प्रथम पादे समस्तचिदचिद्वलक्षणश्रीपुरुषोत्तमाख्यवेदान्तवेद्यजगत्कारणास्तित्वं प्रसाधितं, तथाऽपि कानिचिद्वेदान्तवाक्यानि चिदचिदन्तर्भूतवस्तुविशेषप्रतिपादकानि दृश्यंत इत्याशङ्कानिरासः क्रियते। किञ्च जन्मादिसूत्रै ब्रह्म कारणमेव ब्रह्मैव कारणमिति अयोगान्ययोगव्यवच्छेदौ लक्षणस्य असम्भावातिव्याप्तिपरिहाराय विवक्षितौ, तत्र अयोगव्यवच्छेदः प्रथमपादेन सिद्धः अन्ययोगव्यवच्छेदार्थस्रिपाद्यारम्भइति च विभागः। तत्र स्पष्टतरजीवलिङ्गकानि वाक्यानि प्रथमे पादे विचारितानि, अस्पष्टजीवलिंगकानि द्वितीये विचार्यन्ते, स्पष्टजीवलिङ्गकानि तृतीये, प्रधानादिप्रतिपादनच्छायानुसारीणि चतुर्थ इति प्रायिकोऽयं पादार्थविभागः॥ सर्वत्र प्रसिद्धोपदेशात्॥1॥ विवक्षितगुणोपपत्तेश्च॥2॥ अनुपपत्तेस्तु न शारीरः॥3॥ कर्मकर्तृव्यपदेशाच्च॥4॥ शब्दविशेषात्॥5॥ स्मृतेश्च॥6॥ अर्श्रकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च॥7॥ संश्रोगप्राप्तिरिति चेन्न वैशेष्यात्॥8॥ छन्दोगास्समामनंति– ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शांतउपासीत अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः" प्रेत्य भवति सक्रतुं कुर्वीत मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्प ’ इत्यादि। अत्र ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शांतउपासीते’त्यनेन सर्वात्मकं ब्रह्म शांतस्सन्नुपासीतेति विधीयते, ‘सक्रतुं कुर्वीते’ति तस्यैवोपासनस्य मनोमयत्वाद्यग्रिमगुणविधानार्थोऽनुवादः। ननु उत्पत्तिशिष्टसार्वात्म्यगुणावरुद्धे कथं मनोमयत्वादिगुणांतरविधानं घटते। अथोच्यते– ‘सर्वं खल्विदं ब्रह्म तज्जलानि’त्यंतं" भिन्नं वाक्यं, सर्वशब्दयोगेन ‘सर्वं खल्वि’त्यस्य ‘शान्तउपासीते’त्येतदेकवाक्यत्वनिवारणादिति। नैतद्युक्तं। तथाऽपि ‘शान्तउपासीते’त्यत्र अन्यार्थसन्निहितस्य ब्रह्मण उपास्यत्वेनेव तथा भूतस्य सार्वात्म्यस्यापि उपास्यगुणत्वेन अन्वयानिवारणात्, शतपथे अग्निरहस्यब्राह्मणे ‘सत्यं ब्रह्मेत्युपासीते’ति शाण्डिल्यविद्याविधौ उपास्यब्रह्मणः सत्यत्वविशेषणश्रवणेन अत्रापि तदैकार्थ्येन तादात्म्यगुणविधानौचित्याच्च॥ उभयोरैकार्थ्यञ्च ‘सच्चत्यच्चाभव’दिति श्रुत्यनुसारेण सत्यशब्दस्य परोक्षापरोक्षात्मकसकलवस्त्वात्मकत्वपरतया सूपपादं। एवञ्च कथं" सार्वात्म्यगुणावरुद्धे मनोमयत्वादिगुणान्तरविधानमिति चेत् उच्यते– उत्पत्तिशिष्टे गुणः स्वविरोधिनमेवोत्पन्नशिष्टं न सहते, न तु गुणांतरमात्रं। न हि सोमद्रव्यमुत्पत्तिशिष्टमिति द्रव्यांतरमिव देवतादिगुणांतरमपि प्रतिक्षिपति। ननु तथाऽपि उपास्यब्रह्मगुणतया मनोमयत्वादिविधानमित्येतन्न युज्यते, ‘सक्रतुं कुर्वीत मनोमयः प्राणशरीर ’ इत्यादिसामानाधिकरण्येन मनोमयत्वादीनामुपासकविशेषणत्वप्रतीतेरितिचेत्, उच्यते– अग्निरहस्ये समानप्रकरणे मनोमयत्वादिकमुपास्यविशेषणमाम्नायते। तत्रहि– ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शांतउपासीते’ तिस्थाने सत्यत्वविशिष्टब्रह्मोपासनां विधाय ‘अथ खलु क्रतुमयोऽयं पुरुषः सयावक्रतुरयं अस्माल्लोकात्प्रैति एवंक्रतुरिहामुं लोकं प्रेत्यभिसंभवती’ति तत्क्रतुन्यायप्रदर्शनपूर्वकं ‘सआत्मानमुपासीत मनोमयं प्राणशरीरं भारूपमाकाशात्मनं कामरूपिणं मनोजवसं सत्यसङ्कल्पं" सत्यधृतिं सर्वगन्धं सर्वरसं सर्वाअनुदिशः प्रभूतं सर्वमिदमभ्यात्तमवाकमन्तदर’ मिति मनोमयत्वादीनामुपास्यविशेषणत्वं स्पष्टमाम्नातं। ननु तदनुसारेणाप्यत्र प्रथमांतानां मनोमयादिपदानां ‘क्रतुं कुर्वीते ‘त्यत्र कथमुपास्यगुणसमर्पकतया अन्वय उपपादनीयः, प्रथमांतानां" षष्ठ्यन्ततया विपरिणामेनोपपादनीयः। यद्वा ‘क्रतुं कुर्वीते’त्यनूदितसर्वात्मब्रह्मोपासनां प्रति प्रकारसमर्पको ‘मनोमयः प्राणशरीर’ इत्यादिः एतमितः प्रेत्यभिसंभविताऽस्मी’त्यन्तः, तदनंतरमितिकरणबलात्। अनेन प्रकारेण क्रतुं कुर्वीतेत्यन्वयप्रतीतेः, तथाऽन्वये सत्येव ‘एषमआत्माऽन्तर्हृदय’ इति वाक्यसामञ्चस्याच्च। तस्योपासनाप्रकाराभिनयपरत्वं विनास्वतंत्रश्रुतिवाक्यत्वे ‘म’ इत्यस्यान्वयसामञ्जस्याभावात्, तथासत्येवच ‘एषमआत्माऽन्तहृदय’ इति वाक्यानां त्रिः पाठस्य ‘सर्वकर्मा सर्वकाम’ इत्यादीनां द्विः पाठस्यचोपपत्तेः। तथासति हि ‘प्रायणीयं प्रथममहः चतुर्विंशं द्वितीयं चत्वारोऽभिप्लवाष्षडहाः एकः पृष्ठ्यष्षडहः समासः सद्वितीयः सतृतीयः सचतुर्थः सपंचमः" त्रयोऽभिप्लवाष्षडहाएकः पृष्ठ्यष्षडह’ इत्यादौ गवामयनसत्रगताहः कलृप्तिवाक्ये अभिप्लवषडहादिशब्दानां असकृत्पाठस्य तत्रतत्रस्थाने षडहाद्यनुष्ठानाभ्यासार्थत्वेनेव तत्रतत्रस्थाने हृदयांतर्वर्तित्वानुसन्धानाभ्यासार्थत्वेन असकृत्पाठः साफल्यमश्नुते, तेषां" वाक्यानामुपास्ये तत्तद्धर्मसद्भावमात्रबोधकश्रुतिवाक्यत्वे तद्वैफल्यं स्यात्। एवंच विहितोपासनानुवादेन मनोमयत्वाद्यनेकगुणविधाने वाक्यभेद इत्यपि शङ्का निरस्ता भवति। तेषामितिकरणोक्तेन प्रकारभावेनैकेन रूपेण विधेयत्वात्, वेधेयताऽवच्छेदकरूपैक्ये विधेयपदार्थभूतरूपांतरभेदेन वाक्यभेदाप्रसङ्गात्। अतएव ‘गौश्चाश्वश्चाश्वतरश्च गर्दभश्चाजाश्चावयवश्च व्रीहियवाश्च तिलाश्च माषाश्च तस्य द्वादशशतं, दक्षिणेः" ‘ति ज्योतिष्टोमदक्षिणाविधिवाक्ये गवादीनां रूपभेदे सत्यपि तेषां दक्षिणात्वेनैकेन रूपेण विधेयत्वान्नवाक्यभेदइति गवात्मकैकदक्षिणाविधानाङ्गीकारेण वाक्यभेदः परिहृतः। यद्वा श्रुतावितिशब्दः क्रमरूपं मनोमयत्वादीनां प्रकारमाचष्टेमनोमयत्वाद्यनुसन्धानक्रमेण क्रतुं कुर्वीतेति। तथा च विततिरूप एकः क्रम एवात्र विधेय इति न वाक्यभेदः, मनोमयत्वादीनामुपास्यगुणानां विधानं तु तत्क्रमविधानादाक्षेपतो लभ्यते, यथा ‘विश्वजित्सर्वपृष्टोऽतिरात्र’ इत्यत्र पृष्ठगतसर्वताविधानात् पृष्ठसाम्नां रथन्तरादीनामित्यलं प्रपञ्चेन। एवं ‘उपासीते’त्यन्ते वाक्ये सर्वात्मकब्रह्मोपासनाविधिः, क्रतुवाक्ये मनोमयत्वाद्युपास्यगुणविधिरिति स्थिते संशयः। किमिह ब्रह्मशब्देन उपास्यतया निर्दिष्टो जीवः, उत परंब्रह्मेति, तत्र जीव इति पूर्वपक्षः। तस्यैव सर्वपदसामानाधिकरण्यनिर्देशोपपत्तेः, सर्वपदनिर्दिष्टंहि ब्रह्मादिस्तंबपर्यतं जगत्, ब्रह्मादिभावश्च जीवस्यैव अनादिकर्मप्रवाहविपाकानुसारिणा जन्मभेदेनोपपद्यते, परस्य तु ब्रह्मणः समस्तमङ्गलगुणाकरस्य निरस्तसमस्तहेयसम्बन्धस्य अतिहेयसर्वभावो नोपपद्यते। नच परिच्छिन्ने जीवे ब्रह्मशब्दायोगः, इदं ब्रह्मागच्छतीति श्रुत्यन्तरे तत्रापि तत्प्रयोगात्, तद्व्यावर्तनार्थ परमात्मनि परब्रह्मेति तत्र तत्र सविशेषनिर्देशदर्शनाच्च। जीवस्य च निर्मुक्तसंसारोपाधेः मुक्तिदशायां धर्मज्ञानविकासेन बृहत्त्वञ्चास्तीति तदीयकर्मनिमित्तत्वाज्जगज्जन्मस्थितिलयानां ‘तज्जलानि’ति हेतुनिर्देशोऽप्युपपद्यते। तस्माज्जीव एव अत्र उपास्यतया निर्दिष्टं" ब्रह्मेति। एवं प्राप्ते सिद्धान्तः– ‘सर्वे खल्विद’मिति निर्दिष्टे सर्वस्मिन् जगति तदत्मतया विधीयमानं ब्रह्म परमेव ब्रह्म। न जीवः। जगज्जन्मादिहेतुकतादाम्यस्य प्रसिद्धत्वेनोपदेशात्। ब्रह्मणो जातत्वात् ब्रह्मणि लयवत्त्वात् ब्रह्माधीनजीवनत्वाच्च हेतोः ब्रह्मात्मकं खलु सर्वमिदं जगदित्युक्ते हि यस्माज्जगज्जन्मस्थितिलया वेदान्तेषु प्रसिद्धा तदत्र ब्रह्मेति प्रतीयते। तच्चा परमेव ब्रह्मा, ‘यतोवा इमानि भूतानि जायन्त’ इत्यादिश्रुतेः। ततश्च ब्रह्माधीनजन्मजीवनलयस्य स्थूलचिदचिद्वस्तुरूपस्य सर्वस्य जगतः तदपृथक्सिध्या तच्छरीरत्वेन तदात्मभूतत्वलक्षणं तत्तादात्म्यं तस्य सकलहेयप्रत्यनीककल्याणगुणाकरत्वेन न विरुध्यते, प्रकारभूतशरीरगतदोषाणां" प्रकारिण्यात्मन्यप्रसङ्गात्। जीवस्य तु सर्वतादात्म्यनिर्देशो नोपपद्यते। तस्य प्रतिशरीरं भिन्नस्य अन्योन्यतादात्म्यासम्भवात्। तस्मादिह ब्रह्मशब्देन निर्दिष्टं परमेव ब्रह्मा। नन्वेवं सति कथं ‘मनोमयः प्राणशरीरं’इत्यनयोरूपास्यगुणतया ब्रहामण्यन्वयः, मनःप्राणयोरुपकरणोपकरणिभावेन जीवसम्बन्धस्यैव सुप्रसिद्धत्वादितिचेत् उच्यतेसांसारिकमनःप्राणसम्बन्धोऽत्र नार्थत्वेन ग्रहीतुं" योग्य-, तस्य हेयस्य मुक्तिदशायां त्यक्तव्यस्य अनुपदोक्ततत्क्रतुन्यायविरोधेन उपास्यगुण्तवायोगात्। तस्मान्मुक्तदशाविकसितधर्मज्ञानरूपविशुद्धमनोग्राह्यत्वं" मनोमयत्वं, सर्वप्राणिप्राणधारकत्वं प्राणशरीरत्वं, निरतिशयदीप्तियुक्तदिव्यमङ्गलविग्रहवत्त्वं भारूपत्वमित्यादिर्भाष्योक्तएव तेषामर्थो ग्राह्यः। एवं च एवंरूपा मनोमयत्वादयो जीव एव नोपपद्यते। तथा ‘एतमितः प्रेत्य अभिसम्भविताऽस्मी’ति प्रकृतस्य ब्रह्मणः" उपासकप्राप्यतया निर्देशः, ‘एषम आत्माऽन्तर्हृदय’ इति षष्ठीनिर्दिष्टादुपासकात् प्रथमान्तेन तस्य व्यतिरेकनिर्देशश्च, ‘ईश्वरस्सर्वभूतानां" हृद्देशेऽर्जुन तिष्ठती’त्यादिस्मृतिश्च, हृदयदेशास्थितमुपास्यं ब्रह्मजीव इति पक्षे नोपपद्यते। ननु ब्रह्मेति पक्षेऽपि ‘एषम आत्माऽन्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वे’ति अल्पौकस्त्वाणीयस्त्वव्यपदेषो नोपपद्यते। मैवं, ध्यानार्थमणीयस्त्वमुपदिश्यते, न पुनरणीयस्त्वमेवास्य स्वरूपमिति। व्योमवच्चैष व्यपदेशो द्रष्टव्यः। अतएव ‘ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्य’ इति तस्य स्वाभाविकं महत्त्वमपि श्रूयते। एवं च यस्योपाध्यनुक्त्या स्वाभाविकं महत्त्वमवगम्, तस्योपाध्युक्तिपूर्वकमुच्यमानं" परिच्छिन्नत्वमैवोपाधिकमिति एवमौचित्यात्। इह अल्पत्वोपाधेः हृदयायतनत्वस्यैव ज्यायस्त्वोपाधेरश्रवणात् उपासनार्थमौपाधिकमणीयस्त्वं" स्वाभाविकं ज्यायस्त्वञ्च विवक्षितमिति न कश्चिद्विरोधः। एवं तर्हि जीवस्येव परस्यापि शरीरान्तर्वर्तिचेतनत्वाविशेषात् तत्प्रयुक्तसुखदुःखभोगः प्राप्नुयादिति चेन्न। हेतुविशेषात्, नहि शरीरान्तर्वर्तिचेतनत्वमात्रं सुखदुःखभोगहेतुः अपि तु कर्मपारवश्यमपि, तत्त्वपहतपाप्मनः" परमात्मनो न शक्यशङ्कं, तस्मादिहोपास्यं ब्रह्म परमेव ब्रह्मेति सिद्धम्॥ सङ्ग्रहकारिकाः॥ सर्वं खल्वित्यत्र सार्वात्म्यमुक्तं हेयं यस्य ब्रह्म तज्जीव एव। पर्यायेणानादिंसारभाजस्तस्यह्येतद्युज्यते नो परस्य॥ मैवं खलुप्रयोगाद्धि प्रसिद्धवदनूद्यते। सार्वात्म्यं कारणत्वोत्थं तच्च ब्रह्मणि विश्रुतम्॥ येऽन्ये मनोमयत्वाद्या वपाक्यशेषश्रुता गुणाः। ब्रह्मण्येव च ते सर्वे युज्यन्ते न तु भोक्तरि॥ इति सर्वत्रप्रसिद्ध्यधिकरणम्॥1॥