15 अन्तर्याम्यधिकरणम्

अन्तर्याम्यधिदैवाधिलोकादिषु तद्वर्मव्यपदेशात्।18। नचस्मार्तमतद्धर्माभिलापाच्छारीरश्च॥19॥ उभयेऽपि हि भेदेनैनमधीयते॥20॥ ‘स्थनादिव्यपदेशाच्चे’ति सूत्रे ‘यश्चक्षुषितिष्ठ’ न्नित्यादिनोक्तं चक्षुषि स्थितिनियमनादिकं परमात्मधर्मइति सिद्धं कृत्वा अक्षिपुरुषस्य परमात्मत्वं साधितं, तदेवेदानीं समर्थ्यत इति सङ्गतिः। वाजसनेयिनः समामनंति– ‘यः पृथिव्यांतिष्ठन् पृथिव्याअन्तरोयं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमंतरो यमयति एषतआत्मांतर्याम्यमृत ’ इति। एवं अब्वग्न्यन्तरिक्षवाय्वादित्यदिक्चन्द्रतारकादिष्वपि तिष्ठन्त तदंतरभूतं तदवेद्यं तच्छरीरकन्तत्तद्यमयन्तमामनंति। माद्ध्यन्दिनास्तु ‘यस्सर्वेषु लोकेषु सर्वेषु वेदषु सर्वेषु यज्ञेष्वि’ति पर्यायांतराण्यप्यामनंति। तत्र किमयमंतर्यामी जीवः परोवेति संशये जीवइति तावत्प्राप्तं, वाक्यशेषे ‘द्रष्टा श्रोतामन्ता विज्ञाते’ति चक्षुरादिकरणायत्तज्ञानताश्रुतेः। नच दर्शनश्रवणमननविज्ञानशब्दाः रूपादिसाक्षात्कारवाचिनः, न चाक्षुषादिज्ञानवाचिनः, न चाक्षुषादिज्ञानवाचिनः, रूपादिसाक्षात्कारास्तु परस्यापि सन्ति, ‘पश्यत्यचक्षुस्स श्रृणोत्यकर्ण ’ इत्यादिश्रुतोरिति वाच्यम्। तथासति ‘नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञाते’ति वाक्यश्रुतद्रष्टन्तरादिनिषेधायोगात्, दर्शनादिशब्दानां चाक्षुषादिज्ञानपरत्वे हि जीवादनयस्तद्वान् नास्तीति निषेधो युज्यते। रूपादिसाक्षात्कारवाचित्वे तस्य परस्मिन्नपि सत्त्वादन्यत्र तन्निषेधो न युज्यते। न च जीव इति पूर्वपक्षेऽपि ‘य इमञ्च लोकं परञ्च लोकं सर्वाणि च भूतानि योऽन्तरोयमयती’त्येकवचनं, ‘यः पृथिव्यां तिष्ठ’न्नित्यादिपृथिव्यादिस्थितत्ववचनं, ‘यं पृथिवी न वेदे’ति पृथिव्याद्यवेद्यत्ववचनं, ‘यः पृथिवीमन्तरोयमयती’त्यादिपृथिव्यादि नियन्तृत्ववचनञ्च, न युज्यतइति वाच्यम्। एकवचनस्य जीवसमुदायाभिप्रायेण, स्थितिवचनस्य स्वमहिमप्रतिष्ठितत्वोक्तरीत्या, तदन्तरत्वतन्नियन्तृत्ववचनयोरात्मेश्वरत्वोक्तरीत्या, तदवेद्यत्वोक्तेः निष्कृष्टस्वरूपज्ञानाभावाभिप्रायेण च, योजयितुं शक्यत्वात्। तस्माज्जीवएवायमन्तर्यामीति। एवं प्राप्ते सिद्धान्तः– ‘य इमञ्च लोकं परञ्च लोकं सर्वाणि च भूतानि योऽन्तरोयमयति तमन्तर्यामिणं ब्रूही’ति सर्वान्तर्यामी कश्चिदेकोऽन्तर्याम्यस्ति तमन्तर्यामिँ ब्रूहित्युद्दालकप्रश्नस्य हि ‘यः पृथिव्यान्तिष्ठ’न्नित्यादि याज्ञवल्क्यस्योत्तरं, अत्रैकवचनं जात्यभिप्रायादिना योजयितुं न युक्तं, प्रथमप्रवृत्तैकविषयप्रश्नानुसारेण उत्तरवचनानां सर्वदेलोकादिनियंत्रेकविषयत्वस्य वक्तव्यत्वात्। तस्मात् सुबालोपनिषदि ‘यस्य पृथिवीशरीरं यः पृथिवीमन्तरे सञ्चरन् यं पृथिवी न वेद यस्यापश्शरीर’ मित्यादिवाक्यसन्दर्भप्रतिनिर्देशे ‘एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देवएको नारायण ’ इति वाक्ये श्रुतः परब्रह्मरूपः पुरुषोत्तमएवात्रान्तर्यामि विवक्षितइति युक्तम्। तस्यैव च ‘एषत आत्माऽन्तर्याम्यमृत’ इति निर्दिश्यमानं जीवाद्व्यतिरिक्तत्वं स्वाभाविकामृतत्वञ्च सङ्गच्छते। यत्तु ‘नान्यतोऽतोऽस्ति द्रष्टे’त्यदिकरणायत्तज्ञानवतोऽन्यस्य निषेधएव सङ्गच्छते, नतु रूपादिज्ञानवतोऽन्यस्य निशेध इति जीवपूर्वपक्षोपाद्बपकमुक्तं, तत्रेदमुत्तरं, ‘नान्योऽतोऽस्ति द्रष्टे’त्यादि न द्रष्ट्रान्तरादिनिषेधमात्रपरं, किंतु तत्सदृशसर्वभूतनियन्तृरूपद्रष्ट्रन्तरादिनिषेधपरं, ‘नञिवयुक्तमन्यसदृशाधिकरणे तथाह्यर्थगति’रिति शाब्दिकन्यायात्, तमेव हि न्यायमवलम्ब्य इषुनामके क्रतौ कतिपयवैशेषिकधर्माम्नानानन्तरमाम्नाते ‘समानमितिरच्छ्येनेने’ति वाक्ये इतरशब्दः स्येननामकक्रतुवैशेषिकधर्मानामतिदेशार्थः, न तु श्येनसाधारणानाञ्चोदकप्राप्तानां प्राकृतधर्माणामनुवादक" इति निर्णीतं पूर्वतन्त्रे सप्तमाध्याये। एतेन ‘न दृष्टेर्द्रष्टारं पश्येः न श्रुतः श्रोतारं श्रृणुयाः न मतेर्मन्तारं मन्वीथाः" न विज्ञातेर्विज्ञातारं विजानीयाः आत्मा वाऽरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्य’ इति मैत्रीयब्राह्मणे श्रोतेत्यादिपदानां" श्रवणमनननिदिध्यासनसाक्षात्कारकर्तृपरताया दृष्टत्वात् इहापि तत्परत्वं वक्तिमुचितमिति श्रवणमननादिकर्त्रन्तरनिषेधो जीवपक्षएव घटते न परमात्मपक्ष इति शङ्काऽपि निरस्ता। नञिवयुक्तन्यायावलम्बनेन तत्सदृशनियन्त्रन्तरनिषेधस्य ‘पश्यत्यचक्षु’रित्यादिश्रुत्यन्तरप्रसिद्धार्थग्रहमानुकूलस्यैव तदर्थतया ग्राह्यत्वसमर्थनात्। यद्यपि चाक्षुषादिज्ञानवत्त्वेन सदृषस्यान्यस्यापि निषेधो जीवपक्षेऽपि घटते, तथाऽपि प्रधानवज्जीवोऽपि नान्तर्यामी भवितुमर्हति, सर्वनियन्तृत्वनिरूपाधिकामृत्वाद्यसम्भवात्। अपिचैतं जीवं काण्वामाध्यन्दिनाश्च उभयेऽपि अन्तर्यामिणो भेदेनाधीयते। ‘यो विज्ञाने तिष्ठन् विज्ञानादन्तर’ इत्यादि हि काण्वा अधीयते। तत्रैव स्थाने ‘य आत्मनि तिष्ठ’न्नित्यादि माध्यन्दिनाः। तस्मादन्तर्यामी परमात्मैव न जीवः॥ संग्रहकारिका॥ द्रष्टृश्रोत्रादिशब्दाभिहितकरणजज्ञानभेदाश्रयत्वा दन्तर्यामी शरीरी स्वनियमनवचोभाक्तमत्रेत्यसाधु। एकस्यैव ह्यधीताखिलयमयितृता ब्रह्मणोऽन्यत्र कस्मिन् संभाव्या तत्र रूपाद्यवगतिविषयादर्शनाद्या घटन्ते॥ इति अन्तर्याम्यधिकरणम्॥4॥