अदृश्यत्वादिगुणको धर्मोक्तेः॥22॥ विशेषणभेदव्यपदेशाभ्याञ्च नेतरो॥23॥ रूपोपन्यासाच्च॥24॥ आथर्वणिकास्समामनन्ति। ‘अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुरश्श्रोत्रन्तदपाणिपादं नित्यं विभुं" सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यंति धीरा ’ इति तदनन्तरञ्चामनंति। ‘दिव्योह्यमूर्तः पुरुषस्सबाद्याभ्यंतरोह्यजः। अप्राणोह्यमनाश्शुभ्रोह्यक्षरात्परतः पर ’ इति । तत्र किमदृश्यत्वादिगुणकमक्षरं अक्षरात्परतः परश्च प्रकृतिपुरुषौ, उतोभयमपि परमात्मेति। प्रकृतिपुरुषाविति तावत्प्रातं, नह्यस्मिन्नक्षरेऽन्तर्यामिणि ‘अदृष्टोद्रष्टे’त्यादौ द्रष्टृत्वादिरिव चेतनधर्मः कश्चित्समाम्नायते। ‘अक्षरात्परतः पर’ इत्यत्र च सर्वस्माद्विकारजातात् परं यत्प्रकृतं भूतयोन्यक्षरं" तस्मात्परः क्षेत्रज्ञस्समष्टिपुरुषउच्यते। ननु इह चेतनधर्माश्रवणेऽप्यदृश्यत्वादिकं साधारणमिति कुतोऽक्षरस्य प्रधानत्वनिर्णयः। उच्यते– यथाखलु ‘अबालोऽयमतरुणोऽय’मित्यादिशब्दाः पुरुषविशेषे प्रयुज्यमानाः प्रत्यासन्नावस्थांतराश्रये तस्मिन्नेव वर्तते, एवं दृश्यत्वग्राह्यत्वरूपज्ञानंद्रियकर्मेंद्रियविषयत्वनिषेधाः धर्मिविशेषाकांक्षायां दृश्यत्वग्राह्यत्ववदचेतनजातएव सूक्ष्मावस्थे वर्तते इति युक्तं, तस्यैवावस्थांतरापन्नस्य धर्मित्वे संभवति धर्म्येतरकल्पनायोगात्। ननु तर्हि ‘अगोत्रमवर्णमचक्षुरश्रोत्रमपाणिपाद’मिति जीवे प्रसिद्धानां गोत्रादीनां निषेधजातस्य धर्म्याकांक्षायां तस्यैव शरीरान्निष्कृष्टस्य सूक्ष्मावस्थस्य धर्मित्वोपपत्या भूतयोन्यक्षरं" जीवएव स्यात्, ‘अद्रेश्यमग्राह्य’मिति प्रकृतिलिंगनिषेधयोरूपक्रमगतत्वेपि गोत्रनिषेधादीनां जीवलिंगानां बहुत्वेन ततः प्राबल्यात् ‘क्षरं प्रधानममृताक्षरं हर ’ इति जीवेप्यक्षरशब्ददर्शनात्, न क्षरति स्वरूपेण न विक्रियतइति तस्मिन्नप्यक्षरशब्दोपपत्तेः, अदृष्टद्वारा जगत्कारणे तस्मिन् भूतयोनित्वव्पदेशोपपत्तेश्चेतिचेत्। उच्यते– भूतयोन्यक्षरसमाम्नानन्तरं तस्य भूतयोनित्वविवरणार्थं प्रवृत्ते ‘यथोर्णनाभिस्सृजते गृह्णते च यथा पृथिव्यामोषधयस्संभवन्ति। यथा सतः पुरुषात्केशलोमानि तथाक्षरात्संभवतीह विश्व ’ मिति मन्त्रे परिणाभ्युपादानभूतोर्णनाभ्यादिदृष्टांतोपादानेन अक्षरस्य भूतयोनित्वं परिणाभ्युपादानत्वरूपमवगमितं, तदनन्तरञ्च ‘यथा सुदीप्तात्पावकाद्विस्फुलिंगास्सहस्रशः" प्रभवन्ते सरूपाः। तथाक्षराद्विविधास्सोम्यभावाः प्रजायंते तत्रचैवापियंती ‘ति भूतयोन्यक्षरस्य सरूपकार्यप्रभवत्वोक्यापि तस्य भूतयोन्तवं परिणाभ्युपादानत्वरूपमवगमित्तं, तस्मादुपक्रमोपसंहाराभ्यामवगमिते भूतयोन्यक्षरस्य प्रकृतित्वे ‘यदगोत्र’ मित्यादिजीवलिंगन्तत् तत्रैव कथञ्चिन्नेतव्यं। ननु उक्तरीत्या भूतयोन्यक्षरं प्रथानमित्यस्तु, ‘अक्षरात्परतः परस्समष्टिपुरुषइतित्वयुक्तं। उपक्रमादिविरोधात्। तथाहि परमोपक्रमे ‘सब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राहे ’ ति ब्रह्मविद्यासमाख्या आम्नायते। ततः ‘कस्मिन्नुभगोविज्ञाते सर्वमिदं विज्ञातं भवती’ ति एकविज्ञानेन सर्वविज्ञानमुच्यते अक्षरवाक्येऽपि परविद्यासमाख्या दृश्यते। अपि च सद्विद्यावाक्यानां प्रधानपरत्वनिरासाऽर्थं" ईक्षत्यधिकरणदर्शितायुक्तयोऽत्रापि प्रवर्ततएव, अस्तिखल्वीक्षापूर्वकस्रष्टृत्वश्रवणं अत्रापि ‘तपसा चीयते ब्र्मे’ति, यतस्तपश्शब्दोऽत्र ‘तपआलोचन’इति धातोर्निष्पन्नः स्रष्टव्यालोचनरूपज्ञानवाची, ‘यस्य ज्ञानमयं तप’ इत्यग्रे विवरणात्, आत्मशब्दश्चास्ति ‘दिव्ये ब्रह्मपुरे ह्येष व्योमन्यात्मा प्रतिष्ठित’ इति तन्निष्ठस्य मोक्षोपदेशोऽप्यस्ति ‘यदापश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं" ब्रह्मयोनिं। तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैती’ति। हेयत्वञ्च तस्य नोच्यते, प्रतिज्ञाविरोधोऽप्यस्तीत्युक्तं, साक्षाच्च ब्रह्मणः कर्तृत्वमुपादानत्वं च श्रूयते– ‘कर्तारमीशं पुरुषं ब्रह्मयोनि’मिति। एतानि प्रमाणानि अक्षरात्परः पुरुषो ब्रह्मेति पूर्वपक्षश्चेत् तत्तद्विषयतया उपपद्यन्ते। सोऽपि समष्टिपुरुषइति पूर्वपक्षे केषांचिदुपपत्तावपि का भवेदन्येषां गतिरिति चेत्, उच्यते– ‘यस्सर्वज्ञस्सर्ववित् यस्य ज्ञानमयं तपः। तस्मादेतद्ब्रह्म नामरूपमन्नञ्च जायत’ इति यस्सामान्यतो विशेषतश्च समस्तवेत्ता सर्ववेदान्तेषु प्रसिद्धः परमात्माऽसि ‘तस्मादेतद्ब्रह्म, स ब्रह्मविद्या’मित्युपक्रमे ब्रह्मशब्देनोक्तं सकलक्षेत्रज्ञसमष्टरूपं" हिरण्यगर्भाख्यं ब्रह्म तज्ज्ञायत इत्युच्यते, तद्विद्यायाः परविद्यात्वं मोक्षफलकत्वादुपपद्यते, अपरब्रह्मविद्यायाः मोक्षफलकत्वञ्च वचनबलाद्युज्यते, समष्टिपुरुषज्ञानेन तद्व्यष्टयोऽन्येपि क्षेत्रज्ञाः विज्ञाताभवंतीति सर्वविज्ञानवचनमपि घटत इति पूर्वपक्षी मन्यते। एवं प्राप्ते सिद्धान्तः– भूतयोन्यक्षरं तावद्ब्रह्मैव, भूतयोनित्विवरणार्थे ’ यथोर्णनाभि’रिति मन्त्रे ‘तथाऽक्षरात्सम्भवतीह विश्व’ मिति विश्वशब्दस्य चेतनाचेतनात्मकसकलप्रपञ्चपरत्वात्, चेतनवर्गे च ब्रह्मकार्यत्ववत् प्रकृतिकार्यत्वस्याभावात्। न च ऊर्णनाभ्याद्युपादानोपन्यासानुसारेण विश्वशब्दः तत्परिणामत्वयोग्याचेतनमात्रपरः ख्यादिति वाच्यम्। प्रतिज्ञावाक्यानुसारेण तदपेक्षितोपादानत्वांशमात्रे दृष्टान्तोपन्यास इत्युपपत्तेः. प्रतिज्ञातार्थानपेक्षितदृष्टान्तगतसाम्यान्तरस्य अनुपयुक्तत्वात्। तथा ‘तपसा चीयते ब्रह्मे’ति तदनन्तरमन्त्रोऽपि तत इति पञ्चम्या प्रकृताक्षरगतस्य भूतयोनित्वस्य अन्नादिशब्दोक्तशब्दतन्मात्रादिकारणत्वप्रतिपादनद्वारा विवरणपर इति। तत्रत्यब्रह्मश्रुत्याऽपि अक्षरं ब्रह्मेत्यवसीयते। तथा ‘यस्सर्वज्ञ’ इति तदनन्तरमन्त्रे सर्वज्ञत्वादिब्रह्मलिंगप्रतिपादके यच्छब्दस्य प्रकृतपरत्वादपि तथाऽवसीयते। न च अक्षरे पुल्लिंगानुपपत्तिः, भूतयोन्यभिप्रायेण तदुपपत्तेः, योनिशब्दस्य द्विलिंगत्वात्। न च ‘यथा सुदीप्ता’ दिति मंत्रोक्तं कार्यकारणसारूप्यं अक्षरस्य प्रकृतित्वं गमयतीति वाच्यम्। तत्र ‘भावा’ इत्यनेन चेतनवर्गस्यैव ग्रहणेन तत्कारणत्वस्य ब्रह्मण्येव सत्त्वात्। अत्र हि ‘सुदीप्ता’दिति विशेषणेन प्रकाशमानत्वं" सारूप्यं विवक्षितं गम्यते, तत्तु चेतनवर्गस्यैवास्ति। किञ्च इदं प्रकरणं प्रधानात्पुरुषाच्च भूतयोन्यक्षरं व्यावर्तयति सर्वविज्ञानोक्त्यादिभिः। न च ‘सर्वमिदं विज्ञात’ मिति चेतनाचेतनात्मकसकलप्रपञ्चविज्ञानत्वोक्तिः समष्टिपुरुषज्ञानेन व्यष्टिपुरुषज्ञानेन विज्ञातत्वविषयतया क्लेशेन योजनामर्हति। प्रकृतस्याक्षरस्य प्रधानात्समष्टिपुरुषाच्च भेदो व्यपदिश्यते– ‘दिव्योह्यमूर्तः पुरुषः सबाह्याभ्यन्तरोह्यजः। अप्राणोह्यमनाश्शुभ्रः अक्षरात्परतः पर’ इति। अक्षरादव्याकृतात् परो यः समष्टिपुरुषः तस्मादपि परोऽयं भूतयोन्यक्षररूपः पुरुषइत्यर्थः। ननु स्वाकार्येभ्यः परं यत्प्रकृतमक्षरं तस्मात्पर इत्यर्थः किं न स्यात्, स एव च युक्तः, ‘अक्षरात् परत’ इति पञ्चम्योः सामानाधिकरण्यलाभादिचेत्, उच्यते– ‘सबाह्याभ्यान्तर’ इत्यत्र स इति भिन्नं पदं पुरुषविशेषणं, यथा सुदीप्तादिति मन्त्रप्रकृतभूतयोन्यक्षरपरामर्शि सत् अक्षरात्परस्य पुरुषस्य तदभेदबोधनार्थं, नतु ‘सबाह्यान्तराभ्यन्तर’ इति एकं पदं, वैयर्थ्यात्। ‘सबाह्यान्तराभ्यन्तर’ इति सर्वगत्वोक्यैव सकलवस्तुसंसर्गसिद्धेः। एवंभूतयोन्यक्षरस्य अक्षरात्परस्य पुरुषस्य च अभेदेन ब्रह्मरूपत्वसिद्धौ पंचम्यन्ताक्षरपदवाच्यमव्याकृतमेव पर्यवस्यति। ‘अक्षरात्परतः" पर’ इत्यतः प्राचीने मंत्रे ‘येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतो ब्रह्मविद्या’मित्यक्षरपुरुषपदसामानाधिकरण्यादप्ययमर्थो निश्चीयते। अपि च ‘अग्निर्मूर्द्धा चक्षुषी चन्द्रसूर्यौदिशश्श्रोत्रे वाग्विवृताश्च वेदाः। वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां" पृथिवीह्येष सर्वभूतान्तरात्मे’ति मंत्रे प्रकृतं भूतयोन्यक्षररूपं पुरुषं ‘अस्ये’ति सर्वनाम्ना परामृश्य त्रैलोक्यशरीरत्वोपन्यासादपि न प्रधानमक्षरं, नापि समष्टिपुरुषोऽक्षरात्परतः परः, यद्यपि पुराणादिषु हिरण्यगर्भस्यापि त्रैलोक्यात्मकं वैराजं शरीरं प्रसिद्धमस्ति, तथापि यस्मिन् चारचरात्मकं समस्तं जगत् हृगयवत्प्रतिष्ठितं तथाभूतं तत्तस्य न सम्भवति। यत्सम्भवति तदपि परमात्मात्मकमेव, ‘सृष्ट्यन्तरं" करिष्यामि त्वामाविस्य प्रजापत ’ इति वचनात्। न च ‘अग्निर्मूर्द्धे’कति मंत्रोक्तं सर्वभूतान्तरात्मत्वं हिरण्यगर्भे सम्भवति। तस्मादक्षरं अक्षरात्परतः परश्च परमात्मैव॥ संग्रहकारिके॥ भजति खविषयाणां लाघवात्सूक्ष्मरूपं" जडजगदनुवृत्तं दृष्यतादेर्निषेधः। तदभिहितमथर्वण्यक्षरं स्यात्प्रधानं" तदुपरि च निरुक्तस्तत्परः पंचविंशः॥ सर्वज्ञत्वादिधर्मोक्तेः परएवाद्यमक्षरम्। अन्यदव्याकृतन्तस्माद्यत्परस्तत्परोपि सः॥ इति अदृश्यत्वादिगुणकाधिकरणम्॥5॥