अन्तर उपपत्तेः ॥13॥ स्थानादिव्यपदेशाच्च॥14॥ सुखविशिष्टाभिधानदेव च ॥15॥ अतएव च सब्रह्म॥16॥ श्रुतोपनिषत्कगत्यभिधानाच्च॥17॥ अनवस्थितेरसंभवाच्च नेतरः॥18॥ छन्दोगाः समामनन्ति –‘य एषोऽक्षिण पुरुषो दृश्यत एष आत्मेतिहोवाच एतदमृतमभयमेतद्ब्रह्मेति तद्यद्यप्यस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनीह्येव गच्छति एतं संयद्वाम इत्याचक्षते एतं हि सर्वाणि वामान्याभिसंयंति सर्वाण्येनं वामान्याभिसंयंति यएवंवेद एष उएवं वामनीरेष हि सर्वाणि वामानि नयति एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाती’ति। अत्र अक्ष्यन्तरः पुरुषः प्रतिबिंबः स्यात्, ‘य एष ‘इति प्रसिद्धवन्निर्देशात् ‘दृश्यत’ इत्यापरोक्ष्याभिधानाच्च। जीवात्मावा, तस्यापि चक्षुषि विशेषसन्निधानात् उन्मीलितं" हि चक्षुरुद्वीक्ष्य जीवस्य शरीरे स्थितिन्निश्चिन्वन्ति। ‘नेत्रस्थं जाग्रत’मिति च माण्डूक्यश्रुतेः। चक्षुः प्रतिष्ठो देवताविशेषो वा स्यात्, ‘रश्मिभिरेषोऽस्मिन्प्रतिष्ठित’ श्रौतप्रसिद्धेः। न तु परमात्मा। ‘तन्दुर्दर्श’मिति दुर्दर्शत्वेनोक्तस्य तस्य ‘य एष दृश्यत’ इति निर्देशायोगात्। इति पूर्वपक्षः। ननु कथमयं पूर्वपक्षो घटते, विषयवाक्य एव अमृतत्वाभयत्वयोरात्मब्रह्मश्रुत्योः" संयद्वामत्ववामनीत्वभामनीत्वानाञ्चा तल्लिङ्गानामाम्नात्, ‘तद्यद्यप्यस्मि’न्निति स्थानिनिर्लेपत्वप्रयुक्तस्थाननिर्लेपत्वाम्नानात्, ‘तद्यथा पुष्करपलाशआपो न श्लिष्यन्ते एवमेवंविदं पापं कर्म न श्लिष्यत’ इति वाक्येन ‘अथ यदुचैवास्मिन् शव्यं कुर्वन्ति यदुचन अर्चिषमेवाभिसम्भवन्ती’ति वाक्येन च ब्रह्मविद्याफलत्वेन प्रसिद्धयोः" सकलपापश्लेषब्रह्मप्राप्तिफलयोः प्रतिपादनात्, ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मे’त्युपक्रान्तब्रह्मप्रकरणानुवृत्तेश्च। एवं" परमात्मपक्ष इवं प्रतिबिंबादिपक्षेषु श्रुतिलिङ्गादीनामन्यतमस्याप्यभावात्। अक्षिस्थत्वन्तु ‘यच्चक्षुषि तिष्ठन्, य एषोऽक्ष्णि पुरुषो दृश्यत’ इत्यादिश्रुत्यन्तरेषु परमात्मन्यपि श्रुतं तत्साधारणमिति चेत् उच्यते– अक्ष्याधारत्वं परमात्मव्यावृत्तं प्रतिबिंबादिपक्षोत्थापकं भवत्येव। तस्य हि स्वमहिमप्रतिष्ठस्य मुख्यं तावदक्ष्याधारत्वं न सम्भवति, रूपविशेषावच्छेदोपाधिकं औपचारिकं सम्भवदपि तदाऽङ्गीकार्यम्, यद्यक्षिस्थस्य परमात्मत्वगमकं श्रुतिलिंगादिषु किञ्चिदिह जागृयात्। नत्वेतदस्ति। आत्मब्रह्मश्रुत्योः संयद्वामत्वादिगुणश्रवणस्य च इति शब्दाशिरस्कत्वेन ‘मनोब्रह्मेती’ त्यादिवत् अतस्मित् तद्रूपप्रत्ययपत्वावगमात् तत्समभिव्याहृतामृतत्वादिश्रवणस्य च तन्मात्रपरत्वात् उदाहृतफलानां अब्रह्मोपासनयाऽपि वैवाहिकवरवधूदर्शनेन अभ्युदयवत् वचनबलादुपपत्तेः। ब्रह्मप्रकरणानुवृत्तिस्त्वसिद्धा, ‘प्राणो ब्रह्मे’त्यादेः ‘मनो ब्रह्मे’त्यादिसारूप्येण ब्रह्मदृष्टिविधिपरत्वात्, तस्य ब्रह्मोपासनाविधिपत्वेऽपि तदग्नीनां वाक्यं इदमाचार्यवाक्यमिति वक्तृभेदात्, अग्निविद्याभिर्व्यवधानाच्च। एवं ह्युपाख्यायते– उपकोसलः सत्यकाममाचार्यमुपसन्नः तस्य द्वादशवर्षाम्यग्नीन् परिचरन्नास्त, तस्मै ब्रह्मोपदेशमकृत्वैव आचार्यें प्रोषिते तदाऽपि आचार्याग्निपरिचर्यायमवहितं तमवेक्ष्यगार्हपत्यादयस्रयोऽग्नयः सम्भूय करुणया तस्मै ‘प्राणोब्रह्मे’त्यादिना ब्रह्मविद्यां ‘यएषआदित्ये पुरुषोदृश्यते सोहमस्मी’त्यादिना प्रत्येकं स्वस्वविषयविद्यांच उपदिश्य ‘एषा सोम्य तेऽस्मद्विद्या चात्मविद्याचे’त्यभिधाय ‘आचार्याद्धैव विद्या विदिता साधिष्ठं प्राप’ दिति श्रुत्यनुसारेण स्वोपदिष्टा ब्रह्मविद्या तदाचार्यकर्तृगत्युपदेशेन साधिष्ठत्वं प्राप्नोत्विति आलोच्य ‘आचार्यस्तु ते गतिं वक्ते ‘त्यवोचन्निति। अतोगतिमात्रस्य वक्तव्यत्वेन परिशेषितत्वात्, तस्य ब्रह्मविद्याशेषत्वेऽपि ‘यएषोऽक्ष्णी’ त्यादेस्तच्छेषत्वाभावात् तस्य प्रतिबिंबादिविषयतायां न काचिदनुपपत्तिः। यत्तु स्थानिमाहात्म्यप्रयुक्तसर्पिरूदकाद्यश्लेषवर्णनं स्थानिनः परमात्मत्वे लिंगमितितन्नः, वस्तुतः सलेपेऽक्ष्णिस्थानिमाहात्म्यायत्तसर्पिरुदकाश्लेषवर्णनस्य स्तुतिमात्रत्वात्। तस्मात्प्रतिबिंबादीनामन्यतमएवाक्षिपुरुष इति। एवं प्राप्ते सिद्धान्तः– यत्रोच्यमानस्यार्थस्याप्तवचनसंबन्धः" प्रतिपाद्यः तत्र इतिशब्दोनार्थविवक्षां वारयति। यथा ‘इति हस्मोपाध्यायः कथयती’ति तस्मादिहामृतत्वादीनामाचार्यवचनसंबंधस्य प्रतिपाद्यत्वात् इतिशब्दो नार्थविवक्षावारकः । स्वाभाविकंचाम-तत्वादिकं जीवस्य न संभवति प्रतिबिंबस्य तु कथमपि नसंभवतीति आत्मब्रह्मश्रुत्यमृतत्वाभयत्वसंयद्वामत्ववामनीत्वाभमनीत्वलंगैर्बहुभिरक्षितपुरुषस्य परमात्मत्वनिश्चये सति अक्ष्याधारत्वमेकमौपचारिकं नेतव्यं, उपक्रमस्थैकप्रमाणापेक्षया उपरितनानेकप्रमाणानां बलवत्त्वात्। किंच ‘य एष ऽक्ष्णी पुरुषो दृश्यत’ इति व्यपदेशात् उपासनाकोलेऽक्ष्णि वर्तमानत्वं विवक्षितमिति गम्यते, तत्तावत्प्रतिबिंबे न संभवति, उपासनाकालेऽक्ष्यभिमुखबिंबसन्निधापनकल्पने गौरवं, नासाग्रन्यस्तदृष्टिके तस्मिन् काले बिंबसन्निधापनकल्पनेऽपि न प्रतिबिंबोदयः" संभवति, जीवस्यापि जागरे नियमेन अक्षिणस्थितिर्नसंभवति, अणुपरिमाणस्य तस्य सर्वस्मिन्नपि जागरे नेत्रमात्रवर्तित्वे शब्दादिज्ञानानुपपत्तेः। अतस्सर्वोद्रियकदभूतेः हृदिस्थितस्य तस्य धर्मभूतज्ञानप्रसरेण नेत्रपदोपलक्षितसर्वेन्द्रियाधिष्ठातृत्वं ‘नेत्रस्थ’मिति श्रुत्योच्यत इत्येवाभ्युपगन्तव्यं। चक्षुरधिष्ठात-देवताविशेषस्यापि ‘रश्मिभिरेषाऽस्मिन् प्रतिष्ठित’ इति श्रुतेः तत्परिग्रहेऽपि अक्ष्याधारत्वस्यऔपचारिकत्वानपायात्, तं परिगृह्य ब्रह्मश्रुत्याद्युपेक्षणमयुक्तं। किंच ‘कं ब्रह्म खं ब्रह्मे’ति प्रकृतस्य सुखविशिष्टस्य परमात्मन उपासनास्थानस्य गुणांतराणांच विधानार्थं ‘य एषोऽक्ष्णि पुरुषः’ इत्यभिधानादष्यक्षिपुरुषः परमात्मा। ननु अग्निविद्याव्यवधानात् ‘कंब्रह्मे’ति प्रकृतः परमात्मा नेह सन्निधत्ते। उच्यते– प्रवासात्पुनरागत आचार्यः प्रसन्नमुखमुपकोसलं वीक्ष्य ‘ब्रह्मविदइव वै सोम्यते मुखं भाति कोनु त्वानुशशासे’ ति पृष्ट्वा सहाग्निभिर्भीते तस्मिन् अग्नयोऽस्मा उपदिदिशुरिति निश्चित्य ‘किन्तु सोम्य किल तेऽवोचन्नि’ति पृष्ट्वा एतावदवोचन्निति तेनोक्ते तत्र वक्तव्यविशेषोऽस्तीत्यवधार्य ‘अहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश’ इत्यादिना स्ववक्तव्यं" प्रतिज्ञाय ‘ब्रवीतु मे भगवा’निति तेन प्रार्थितः ततः संयद्वामत्वादिगुणकमक्षिपुरुषं यदुपदिदेश तस्य प्रकृतस्य सुखविशिष्टब्रह्मान्यविषयत्वं" कथं कल्पयितुमीश्महे। ननु ‘एषा सोम्यते अस्मद्विद्याचात्मविद्याचे’ति निचशेषमुपदिष्टतया उपसंतायां परमात्मविद्यायां" वक्तव्यशेषसद्भावमालोच्य आचार्यः स्वयमुपदिदेशेति कल्पनेऽपि अग्नीनामनृतवादित्वं अनभिज्ञत्वं वा प्रसज्यत इति चेन्न। ‘आचार्यस्तु ते गतिं वक्ते’त्यग्निनां वचने गतिग्रहणस्य यदाचार्येण अग्रे वक्तव्यं तस्य सर्वस्यापय्पलक्षणार्थत्वात्, अन्यथा अग्रिमार्यवचनानामान्वययोगात्। ननु ‘कं ब्रह्म खं ब्रह्म’ त्यत्र न ब्रह्मविद्याविदानं किं तु प्रसिद्वाकाशलौकिकसुखयोः ब्रह्मदृश्टिविधानमात्रं ‘कं ब्रह्म खं ब्रह्म’ति प्रत्येकं ब्रह्मपदयोगितिचेत्। उच्यते - भवभयभीतस्तावदुपकोसलः सत्यकाममुपसम्पन्नः। ‘व्याधिभिः प्रतिपूर्णोऽस्मि’ त्याचार्यजायां" प्रत्युकोसलस्यसांसारिकेषु विषयेषु व्याधित्वमारेप्य निंदावचनात्, अध्ययनार्थमुपसन्नेषु सर्वष्वन्येषु ब्रह्मचारिषु अध्याप्य समावर्तितेष्वपि अमुमसमावर्त्य अग्निपरिचर्यायां नियुज्य स्वयं सत्यकामः प्रोवासेत्यस्माच्च लिंगात्। एवं मुमुक्षया उपम्पन्नंप्रति कथं तदनुपयोगिनं दृष्टिविधिमग्नय उपदिशेषुः, तस्मात् यथा ‘प्राणोब्रह्मे’त्यत्र प्राणशरीरतया ब्रह्मणि सुखाकाशशब्दौ, उत तयोरन्योन्यव्यवच्छेदकतया निरतिशयानन्दब्रह्मस्वरूपसमर्पकत्वाभिप्रायेण वेत्यन्तरनिर्दिधारयिषया प्रश्नः। अमुमभिप्रायं जानन्तोऽग्नयः ‘यद्वाव कं तदेव खं यदेव खं तदेव कं’ मित्युचुरिति तेषां द्वितीयपक्षएवाभिमत इत्याशयः। अत एवं ‘कं ब्रह्म खं ब्रह्मे’ ति ब्रह्मपदद्वयमप्युपपद्यते, आकाशवत् ब्रह्मानवच्छिन्नं च भवति, तदेव ब्रह्म सुखरूपंच भवतीति प्रत्यायितुं। एवं च ‘यद्वाव कं तदेव खं यदेव तदेव क’मित्युभयथा विशेषणविशेष्यभावोक्तिः, अनवच्छिन्नसुखरूपं ब्रह्म सुखात्मकानवच्छिन्नवस्तुस्वरूपं च ब्रह्मेति उभयथा उपासनासिद्यर्थमिति सर्वमनवद्यम्। श्रुतोपनिषत्कस्य अधिगतपरमपुरुषयाथात्म्यस्य श्रुत्यन्तरप्रसिद्वा या अर्चिरादिगतिः तामपुनरावृत्तिलक्षणपरमपुरुषप्राप्तिकरीं" उपकोसलायाक्षिपुरुषं श्रुतवते ‘अर्चिषमभिसम्भवन्ती’त्यादिना ‘एष देवपथो ब्रह्मपथः एतेन प्रतिपद्यमाना इमं मानवमावर्तन्नावर्तन्त’ इत्यन्तेन यदाचार्य उपदिदेश, ततोऽप्यक्षिपुरुषः परमात्मा, न तु प्रतिबिंबादिः। नहि तस्य नियमेनोपासनाकालेषु वाऽक्षिण्यवस्थानमस्ति, न वा तस्मिन्निरुपाधिकममुतत्वादिकं संभवतीति॥ संग्रहकारिका। यएषपुरुषोऽक्ष्णिदृश्यत इति प्रसिद्विगकादुपक्रमगतात्। शरीरभृदिनोऽथवा प्रतिकृतिः सइत्यनुचितं बहुप्रतिहते॥ इति अन्तराधिकरणम्॥3॥