द्युप्रभृतिपृथिव्यन्तप्रदेशसम्बन्धिन्या मात्रया परिच्छिन्नत्वं" कथमुपपद्यते, उपासकबुद्ध्यारोहार्थतया तथा प्रादेशमात्रत्वप्रतिपादनं, न तु परिच्छिन्नत्वाभिप्रायेण। तत्रैव ‘अभिविमान’मिति अभितो विगतमानत्वोक्तेः। तथाऽपि प्राकृतद्युमूर्द्धादिमत्त्वं अप्राकृतरूपस्य परमात्मनो न सम्भवतीति चेन्न। उपासनार्थं तथा पुरुषविधत्वकल्पनोपपत्तेः। परमात्मा वैश्वानरश्चेत् उरःप्रभृतीनां ‘उरएव वेदिर्लोमानि बर्हिर्हदयं गार्हपत्य’ इत्यादिना कथं वेद्यादित्वोपदेशः, जाठरपरिग्रहे हि स उपपद्यत इति चेत्, उच्यते– तस्य वैश्वानरस्य समाराधनभूताया उपासकैरहरहः क्रियमाणायाः प्राणाहुतेरग्निहोत्रत्वसम्पादनार्थो ऽयमुरःप्रभृतीनां वेद्यादित्वोपदेशः। अत एव प्राणाहुतेरग्निहोत्रत्वसम्पत्तिं परमात्मोपासनोचितफलञ्च दर्शयति श्रुतिः– ‘स य इदमविद्वानग्निहोत्रं जुहोति यथाऽङ्गारानपोह्य भस्मनि जुहुयात्तादृक्तत्स्यात् अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वत्मसु हुतं भवति तद्यथैषिकातूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रदूयन्त’ इति। ननु परमात्मनो द्युप्रभृतीशरीरत्वमयुक्तं, उपासकस्य मूर्द्धाद्यवयवानामेव द्युप्रभृतित्वेनोपासनाविधानात्, ‘तस्य हेवा एतस्ये’ त्यादि ह्युपासकस्य द्युमूर्द्धत्वादिप्रतिपादकं, ‘उर एव वेदि’रित्यादिसमभिव्याहारादिति चेत् सत्यं, उपासकद्युमूर्द्धत्वाद्यनुसन्धानं" न परमात्मद्युमूर्द्धत्वादिकमुक्तं, तदीयमेव द्युमूर्द्धत्वादिकमुपासकस्याप्युक्तं, ‘तस्य हवा एतस्यात्मनो वैश्वानरस्ये ‘ति तदीयत्वेन परामृष्टमेव हि द्युमूर्द्धत्वादिकमुपासके वर्णितम्। अतः परस्य मूर्द्धादिना अहं द्युमूर्द्धा परस्य चक्षुषा सूर्येण अहं सूर्यचक्षुक" इत्यादिरूपेणानुसन्धानपरस्य प्राणाग्निहोत्रेणाराधंनं कार्यम्। तस्मादिहोपक्रान्तो वैश्वानरः परमात्मेति सिद्धम्॥ संग्रहकारिके॥ वैश्वानरो न परमात्मतया नियन्तुं शक्यश्चतुर्विषयसंशयहेतुसत्त्वात्। साधारणं हि जठराग्नितृतीयभूततद्दैवतस्य च पदं परमात्मनश्च॥ मैवं मुमुक्षुप्रश्नाच्च ब्रह्मशब्दश्रुतेश्च सः। तादृक्फलोपदेशाच्च परं ब्रह्मावधार्यते॥ इति वैश्वानराधिकरणम्॥ ॥इति द्वितीय पादः॥