09 प्राणाधिकरणम्

अत एव प्राणः॥24॥ छान्दोग्ये कस्यचिद्राजः कृतौ समागतस्य उषस्तेः प्रस्तावभक्तिदेवताप्रश्ने तामजानानेन प्रस्तोत्रा ‘कतमा सा देवते’ ति पृष्टस्य उषस्तेः ‘प्राण इति होवाचे’ति उत्तरमुपक्रम्य श्रूयते ‘सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशंति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ते ’ ति अतिदेशाधिकरणस्यास्य पूर्वाधिकरणवत् पूर्वोत्तरपक्षौ। प्राणश्रुतेः प्राणवायुरेव सर्वभूतलयोत्पत्तिकारणमिति प्राप्ते। ह वै शब्देन तदनुवाद्यत्वद्योतनात् पुरोवादानुसारेण योग्यतानुसारेण च प्राणवाय्वतिरिक्तः परमात्मैव सर्वभूतलयोत्पत्तिकारणभूतः" प्राणइति। अतिदेशस्य तु सर्वस्य भूतजातस्य प्राणाधीन स्थितिप्रवृत्त्यादिदर्शनात् प्रसिद्धएव वायुः सर्वभूतलयोत्पत्तिकारणतामर्हति, साक्षाच्च बृहदारण्यके ‘यदा वै पुरुषस्स्वपिति प्राणन्तर्हि वागप्येति प्राणञ्चक्षुः प्राणं श्रोत्रं प्राणं मनः सयदा प्रबुद्ध्यते प्राणादेवाऽथ पुनर्जायत’ इति स्वापप्रबोधयोः प्राणवायुस्सर्वभूतलयोत्पत्तिस्थानमिति श्रवणाच्चेत्यधिकाऽऽशङ्कानिरासः प्रयोजनम्। तन्निरासस्तु चेतनवर्गं प्रति प्राणवायोः कारणत्वाऽयोगात्, आनंदवल्ल्यां चेतनविशेषोत्पन्नादाकाशादुत्पन्नत्वेन श्रुतस्य तस्य सर्वाचेतनकारणत्वायोगाच्च, न तस्य सर्वभूतलयोत्पत्तिस्थानत्वनिर्देशार्हता। अत एव बृहदारण्यकोक्ताप्राणोऽपि परमात्मैवेति॥ सङ्ग्रहकारिका॥ एवं तस्यां प्राणवाक्यादनूक्तेः प्राणेपितस्यान्नैवतत्कारणत्वं। प्राणाधीनं दृश्यतां देहमात्रं नैवं भूतं जीवर्गादिदृष्टम्॥ इति प्राणाधिकरणम्॥