13 अत्त्रधिकरणम्

अत्ता चराचरग्रहणात्॥9॥ प्रकरणाच्च॥10॥ गुहांप्रविष्टावात्मनौ हि तद्दर्शनात्॥11॥ विशेषणाच्च॥12॥ कठवल्लीषु श्रूयते– ‘यस्य ब्रह्म च क्षत्रञ्चोभे भवत ओदनः। मृत्युर्यस्योपसेचनं क इत्थावेद यत्र स ’ इति। अस्य यस्मिन् प्रकारे स्थितः यत्प्रकारविशिष्टः। तं प्रकारं को वेदेत्यर्थः। अत्र ओदनोपसेचनसम्बन्धात् यस्येति षष्ठीनिर्दिष्टः तयोरत्ता प्रतीयते, स किं जीवः, उत परमात्मेति अत्तृत्वस्य कर्मफलभोक्तृत्वजगदुपसंहर्तृत्वान्यतररूपत्वानिर्द्धारणात् संशये पूर्वपक्षः– ओदनोपसेचनसम्बन्धात् अत्ता भोक्तैव। नच मृत्योरूपसंहारकारिणः उपसेचनत्वरूपणात् अत्ता संहर्ता प्रतीयत इति वाच्यम्। जीवस्य नित्यत्वेन मृत्युवश्यत्वाभावात् मृत्युर्जीवस्य विधेयप्राय इत्याशयेन मृत्यूपसेचनवादोपपत्तेरिति। सिद्धान्तस्तु– मृत्यूपसेचनवादोपपत्तेरिति। सिद्धान्तस्तु– मृत्यूपसेचनवादो मृत्योरबाधकत्वाभिप्रायो न वक्तुं युक्तः, उपसेचनशब्दस्य गौणत्वेऽपि स्वयमद्यमानत्वे सत्यन्यादनहेतुत्वेन विशेषाकारेण गौणत्वे सम्भवति अबाधत्वरूपेण गौणत्वायोगात्। नहि ‘सिंहो देवदत्त ’ इत्यत्र शौर्यादिविशेषाकारेणेव द्रव्यत्वादिसामान्याकारेण संहशब्दस्य गौणत्वमिष्यते। अत एव पूर्वतंत्रेऽपि ‘उद्गातृचमसमेकस्य श्रुतिसंयोगा’दित्यधिकरणे ‘प्रैतुहोतुश्चमसः प्रब्रह्मणः" प्रोद्गातॄणां प्रयजमानस्ये’ति अध्वर्युप्रैषगतस्य उद्गातृपदस्य बहुवचनानुसारेण अजहल्लक्षणया बहुषु वृत्तौ वक्तव्यायां उद्गातृगणमात्रवृत्तिर्विशेषाकारस्तन्निमित्तं, नतु षोडशार्त्विक्साधारणः सामान्याकार इति निरूपितम्। एवं च यथौदनो येन दधिपयःप्रभृतिना तद्भोजनायोपसिच्यते तस्याप्यदनीयता, एवमोदनस्थानीयं" ब्रह्मक्षत्रशब्दितं येन मृत्युनोपसिच्यमानमदनीयं प्रतीयते, तस्यापि मृत्योस्तेन महादनीयताप्रतीतेः, मृत्युना सह जगददनस्य प्रलय एव भावात् , प्रलये च सर्वस्य चराचरस्य संहारात्, समस्तं चराचरबृन्दं ब्रह्मक्षत्रशब्दलक्षितमवसीयते। नच समस्तस्य चराचरस्य मुख्यमदनं" सम्भवतीति ओदनशब्दस्य विनाश्यत्वे लक्षणाऽवसीयते, यद्यपि विनाश्यत्वं भोज्यत्वभोग्यत्वापेक्षया सामान्याकारः. तथाऽपि सर्वस्य चराचरस्य ब्रह्मक्षत्रमात्रस्य वा कञ्चित्प्रत्योदनवत् भोज्यत्वाभावात् स्रीभृत्यादिवत् भोग्यत्वाभावाच्च समभिव्याहृदपदान्तरसामर्थ्यप्राप्तं" विनाश्यत्वरूपसाधारणाकारनिमित्तत्वं न्यायप्राप्तत्वादुररीकरणीयम्। अतएव ‘इमां स्पृष्ट्वोद्गायेत् इमां हि विश्वभूतान्युपजीवन्ती’त्यत्र विश्वभूतोपजीव्यत्वसम्भिव्याहारप्राप्तं भूमिपरत्वं इमामित्यस्येष्यते, नतु सन्निहितौदुंबरीपरत्वं, एवं सिद्धे सकलचराचरसंहर्तृत्वे परमात्मलिंगे तेनात्ता परमात्मैव। ‘महान्तं विभुमात्मानं मत्वा धीरो न शोचती ‘त्यादिना प्रकृतस्य परमात्मनो ‘यत्रस’ इति तत्पदेन परमर्शादप्येवमवसीयते। अथ स्यात् ‘ऋतुं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्थ्ये। छायाऽऽतपौ ब्रह्मविदो वदंति पञ्चाग्नयो ये च त्रिणाचिकेता’ इत्यनन्तरमन्त्रे ऋतुपानशब्दितकर्मफलभोक्तृत्वाभिधानात्, तस्य च जीवलिङ्गतया पूर्वाधिकरणे समर्थितत्वात्, तयोरेकस्तावत् ऋतुपानकर्ता जीवः, तस्य द्वितीयोऽपि बुद्धिप्राणयोरन्यतरः, कर्मफलभोगोपकरणत्वेन ऋतपानसम्बन्धित्वात्, अतः पूर्वप्रस्तुतोऽत्तापि तदेकप्रकरणक्वाज्जीवएवावसीयत इति चेत् उच्यते— न प्राणजीवौ बुद्विजीवौ वा ‘गुहां प्रविष्टौ’ ‘ऋतंपिबन्तावि’ति चोच्यन्ते, अपितु जीवपरमात्मानौ हि तथोच्येते; तस्मिन् प्रकरणे जीवपरयोरेव गहाप्रवेशव्यपदेशदर्शनात्, ‘तं दुर्दर्श गूढमनुप्रविश्टं गूहाहितं गह्वरेष्टं पूराणं। अद्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाती’ति परस्य गुहाप्रवेशव्यपदेशो दृश्यते, ‘या प्राणेन संभवत्यदितिर्देवतामयी। गुहां प्रविश्य तिष्टंती या भूतेभिर्व्यजायते’ति जीवस्य। अत्र कर्मफलान्यत्तीति यौगिकेनादितिशब्देन जीव उच्यते, नतु देवमाता पृथिवी वा, तयोरस्मदादिहृदयगुहाप्रवेशाभावात्। ‘प्राणेनसंभवति’ सह वर्तते। देवतामयी। देवताशब्दादिंद्रियवाचिनः स्वार्थे मयट्प्रत्यय इति इन्द्रियाधीनभोगा। हृदयगुहांप्रविश्यतिष्ठंतीति-पृतीव्यादिभूतैःसहिता देवादिरूपेण विविधा जायत इति। एवञ्च ‘ऋतंपिबंता’ विति व्यपदेशः छत्रिन्यायेन अजहल्लक्षणया योज्यः।यद्वा- स्वतंत्रप्रयोजकोभयसाधारणकर्तृत्वसामान्यपरः" शतृप्रत्यय इति जीवपरयोरुभयोरपि मुख्यतयैव योज्यः, बुद्विप्राणयोरूपकरणायोः कर्त्रर्थे प्रत्ययो हि ‘चक्षूरूपग्राहक’ मितिवत् कर्तृत्वोपचारादिति समर्थनीयं स्यात्। न च ‘सुकृतस्य लोक ’ इत्यस्य कर्मफलभोगार्थमुपात्तस्य परमात्मद्वितीयपक्षेऽनुपपत्तिः, भोक्तिरिव भोजयितुरपि भोगस्थाने सन्निधानस्य वक्तव्यत्वात्। न च जीवपरयोः प्रकाशरूपत्वात् छायातपत्वनिर्देशानुपपत्तिः, अज्ञत्वसर्वज्ञत्ववैलक्षण्येन तदुपपत्तेः, ‘ज्ञाज्ञौ द्वावजावीशनीशा’वित्यादुश्रुतेः, हृदयगुहां प्रविष्टौ बुद्धिजीवाविति युक्तम्, ‘आत्मानं रथिनं विद्धि शरीरं रथमेवच। बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव चे ‘त्यत्रैवप्रकरणे जीवस्य रथित्वेन बुद्धेः सारथित्वेन च शरीराकाररथारूढत्ववर्णनात्। जीवपराविति तु न युक्तं, ‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पद ‘मिति तयोः प्राप्तृप्राप्यभावनिर्देशात् प्राप्यस्य रथ एव प्राप्तत्वे कस्य प्राप्तये रथारोहः कल्प्यत इति चेत्। उच्यते– गुहां प्रविष्टौ जीवपराविति युक्तं, ‘तं दुर्दर्श गूढमनुप्रविष्टं" गुहाहितं गह्वरेष्टं पूराणं। अध्यात्मयोगाधइगमेन देवं मत्वा धीरो हर्षशोकौ जहाति’ त्यादिपूर्वापरमंत्रेषु तयोरेव उपास्योपासकभावेन प्राप्यप्राप्तृभावेनच तयोरेव विशेष्यमाणत्वात्। रथिरथसारथ्यादिरूपणन्तु उपासनोपयोगिशरीरादिवशीकरणसिव्द्यर्थ, ‘यस्तु विज्ञानवान्भवति युक्तेन मनसा सह। तस्येन्द्रियाणि वश्यानि सदश्वाइव सारथे’ रित्यादिमंत्रातराम्नानात्। न तु परमपदप्राप्त्यर्थे, तावत्पर्यन्तं प्राकृतशरीरोंद्रियविषयादिगमनाभावात्। सर्वमेतदानुमानिधिकरणे स्पष्टीकरिष्यते। तस्मात् गुहां प्रविष्टौ जीवपरौनतु बुद्विजीवौ, अत्ताच परमात्मैवेति सिद्वम्॥ संग्रहकारिके॥ औदनसम्बन्धित्वादत्ता भोक्तेति जीवएव स्यात्। नास्ति ब्रह्मप्रकरणमृतमन्त्रोऽग्रे हि बुद्विजीवपरः॥ मृत्युपसेचननिरूपणसन्निधानात् कृत्स्त्रञ्चरामिहाद्यतया प्रतीतम्। तेनादनं हरणमित्युचितस्तदत्ता नाथस्सएव ऋतमंत्रगतस्स जीवः॥ इति अत्रधिकरणम्॥1॥