श्री लक्ष्मीहयवदन लक्ष्मीनारायणाभ्यां नमः
श्रीमते रामानुजाय नमः
श्री भगवद्रा मा नु ज मुनि विरचितम्
श्रीभाष्यम् सुदर्शन सूरिप्रणीत श्रुत प्रकाशि का ख्य टीक या श्री लक्ष्मीहयग्रीवदिव्यपादुकासेवक श्रीमदभिनवरङ्गनाथब्रह्मतन्त्रपरकाल संयमिप्रणीत श्रीभाष्यसूक्तिगूढार्थसंग्रहेण च सहितम् ।
प्रथमाध्याय – प्रथमपादः
यतीन्द्रकृतभाष्यार्था यव्याख्यानेन दर्शिताः । वरं सुदर्शनार्य तं वन्दे कूरकुलाधिपम् ॥ श्रुतप्रकाशिका *वरदं द्विरदाद्रीशं श्रीनिधि करुणानिधिम् । शरण्यं शरणं यामि प्रणतार्तिहरं हरिम् ॥ १ ॥ सभ्यङ्ग्न्यायकलापेन महता भारतेन च
।
बहिरन्तस्तमश्छेदि ज्योतिर्वन्दे सुदर्शनम् | येनाव्याहतसङ्कल्पं वस्तु लक्ष्मीधरं विदुः ॥ २ ॥ उपबृंहितवेदाय नमो व्यासाय विष्णवे ॥ ३ ॥
तस्मै रामानुजार्याय नमःपरमयोगिने । यः श्रुतिस्मृतिसूत्राणामन्तर्ज्वरम् शीशमत् ॥ ४ ॥ बन्देऽहं वरदाय तं वत्साभिजनभूषणम् । भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि ॥ ५ ॥
*प्रपद्ये प्रणवाकार भाष्यं रङ्गमिवापरम् | #परस्य ब्रह्मणो यत्र शेषित्वं स्फुटमीक्ष्यते ॥ ६ ॥
*श्रुत्यन्तेषु श्रुतं भाष्ये मतं ध्यातं हृदम्बुजे । लक्ष्मीपतिं प्रपद्येऽहं दृष्टं श्रीरङ्गधामनि ॥ ७ ॥ *प्रमाणं च प्रमेयं च प्रमातारश्च सात्त्विकाः । जयन्तु क्षपितारिष्टं सह सर्वत्र सर्वदा ॥ ८ ॥
अविस्तृतास्सुगम्भीरा रामानुजमुनेर्गिरः । दर्शयन्तु प्रसादेन स्वं भावमखिलं दृढम् | ९ |
श्रीरङ्गेशाज्ञया लब्धव्याससंज्ञं सुदर्शनम् | वाचा विजयिनःपुत्रं भाष्यभक्तिरचू चुदत् ॥ १० ॥
मङ्गलश्र्लोकाः
[ जिज्ञासा १-१-१
श्रुतप्रकाशिका गुरुभ्योऽर्थश्श्रुतश्शब्दैः तत्प्रयुचैश्च योजितः ।| सौकर्याय बुभुत्सूनां सङ्कलय्य प्रकाश्यते ॥ ११ ॥
कःकृत्स्नं वेत्ति माध्यार्थी श्रुतांशस्थितये कृतिः | आठ्यःकाकणिकेवैषा नोपेश्या भाप्यवित्तमैः ॥ १२ ॥
*भाष्यंचेद्व्यवृणोत्स्वयं यतिपतिर्व्याख्यानवाचां तथा गाम्भीर्याद नवस्थितिर्मितमति दूरे जनस्तद्गिराम् । प्रष्टव्यःकथमीश्वरः सहि न नः प्रत्यक्षरूपो दृशां तद्भाष्यं सच भाष्यकृत्स च हरिस्सम्यक्प्रसीदन्तु नः ॥ १३ ॥
श्रीभाष्यसूक्तिगूढार्थसंग्रहः श्रीमते निगमान्तमहादोशकाय नमः श्रीब्रह्मतन्त्रस्वतन्त्रपरकालमहादोशकेभ्यो नमः
सत्त्वस्थं नाभिपद्मे विधिमथ दितिजं राजसं तामसंचाञ्चिन्द्वोरुत्पाद्य ताभ्यामपहृतमखिलं वेदमादाय घात्रे ।
दत्वा द्राक्तौ च हत्वा वरगणमदिशद्वेधसे सत्र आदौ तन्त्रंचोपादिशग्रस्सममहयाशिराः मानसे सन्निधत्ताम् ॥ १
अध्यास्तेऽङ्कं परा वाक् बरह्यशिरसो भर्तुराचार्य के या वाञ्छावानैतरेयोपनिषदि चरमान्प्राक्तने खण्डआदौ ।
यस्या वीणां च दैवीं मनसि विनिदधत्ख्यातिमेत्यन्त्यमन्त्रे सेशाना सर्ववाचो मम हृदयगता चारु मां वादयेद्वाक् अल्पज्ञानल्पशक्तीनपि बहुपुरुषान्वक्ष्य यो द्वापरान्ते वेदं सर्वे विभज्य श्रुतिशिखरपरब्रह्मसूत्रप्रणेता । वेदोक्तं पञ्चरात्रैकरसमकथयन्मोक्षधर्मे मुनीन्द्रः पाराशर्यो हृदीन्धां स मम बहुविधाम्नायगूढार्थबोधी ॥ ३ ॥ व्यासो जैमिनिरप्रतीपहृदयावाचार्यशिष्यौ परां मीमांसां निबबन्धतुस्तदनु तां बोधायनाद्या बुधाः ।
व्याख्यन् ब्रह्मनयस्य लक्ष्मणमुनि: भाष्यादि तत्र व्यधात् तत्सर्वे सुदृढीचकार निगमान्तार्यो दयन्तामिमे ॥ ४ ॥ भाष्यं यस्य निशम्य लक्ष्मणमुनेः कौतूहलाद्भारती सूत्राणामिदमुत्तमं विवरणं निश्चित्य मानानुगम् । वागीशस्य निजप्रियाय निखिलान् वेदान्प्रदातुश्शुभां मूर्ति स्वेन सदाऽचिंतां समददाद्यस्मै स जीयान्मुनिः ॥ ५ ॥ वरहयवदनश्श्रीभाष्यगृहार्थजातं प्रकटयितुमभीच्छन् चालयमां कृपावान् ।
तरुविरचितयोषित्तुल्यमात्मेष्टसिद्धिं कलयति सपरत्वं दर्शयन्भाष्यसूक्तौ ॥ ६ ॥ आसूर्याख्यान्ववाये जानमभजत यो लक्ष्मणार्यः परेषां अभ्यस्य ग्रन्थजातं समतनुत सतां प्रीतये सूत्रभाष्यम् ।
आदौ बोधायनादिप्रकटितपथगं मां स तद्वंशजातं द्वारीकुर्वन्परत्वं विशदयति बुधामोदकृद्भाष्यसूक्तौ ॥ ७ ॥ वागीशाख्या श्रुतिस्मृत्युदितशुभत नोर्वासुदेवस्य मूर्तिः ज्ञाता यद्वागुपज्ञं भुवि मनुजवरैर्वाजिवक्रप्रसादात् । प्रख्याताश्चयशक्तिः कविकथकहरिस्सर्वतन्त्रस्वतन्त्रः ऋथ्यन्ताचार्यनामा मम हृदि सततं देशिकेन्द्रस्स इन्धाम् ॥ ८
वेदान्तगुरुमुखार्चितवागीशपदारविन्दमधुपाळिम् श्रीब्रह्मतन्त्रवर्त्मस्वतन्त्रकलिमथनमालिकां वन्दे ॥ ९ ॥ ।
S
श्रीकृष्णब्रह्मतन्त्रोत्तमगुरुवपुषा यो ममापोर्दिशत्प्राक् मन्त्री स्वौ जापयित्वाऽनभिमुखमाप मामात्मसेवाधिराज्ये । भक्त्या प्रावर्तबच्च प्रकटयति सतां वागधीशो ममासावन्तर्वाम्याद्यवृत्त्याद्यनुगुणयतिराभाष्यगूढार्थजातम् ॥ १० कलिशठारपुपूर्वान् व्यासजैमिन्यभीष्टप्रचकिटायेषया स्वद्राविडाम्नायभेदैः । श्रुतिशिरसि निगूढं पञ्चरात्रे च सारं सकलपुरुषयोग्यं कुर्वतोऽहं नमामि ॥ ११ ॥
नाथायें यामुनेयं यतिपरिवृढमानायचूडागुरुं तं नत्वाऽऽचार्यान्समग्रानपि कलिमथनान् ब्रह्मतन्त्रस्वतन्त्रान् । श्रीमद्भागीशपापरिचरणपरो नव्यरङ्गेन्द्रयोगी संगृह्णात्यायवृत्त्यायनुगुणयतिरामाष्यगृहार्थजातम् ॥ १२ ॥
अखिलेत्यादिश्रीभाष्यश्लोकावतरणम्
जिज्ञासा १-१-१]
३
श्रीभाष्यम् अखिल
श्रुतप्रकाशिका
*सर्वेषां पुरुषाणां प्रमाणाधीन प्रमेयनिश्चयानामुपादीत्सतजिहासितेष्टानिष्टफलतत्साधनानामलौकिके पुरुषार्थे तत्सा धन रूपे
वस्तुनि शब्दैकसमधिगम्ये * तत्राप्यपुरुषशेमुषोदोषमषीमालिन्यस्य वेदाख्याक्षरराशेरेव प्रधानतःप्रमाणतया
ऽऽश्रयणीयत्वे सिद्धे * तत्र च पशुपुत्रवृष्टयन्नस्वर्गाद्यैहिकामुष्मिकार्वाचीन फलतत्साधन परेऽवगत पूर्वभागे, परमपुरुषार्थतत्साधनाबबोधके च तदुपरिभागे पूर्वाचार्याभिमतमुक्तिघण्टापथकण्टकायमान विविध कुदृष्टिजन दुर्वचन शतोपते तदुपदर्शित कुपथप्रवृत्तिनि जगति च मोमुह्यमाने तदुजिजीवविषया सदसाद्ववेचन चतुरपूर्वाचार्य परिचितं प्राचीन मेव समीचीनम ध्वानं निष्कण्टकीकृत्य परमपुरुषार्थाभ्यर्थिजनसाथै कृतार्थयितुं भवभयाभितप्तजनभागधेयवैभवभावितावतरणेन परमकारु णिकेन भगवता भाष्यकारेण शारीरकशास्त्रं व्याचिख्यासितम् । * परमर्षिप्रणीतानि व्याख्येयानि तेषां च महर्षिप्रणीतानि
व्याख्यानानि च सन्ति चेत् तान्येव ह्यनुरोद्धव्यानि । नह्यनृषेस्सूक्ष्मदर्शित्वम् ; ऋषेराभिप्रायं ऋषिरेव च स्वतो वेदितुम
ईति; नतु जडमतिरितरो जनः । ऋषिवचसामेवाभिन्नवक्तृकाणां मिथो विरोध पूर्वपक्षाभिप्रायवैभववादादिभिरविरोधो नेयः ; भिन्नवक्तृकाणांतु विरोधे दुष्परिहरे युक्तियुक्तं ग्राह्यमिति न दोष: ये पुनस्सन्त्यपि तान्यनादृत्य व्याख्येयान्तराणि व्याख्यानान्तराणि च तद्विरुद्धानि रचयन्ति, तेषामाग्रहगृहीतहृदयत्व पण्डितमानित्वे पाण्डित्यख्यापन परत्वे च तत्प्रवृत्ति
रेव प्रमाणम् । इतरेषां च व्याख्यातॄणामार्पव्याख्यानातिलखित्वं ‘उपासात्रैविध्यात्’ ’ सर्वत्र प्रसिद्धोपदेशात् '
भूमा सम्प्रसादादभ्युपदेशात् ’ ‘दहरउत्तरेभ्यः’ इत्यादिषु स्पष्टतरम् । इहतु वृत्त्यनुसार प्रतिज्ञातः। नच तत्प्र तिज्ञानमहृदयमेवेति शङ्कनीयम् ; दुष्परिहरबाधकानुपलम्भात् । यद्यपि कर्ममीमांसायां क्वचिन्क्वचिदवीचीन व्याख्यातृभि राकुलत्वमापादितम् ; तथाऽपि तत्र प्रयोगमार्गे स्खलनाभावादनुष्ठान मात्राधीनाया: स्वर्गादिफलसिद्धैर्देवतास्वरूपतद्या थात्म्यसत्कार्यवाद।दिज्ञाननैरपेक्ष्यम् परमपुरुषार्थस्य ज्ञानैकसाध्यतया ज्ञानमार्गस्खलन स्यात्महानिफलकत्वेन ताद्वैपरीत 6
·
ज्ञानानामवश्यपरिहर्तव्यत्वम् उत्तरभागे च तदर्थोपयिकतया प्रसक्तानां * पूर्वभागार्थानां प्रदर्शितयैव दिशा अनुक्ताना मपि शिक्षणीयार्थान्तराणां सुकरनिर्वाहत्वं चाभिप्रेत्य ब्रह्मसूत्राण्येव भगवान् भाष्यकारः प्रारभते विवरीतुम् ॥
एवं प्रारिप्सितस्य प्रबन्धस्याविघ्नपरिसमाप्तिप्रचयगमनार्थ स्मृत्याचारसिद्धमिष्टदेवतोपासनरूपं मङ्गलं श्रौतमाचरति
अखिलेत्यादिना श्लोकेन ।
मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् । जपतां जुह्वतां चैव विनिपातो न विद्यते ॥ गूढार्थसंग्रहः
ईशाना सर्वस्या वाचो देवी यदङ्कमध्यास्ते । कर्णाटदेशभाग्यं वागीश्वरएष मम मनोविशतात् ॥ १३ ।
अखिलभुवनजन्मेति । अथ तत्र भगवान् रामानुजमुनिः ब्रह्मसूत्राणां श्रीवत्साङ्काद्यस्मदीयभाष्ययोस्संक्षिप्ततया ’ मानत्वं भगवन्मतस्य महत:
विस्तृतं भाष्यमवश्यंकरणीयमित्यभिप्रयद्भिः भगवद्यामुनमुनिभिः भाष्यकरणे नियुक्तः ।
पुंसस्तथा निर्णय: तिस्रस्सिद्धय आत्मसंविदखिलाधीशानत ्त्वाश्रया: । गीतार्थस्य च सङ्ग्रहस्तुतियुगं श्रीश्श्रीशयोरित्यमून्
यद्ग्रन्थान ुसन्दघे यतिपतिस्तं यामुनेयं नुमः | ’ (गी. सं.र) इति आचार्यपादोक्तरीत्या ग्रन्थार्थाननुसंदधानः आत्म
‘[ अखिले’ त्यादिश्लोक्स्य ‘प्रकृतिपुरुष’ इत्याद्यात्मसिद्धि श्लोक सच्छायत्वम् जिज्ञासा १-११ गूढार्थसङ्ग्रहः
सिद्धौ —— प्रकृतिपुरुषकालव्यक्तमुक्ता यदिच्छामनुविधति नित्यं नित्यसिद्धैरनेकैः । स्वपरिचरणभोगैः श्रीमतिप्रीयमाणे
भवतु मम परस्मिन् पूस्षे भक्तिभूमा ’ इति मङ्गळश्लोकक्रममनुस्मरन् परममनुबन्धचतुष्टयमपि सूचयन् मङ्गळमारचयति
अखिलेत्यादिना | यामुनसूक्तौ ‘परस्मिन् पूरुषे’ इत्यत्र पुरुषशब्दप्रयोगः तंत्वौपनिषदं पुरुषम् (बृ) परं पुरुषमभिध्यायीत
-रात्परं पुरिशयं पुरुषमीक्षते’ (प्र) इतिश्रुत्यभिप्रायेण । अखिलेत्यादौतु, औपनिषद पुरुषस्यैव ‘विज्ञानमानन्दं ब्रह्म ’ (बु) इत्यत्र ब्रह्मशब्देन निर्देशेन, ’ येनाक्षरं पुरुषं वेद सत्यं प्रोवाचतां तत्त्वतो ब्रह्मविद्याम् ’ (मु) इति श्रुतौ पुरुषशब्द समभिव्या हारेण च ’ अथातो ब्रह्मजिज्ञासा ’ इत्यादौ ब्रह्मशब्दप्रयोग इति ब्रहह्मशब्दः प्रयुक्तः ॥
।
।
यामुनमुनिभिः–‘ प्रधान पुषव्यक्त कालानां परमंहि यत् । पश्यन्ति सूरयश्शुद्धं तद्विष्णोः परमं पदम् ॥ ’ ( वि. पु १.२.१८) इति श्लोकार्थे मनसि निधाय ’ प्रकृतिपुरुषकाल’ इत्यादिप्रयुक्तम् एतत्पूर्व ‘सर्वत्रासौ समस्तं च विद्वद्भिः परिपठ्यते | ’ इति श्लोकः । अत्र ‘परस्मिन् पुरुष’ इत्यत्र पुरुषशब्दस्य वासुदेवएवेत्यर्थः । ‘ भगवानिति शव्योऽयं तथा पुरुषइत्यपि निरुपाधी च वर्तेते वासुदेवे सनातने ॥ ’ (पा.उ.६.२५४.६६) इति प्रमाणानुसारात् ।
।
’ अव्यक्तं पुरुषे ब्रह्मन्निकिये संप्रलीयते । नास्ति तस्मात्परतरः पुरुषा सानातनात् ॥ नित्यंहि नास्ति जगति भूतं स्थावरजङ्गमम् ऋते तमेकं पुरुषं वासुदेवं सनातनम् ॥ ’ (शा.प. ३४७.३१, ३२) इति मोक्षधर्मवचने पुरुषश ब्दार्थः बासुदेवइति स्फुटं प्रतीतेश्च । पराशरेण विष्णुपुराणे उपक्रमोपसंहारयोः बासुदेवशब्दार्थनिर्वचनेन, मध्ये वासुदेवद्वा दशाक्षरमन्त्रनिर्देशकरणेन ’ यज्वाभिर्यज्ञपुरुषो वासुदेवश्च सात्वतैः । वेदान्तवेदिभिर्विष्णुः प्रोच्यत यो नतोऽस्म्यहम् ॥
(वि.पु.५.१७.१५) इत्यत्र पाञ्चरात्रिकैः परतत्त्वविषये बासुदेवशब्दः प्रयुज्यते इत्यादिकथनेन पञ्चरात्रश्श्रुत्योः ऐकरस्यं निर्धारितम् । अत्र ‘सूरयः पश्यन्ति’ इत्यनेन ‘एकान्तिनः सदा ब्रह्म ध्यायिनो योगिनोहि ये । तषां तत्परमं 6
स्थानं यद्वैपश्यन्ति सूरयः ॥ ’ (वि.पु. १.६.३९) इत्युत्तरत्राभिधानेन च ’ तद्विष्णोःपरमं पदगूँसदा पश्यन्ति सूरयः
’ इति
सर्ववेदपठितमन्त्रः अत्र मूलमिति प्रतीयते ॥
‘ अतो देवेति वर्गवै जपं कुर्यादतन्द्रितः । ब्रह्माद्यैर्वन्दितःपश्चात् विष्णोस्सायुज्यमानयात् ॥’ इति शौनकीय ऋग्बि
घाने विनियुक्ते ऋग्वेदे अतो देवेति वर्ग क्रमेण ‘अतो देवा अवन्तुनः, इदं विष्णुर्विचक्रमे, त्रीणि पदा विचक्रमे, विष्णोः
‘ताद्वेप्रासो बिपन्यवः’ (१.अ.१.अ.७व) इति मन्त्रषट्कं पठितम्, तत्र ऋग्वेदे ताद्वैष्णोरिति कर्माणि पश्यत, तद्विष्णो: परमम्’ "
मन्त्रसहपठितानां मन्त्राणां शौनकीये ऋग्विधाने पृथगपि विनियोगउक्तः । तद्विप्रासो जपेन्मन्त्रं शतवारं दिनेदिने । अन्तकाले
महाविष्णुं स्मरेत्किंचिन्न सर्वथा ॥ २३७ ॥ अतो देवेति मन्त्रं वै दिनंप्रतिजपेच्छतम् । वासं याति महाविष्णः विष्वक्से
नादिभिस्सह ॥ २३८ ॥ इदं विष्णुर्जपेन्मन्त्रं शतवारं दिने दिने । जयादिभिश्च (दीनांच) संयुक्त: ततस्सारूप्यमेति
सः ॥ २३९ ॥ त्रीणि पदा जपेन्मन्त्रं शतवारं दिने दिने । सान्निध्यमेति विष्णोश्च वैनतेयादिभिस्सह ॥ २४०
॥
विष्णो:कर्माणि मन्त्रं च दिनंप्रति जपेच्छतम् । सायुज्यादिमहाविष्णोः विष्वक्सेनादिभिस्सह ॥ २४१ ॥ ’ इति ॥ पञ्चरात्रस्य गीताविस्तरत्वं मोक्षधर्म एव स्पष्टमुक्तम् । तदेतन्मनसि निधाय ‘नित्यसिद्धैरनेकैरियुक्तम् ।
9
( यः
पुनरेतं त्रिमात्रेणोमित्यनैनैवाक्षेरण परं पुरुषमभिध्यायीत सतेजसि सूर्ये संपन्नः यथा पादोदरत्स्वचा विनिर्मुच्यते एवं ।
हवै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवनात् परात्परं पुरिशयं पुरुषमीक्षते । तदेतौ
श्लोकौ भवतः तिस्रो मात्रा मृत्युमत्यः प्रयुक्ताः अन्योन्यसक्ता अनविप्रयुक्ताः । क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक्प्रयुक्तासु
न कम्पते ज्ञः। ऋग्भिरेतं यजुर्मरन्तरिक्षं स सामभिर्यत्तत्कवयो वेदयन्ते । तमोङ्कारेणैवायतनेनान्वेति विद्वान् यत्तच्छान्त
गूढार्थसंग्रहः
जरममृतं अभयंपरंन्चेति ’ इति श्रुतिक्रमः । अत्र ‘परं पुरुषम् ’ ’ परात्परं पुरिशयं पुरुषम् ’ इति उभयत्र परशब्दप्रयोगेण ’ एतद्वै सत्यकाम परंचापरं च ब्रह्म’ इत्युपक्रमोक्तं परं ब्रह्मोभयत्र पुरुषशब्दार्थ इति स्फुटं प्रतीयते । एतेन ध्यानं सर्व शरीरिविषयकं फलमपि तथैवेत्युक्तं भवति ॥
बृहदारण्यकेऽपि –‘सवा अयं सर्वासु पूर्षु पुरिशयः’ इति निर्वचन मेतदेकार्थम् ’ विज्ञानमानन्दं ब्रह्म रातिद तुःपरायणं तिष्ठमानस्य तद्विद : ’ इति तंत्वौपनिषदम् इति श्रुतिसमानार्थकोत्तरवाक्ये ब्रह्मविद्याफलप्रापकत्वं तद्विद्याप्राप्यत्वंच इत्यर्थद्वयं विवक्षितम्। ‘सु सामभिरुन्नीयते ब्रह्मलोकम् स सामभिर्यत्तत्कवयो वेदयन्ते’ इत्यत्र सूरीणां सामभिवेंदनं साम
भिरेव प्राप्तिश्चेत्यर्थद्वयं प्रतिपादितम् । ‘सोऽश्रुते सर्वान्कामान्सह ’ इत्युपक्रमोक्तब्रह्मप्राप्तिविशदीकरणपर ‘अस्माल्लो '
काव्य
इत्युपक्रम्य
आनन्दमयमात्मानमुपसङ्क्रम्य कामानी कामरूप्यनुसञ्चरन् एतत्सामगायन्नास्ते '
(
इत्युक्तौ
लोकान्तरे प्राप्ति: अनुसंचरणं सामगानं चेत्येतत्सर्वमुक्तम् । एतेन प्रकृतिमण्डलादूर्ध्वस्थाने मुक्तानां प्राप्तिः तत्रानुभवातिरि 200 क्तक्रियाचेत्यादिकं सिद्धम् ॥
।
एतेन ‘द्विरूपंहि ब्रह्मावगम्यते
नामरूपविकारभेदोपाधिविशिष्टं तद्विपरीतं च सर्वोपाधिवर्जितम् ’ इत्युप्ऋभ्य
श्रुतीरुदाहृत्य ’ एवं सहस्रशो विद्याऽविद्याविषयभेदेन ब्रह्मणो द्विरूपतां दर्शयन्ति वाक्यानि । तत्राविद्यावस्थायां ब्रह्मण उगस्योपासकादिलक्षण: सर्वो व्यापारः । तत्र कार्निचिद्ब्रह्मणः उपासनान्यभ्युदयार्थानि कानिचित्कर्मर मृद्धयर्थानि । तेषां
गुगविशेषोपाधिभेदेन भेदः एक एवतु परमात्मेश्वरः तैस्तैर्गुणविशेषैर्विशिष्ट उपास्यो यद्यपि भवति । तथाऽपि यथागुणो पासनमेव फलानि भिद्यन्ते। ‘तं यथायथोपासते तदेव भवति ’ (मुद्गलोपनिषत्. ३.३) इति श्रुतेः ‘यथा क्रतुरस्मिन् लोके पुरुषो भवति तथेतःप्रेत्य भवति’ (छा.उ.३.१४.१) (शं.१.१.१२) इति च ॥ 1
एवं तस्मादपरब्रह्मविषया गतिः, यत्र परापरब्रह्मविवेकानवधारणेनापरस्मिन्ब्रह्मणि वर्तमाना गतिश्रुतयः परस्मि नध्यारोप्यन्ते । किं द्वे ब्रह्मणी परमपरचेति ? बाढं द्वे । ‘एतद्वै सत्यकामपरंचापरं च ब्रह्म यदोङ्कारः ’ (प्र.उ.५.२) किं
पुनःपरं`ब्रह्म किमपरमिति ? उच्यते ! यत्राविद्याकृतनामरूपादिविशेषप्रतिषेधात् अस्थूलादिशब्दैः ब्रह्मोपदिश्यते तत्परम्।
तदेव ब्रह्म नामरूपादिविशेषेण केन चिद्विशिष्टमुपासनायोपदिश्यते । ‘मनोमयःप्राणशरीरो भारूप: १ (छा.३.१४.२) इत्यादिशब्दैः तदपरम् । नन्वेवमद्वितीय श्रुतिरुपरुध्येत-न, अविद्याकृतनामरूपोपाधिकतया परिहृतत्वात् तस्यचापरब्रह्मो पासनंस्य तत्सन्निधौ श्रयमाणं ’ स यदि पितृलोककामो भवति’ (छा.८.२.१) इत्यादिजगदैश्वर्यलक्षणं संसारगोचरमेव
फलं भवति अनिवर्तितत्वादविद्याया: ’ (शं. ४.३.१४) इति फलमेव गतिः अपरब्रह्मोपासनफलं ऐश्वर्यादिकं सांसारिकफ. लमेवेति च ॥
एवं ‘ य:पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत, स एतस्माज्जीवघनात् परात्परं पुरिशयं पुरु षमीक्ष’ (प्र.उ.५.२५) इति । तत्रामिध्यायः अतथाभूतमपि कर्म भवति । मनोरथकल्पित स्याप्यभिध्यायतिकर्म
त्वात् ईक्षतेस्तु तथाभूतमेव वस्तु लोके कर्म दृष्टम् ’ (शं.भा. १.३.१३) इति च परोक्तौ पूर्वग्रन्थद्वये गुणविशिष्टोपासनं अपरब्रह्माविषयकं आविद्यकम्, अपरब्रह्मोपासनफलमेव गतिः । अपरब्रह्मोपासनफलमैश्वर्यादिकं सांसारिकफलमेवेति, उत्तर ग्रन्थे उपासनमतत्त्वविषयकमप्रमाज्ञानमेव, तत्त्वविषयकं प्रमा, उपासनफलं तरतमभावापन्नमेव क्वचिदुपासनं क्रममुक्तिफलं
साक्षाच्च न नित्यतरतमभावापन्नफलकम् इति प्रतिपादनं निरवकाशम् ॥ ’ परं पुरुषमभिध्यायीत ’ ’ परात्परं पुरिशयं पुरु
मषपक्षते ’ इत्युभयत्र परशब्दप्रयोगेण उपक्रमे परंचापरं च ब्रह्मेति कोटिद्वये ध्यानेक्षणयोः परब्रह्मविषयकत्वं श्रुतौ विव
[ जिज्ञासा १-१-१
भक्तिभूमेत्यत्र विवृद्धभक्तिः गीतायास्सविशेषभक्तिपरत्वमेव गूढार्थसंग्रहः
श्चितमिति निर्मत्मराणां स्फुटतया प्रतीते: । एतदनन्तरं ’ स सामभिरुन्नीयते’ इति क्रियाप्रतिपादनेन ’ कामान्नी कामरू प्यनुसंन्चरन् ’ इति ‘सोऽश्रुते सर्वान्कामान्सह’ इत्युपक्रमोक्तार्थविशदीकरणेन च, स यदि पितृलोककामो भवति ' इत्यादिफलं संसारगोचरमेवेत्युक्तिरपि निरवकाशा | परैः निर्गुणविद्यात्वेन अभिमतासु इत्थमर्थस्य तत्र तत्र प्रति 6
पादनेन परसम्मत निर्विशेषस्यैवाप्रामाणिकत्वेन तस्य निर्गुणविद्यास्ताव कन्यवर्णनस्यायोगाच । अत्रोपनिषद्भाप्याद्वैत सिद्धयादिपर्यालोचनेन।यं सिद्धान्तः वृत्तिकारसम्मतः न प्रत्याख्यानमहंतीति सम्यनिर्णीत भावप्रकाशे तृतीयसंपुढे ।
विस्तरस्तत्रैव द्रष्टव्यः । भामतीन्यायरक्षामण्यादौ उपासनस्यातत्वविषयकत्वं न सम्भवतीति साधितम् । मण्डनमिश्रसिं द्धान्तोऽपि तथैव | स्मृतेः अत्राधितार्थविषयकत्वं सर्वैराप दार्शनिकैरभ्युपगतमिति ध्यानस्य परमते मिथ्याविषयकत्वकल्प नेन बाधितार्थकत्वकल्पन न कस्यापि संमतमिति बोध्यम् ॥
एतत्सर्वमभिप्रेत्यैव ’ परस्मिन्पूरुषे ’ इत्युक्तम् ’ परस्मिन् पुरुष भक्तिभूमा’ इत्यनेन सवा अयं सर्वासु पूर्षु 6
।
र ब्रह्म सर्वानुभूः’ इत्यत्र अव
पुरिशयः’ इत्येतदनन्तरं ‘इन्द्रो मायाभिः ’ ‘ युक्ताह्यस्य हरयश्शता दश, - तदेतदपूर्वमनपर
।
तारज्ञानेनैव सौलम्य सौशील्यादिगुणगणपरिज्ञानेन सर्वेषां ब्रह्मानुभवसिद्धयति इति सर्वेषां ब्रह्मानुभवसम्पादनापेक्षिता वतारसत्त्वेनापि परत्वं सूचितं भवति । कृष्णावतारे च ’ यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथि ताह्यर्थाः प्रकाशन्ते महात्मनः ॥’ इति श्रुतावार्थप्रकाशपरंपरया परभक्तेर्ज्ञान दर्शन प्राप्तिसाधनत्वं गीतायां विवक्षितमिति प्रकटीकृतम् ‘ सर्वादिशः ऊर्ध्वमधश्च तिर्यक् प्रकाशयन्भ्राजते यद्वनड्वान् । एवं सदेवो भगवान्वरेण्यो योनिस्वभावानधि तिष्ठत्येकः ॥ ’ इति (श्वे. ५.४) श्रुतौ ‘यद्रनड्वान्’ इत्यत्र यदु श्रेष्ठःकृष्णः विवक्षितः । ष ्ठांते विस्तीर्णा ‘यस्य देवेदशमोदिता ’ इतिश्रुतिः॥ ' ‘ भक्तिभूमा’ इत्यत्र ‘ स्वकल्याणगुणानन्त्यकृत्स्नस्वाधीनतामतिः । भत्त्युत्पत्तिविवृध्यर्था इति गीतार्थसंग्रहोक्तविवृद्धभक्तिर्विवक्षिता । सा च ‘" एतां विभूर्ति योगं च मम यो वेत्ति तत्त्वतः । सोऽविकम्प्येन योगेन
युज्यते नात्र संशयः | (गी. १०.७) अहं सर्वस्य प्रभवः मत्तस्सवै प्रवर्त े । इति मत्वा भजन्ते मां( १०.१० बुधा भावसमन्विताः ) इति गीता (१०.८) तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्तिते |
वचनेषु स्फुटा । अत्र योगंचेत्यत्र योगशब्दः काल्याणगुणयोगपर: भगवद्विभूतिप्रयोजकत्वात्तस्य, तत्त्वशब्दः धर्मिवत् परमार्थपर: अविकम्प्ययोगश्च समाधिः । ‘तेषां सततयुक्तानां- ददामि बुद्धियोगम्’ इत्यत्र अविकम्प्ययोग एव समाधि रूपो विवक्षितः । सच गुणविभूत्योर्ब्रह्मसमपारमार्थ्यज्ञानवत एव घटत इति प्रागेवोक्तम् । स एव च मुक्तिहेतुः इत्येतस्म
।
घकेन निर्णीतं भवति । एतदनुसारेण ‘योमामजमनादिं च वेत्ति लोकमहेश्वरम् असम्मूढस्स मर्येषु सर्वपापैः प्रमु च्यते ॥’ (१०.३) इतिश्लोके असम्मूढ इत्यत्र समित्येकीकारे जीवब्रह्मैक्यमोहरहित इत्यर्थः ।‘सर्वस्त्र चाहं हृदि सन्निविष्टः
मत्तस्स्मृतिर्ज्ञानमपोहनं च वेदैश्च सर्वैरहमेव वेद्यः (गी. १५.१५) द्वाविमौ पुरुषौ १६ उत्तमःपुरुषस्त्वन्य: १७ यस्मा |
त्क्षरमतीतोऽहं १८ यो मामेबमसम्मूढः ’ १९ इत्यत्रापि असम्मूढ इत्यस्य पूर्ववदेवार्थः ‘अचिन्मिश्राद्विशुद्धाच्च चेत (
भक्त्या मा
।
नात्पुरुषोत्तमः । व्यापनाद्भरणात्स्वाम्यादन्यः पञ्चदशोदितः ॥ ’ इत्येतदर्थसंग्रहस्य यामुनमुनिभिरेवोक्तेः । इति श्लोकेऽप्ययमेवार्थो विव मभिजानाति यावान्यश्चास्मि तत्त्वतः ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥
"
।
क्षितः । अत्र ‘ यश्चास्मि’ इत्यनेनैव पर्याप्तौ ’ तत्त्वतः यावानस्मि’ इत्यत्र विभूतिगुणयोगस्यैव विवक्षितत्वात् । उत्त
।
रार्धे तत्त्वत इत्युपादानेन पूर्वार्धोक्तार्थस्यैव विवक्षायास्सूचनेन परमभक्तिपर्यन्तविवृद्धभक्तिरेव तत्रापि विवक्षिता । उपसं [रेऽपि ‘ य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति भक्तिं मयि परां कृत्वा’ इत्यत्रापि प्रागुक्तविवृद्धभक्तिरेव विवक्षिता
अखिलेत्यादिश्लोके ब्रहह्मशब्दनिर्देशे बीजं विशेषणद्वयेन सृष्टः सप्रयोजनत्वं च गूढार्थसङ्ग्रहः
सैव गीतातात्पर्यविषयीभूता भक्तिः अत्रापि विवक्षितेति सूच्यते । तेन गीतायाः भक्तावेव तात्पर्ये नतु परसम्मतनिर्विशे षज्ञाने इति निर्णीतम् इत्यर्थ: भावप्रकाशे तृतीयसम्पुढे ’ मध्यमे भगवत्तत्व याथत्म्यावाप्तिसिद्धये ॥ ज्ञानकर्माभिनिर्वय
भक्तियोगःप्रकीर्तितः’ इति गीतार्थ क्तिविवरणमुखेन गीताविवरण, भक्तिरसायन, लघुचन्द्रिका, सिद्धान्तबिंदुटीकादि पर्यालोचनपूर्वकं सभ्यनिरूपितः ॥
ब्रह्मसूत्रेषु ‘अथातो ब्रह्मजिज्ञासा ’ इति सूत्रे ब्रह्मशब्दप्रयोगेण तल्लक्षणस्य द्वितीयसूत्रेऽभिधानेन सृष्टेः सप्र
योजनत्वस्य ‘लोकवत्तु लीलाकैवल्यम् ’ ’ वैषम्यनैर्घृण्येन सापेक्षत्वात् ’ इत्यादावभिधानेन ‘फलमत उपपत्तेः ’ ‘पराभि ध्यानात्तु तिरोहितं ततोह्यस्य बन्धविपर्ययौ ’ इत्यत्र मुक्तिप्रदत्वस्य ’ मुक्तोपसृप्यव्यपदेशाच्च ’ इत्यादौ मुक्तप्राप्यत्वस्य च प्रतिपादनेन ‘ यत्रैकाग्रता तत्राविशेषात् ’ इत्यत्र ध्यानसमाध्योः प्रदर्शनेन च मुक्ति हेतुभूतभक्तिरपि सून्यत इति रुवि
शेषौपनिषदपरमपुरुषपरत्वमेव ब्रह्मसूत्राणां वृत्तिकारसम्मतं युक्तमिति बोधनमावश्यकमित्यभिप्रेत्य तदानुगुप्येन यामुन मुन्युक्तदिशैव प्रकृतिपुरुषेत्यादिवत् मालिनीवृत्तेनैव निर्विघ्नसमाप्तिप्रचयगमनाय अखिलेत्यादिना मङ्गळश्लोक: भग वता विरचितः ॥
परब्रह्म निर्विशेषं अपरब्रह्मैव सविशेष परब्रह्मण: जगत्कारणत्वं कल्पितं, परिणाम ज्ञानस्य प्रयोजनाभव त् कौटस्स्थ्यावरोधाच्च । भक्ति: प्रेमरूपा ज्ञानरूपाचेति द्विविधा, अपरब्रहाणि प्रेमरूपा परब्रह्मणि च ज्ञानरूपा ज्ञान मेवप्रमा उपासनमपरविद्यारूपं न प्रमा, सगुणब्रह्मविद्याधर्म एव अपरमुक्तिफलजननी क्रममुक्तिफला च । अपरब्रह्मणि अवा न्तरतात्पर्यमेव सूत्राणां वेदान्तानां च, मुख्यं तात्पर्यंतु परब्रह्मणि निर्विशेषे । अपरविद्याफलदातृत्वमीश्वरस्य अविद्यानि वृत्तिरूपपरममुक्तिफलंतु निर्विशेज्ञानस्यैव तद्दातृत्वं कस्यापि नास्ति इत्यादी बहून्विषयान् परे कथयन्ति । अतः बेदः न्तानां औपनिषद सविशेषपरब्रह्मविषयत्वमेवेति ब्रह्मसूत्राणामपि तथैवेत्यादि बहूनर्थान् वृत्तिकाराभिमतान् सूचयति— अखिलेत्यादिना ॥
अखिलेत्यादिविशेषणद्वयेन ‘लोकवत्तु ललिाकैवल्यम्’’ वैषम्य नैर्घृण्ये न सापेक्षत्वात्’ इति सूत्रयद्व।भिप्रेतं सृष्टद्यादि प्रयोजकक्रीडाकारुण्यतन्त्रत्वं ब्रह्मणः प्रदर्शितम्। उक्तंचाचार्यपादैः-‘क्रीडाकारुण्यतन्त्रः सृजति ’ (त.मु.क-१४६) ‘ मिथः 6
कलहकल्पनाविषमवृत्तिलीलादयापारग्रहणकौतुकप्रथितपारवश्य:प्रभुः । स्वलक्षित समुद्गमे सुकृतलक्षणे कुत्रचित् घुणक्षतलिपिक. मादुपनिपातिनःपातिनः॥ ’ (सं.सू.अ.१.६८) इति सृष्टिमूलदयायाः मुक्तिपर्यन्तफलदानमपि प्रयोजनमिति स्फुटम् | लीला स्वयंप्रयोजनव्यापारः तादात्विकानन्दः । एतेन सृष्ट्यादेः प्राधान्येन स्वार्थत्वमिति तात्पर्येण ’ लोकवत्तु लीलाकैवल्यम्’ इति 6
सूत्रं प्रथमम् । ‘ वैषम्यनैर्घृण्येन सापेक्षत्वात् ’ इत्युक्तदयाफलं ’ पुरुषार्थोतरशब्दादिति बादरायणः
6
फलमत उपपत्तेः '
इत्यत्र मुक्तिपर्यन्तमपीत्युक्त्या परार्थत्वमपि सृष्टयादेर्दर्शितम् । इदं च फलद्वयं सृष्टयादौ मूलमिति ‘हन्ताहामिमास्तिस्रो देवताः’ इति श्रुतौ विवाक्षेतम् । ‘हन्तहर्षेऽनुकम्पायाम्’ इत्यनुशासनम् । एताद्वस्तरस्तु भावप्रकाशे (३.सं) अनुस त्धेयः । अत्रापि औपनिषद्परमपुरुषवरणीयताहेतुः इति महासिद्धान्तारम्भसूक्तौ दिङ्मात्रं व्यक्तीभविष्यति ॥ विशेषणद्वयेन जगत्कारणत्वमोक्षप्रदत्वाभ्यां सृष्टिवाक्यानां मुक्तिवाक्यानांचैकरस्यं प्रदर्शितम् । एतेन स यथा
ऽग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्ति’ इत्येतच्छ्रुतिभाष्ये (शं) द्रमिडाचार्यसंमतं राजकुमारन्यायं प्रदर्शयद्भिः ‘मृले हविष्फु
लिङ्गाद्यैः’ इति गौडपादसम्प्रदायमनुसृत्य सृष्टिवाक्यानां आत्मैकत्वप्रतिपस्यर्थत्वमिति कथनं प्राच्यसंप्रदायविरुद्धमिति
सूचितं भवति। अतएव तंत्यौपनिषदं पुरुषम् ’ विज्ञानमानन्दं रातिर्दातुःपरायणं तिष्ठमानस्य तद्विदः’ (बृ.५.९.२८)
प्रळये अचित्कल्पानां जीवानां मुक्तिपर्यन्तफलप्रदानेच्छया सृष्टिरित साधनम् [जिज्ञासा १-११ गूढार्थसंग्रहः
।
इत्यत्र औपनिषदपुरुषस्य परायणमित्यनेन ब्रह्मविद्याफलदातृत्वप्रतिपादनमपि सङ्गच्छते तत्र फलाधिकरणार्थ: विवक्षित इत्यानन्द गिरिविवरणम् एतेन फलाधिकरणावतरणभाध्ये ‘तस्यैव ब्रह्मणः व्यावहारिक्यामीशि त्रीशितव्यविभ. गावस्था
यामयमन्यस्स्वभावो एचयेते इत्युक्तिः एतच्छ्रतितात्पर्यविरुद्धा राजकुमारनयोऽपि सिद्धान्त एवानुकूल इति (र. सा. उपोद्धाता धिकारे) व्यक्तम् । अयमर्थ: औपनिषदेत्यादि विवरणावसरे निरूपयिष्यते ॥
6 जन्माद्यस्य यतः:’ इति सूत्रविषयवाक्ये ‘यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रय
।
न्त्यभिसंविशन्ति ’ इत्यादौ भूतशब्दः न पञ्चमहाभूतपर:, किंतु योगेन अचिज्जीव रूपकार्यवर्गसामान्यपरः अयमर्थः भूमिरापोऽनलो वायुः " मे मिन्ना प्रकृतिरष्टधा’ ‘प्रकृतिं विद्धि मे परां जीवभूताम्’ इत्यचिजीवतत्वद्वयमभिधाय ‘एत योनीनि भूतानि सर्वाणीत्युपधारय अहं कृत्स्नस्य जगतः प्रभवःप्रळयस्त था ॥ मत्तः परतरं नान्यत्किचिदस्ति धनञ्जय 6
।
2
(गी.७.६.७) इत्याद्युक्तौ स्फुट: । ’ येन जातानि जीवन्ति’ इत्यत्र जीवधातुप्रयोगेणापि अयमर्थस्सूच्यते । जीवधातुस्तु 3
।
चेतन एव स्वरसतः प्रयुज्यते । ‘कोह्येबान्यात्कःप्राण्यात् । यदेष आकाश आनन्दो न स्यात् । एषह्येवानन्दयाति
इत्यत्र यः स्रष्टा स एव मुक्तिदाता इत्यर्थो विवक्षित इति प्रतीयते अन्यात्’ इत्यत्र सृष्टजीवानां मोक्षव्यतिरिक्त फलं विवक्षितम् ‘प्राण्यात्’ इत्यत्रतु मुक्तिफलम् | जीवानां ज्ञानविकाससुखादिकमेव अमरणं, ज्ञानविकाससुखादिलोप एव मरणमिति श्रुत्यादिषु व्यक्तम् ज्ञानजन्मन्येव जन्मव्यवहारोऽपि स्मृत्यादिषु व्यक्तः | प्रळये ज्ञानसुखशून्यानां ।
।
।
(
जीवानां शरीरेन्द्रियद्वारा सृष्टौ किंचिज्ज्ञानविकासेन अननं ज्ञानविकासपूर्त्या प्राणनं विवक्षितम् ।
’ सोऽकामयत’
‘विज्ञानं चाविज्ञानं च ’ इति कार्यवर्गद्वयं प्रतिपादितम् । ’ विज्ञानं यज्ञं तनुते’ इत्यादौ विज्ञानमयशब्देन जीवो निर्दिष्टः ८
।
एतेनापि ज्ञान विकासो जीवस्त्र विवक्षित इति प्रतीयते
‘अस्माल्लोकान्प्रेत्य एतमानन्दमयमात्मानमुपसंक्रामति इमान्
लोकान्कामान्नी कामरूप्यनुसञ्चरन् एतत्सामगायन्नास्ते’ इत्युपसंहारे ‘सोऽनुते सर्वान्कामान्सहब्रह्मणा विपश्चिता’
इति ऋगुक्तस्यार्थस्य विशदीकरणेन ज्ञानादिपूर्णविकास: मुक्तावेबात स्फुटं प्रतीयते, मळये अश्मेवाप्रबुद्धानां जीवानी
शरीरसम्बन्धेन ज्ञानविकासयोग्यता सृष्टौ, तत्फलमेव ‘अन्यात्’ इत्यत्रोक्तम् तत्पूर्तिस्तु मुक्तौ सैव ’ प्राण्यात्’ इत्यत्रो च्यते ‘ आनन्दाद्धथैव खल्विमानि भूतानि जायन्ते इत्यादिना आनन्दरूपस्य जगत्सृष्ट्यादिहेतुत्वं वक्ष्यते अत्रतु एतदु भयहेतुत्वं आनन्दरूपस्य सर्वान्तरत्वं प्रतिपादितम् । अन्तर्यामित्वं च निर्हेतुककृपया ज्ञानविकासादिसिद्धयर्थमिति
श्रुत्यादिसिद्धम् । अतश्बैतत्सर्ववाक्यपर्यालोचनायां स्टेर्दयामूलकत्वं आनन्दमयविद्यायामाप विवक्षितमिति निश्चीयते । भङ्गादि इत्यत्रादिशब्देन सृष्टया द्यौपयिकान्तःप्रवेशनियमनादयो गृह्यन्ते । तथा च भाष्ये स्वयमेव वक्ष्यति ‘जगदुद्भव 6
स्थितिसंहारान्तःप्रवेशनियमनादिलीलमिति ॥ इति व्यासायेंरेव विवृतम् ॥ ‘सृष्टौ अचितः स्वरूपपरिणामरू पविकासः जीवस्य नित्यत्वेन श्रुत्यादिसिद्धस्य धर्मभूतज्ञान विकासरूपविकार : एतदु भयावस्थापन्नस्य कार्यवर्गस्यान्तः प्रविश्य नियमनेनान्तर्यामित्वरूपावस्था परब्रहाणि एवं विभागस्य प्रमाणतस्सिद्धेः’ (अ. २.पा.३) इति सूत्रभाध्ये उत्तरत्र भगवतैव निरूपयिष्यमाणत्वेन जीवे कौटस्थ्यं स्वरूपविकारशून्यत्वं परब्रह्मणित कर्मसङ्कुचित धर्मभूतज्ञानविकासेनापि शून्यत्वम् ’ इति सिद्धयति ॥
एवं उपलक्ष्यंहि अनवधिकातिशयबृहत् बृंहणं च बृहतेर्थातोस्तदर्थत्वात् इति जन्माद्यधिकरणमाप्यम् अत्र
श्रुतप्रकाशिका। बृहतेरिति बृहत्वस्य स्वरूपतो गुणतश्च विवक्षित्वात् बृंहणत्वरूपवृहत्वमपि धात्वर्थान्तर्गतमिति भावः | ।
बृंहणत्वमपिहि ब्रह्मशब्दार्थः, तच स्वसङ्कल्पेनाचेतनस्य स्थूलपरिणामहेतुत्वम्, चेतनानां ‘रुचानन्त्याय नस्पत’ इत्युक्त
श्रुतप्रकाशिकायां भुवनेत्यादिविशेषणार्थ:
X
श्रीभाष्यम्
भुवनजन्मस्थेमभङ्गादिलीले श्रुतप्रकाशिका इति हिस्मयते ।
- यथा चोदनासूत्रेण
आचर्यते च तत्तत्प्रवन्धृभिः ।
धर्मस्वरूप प्रमाणं
च श्रुत्यर्थाभ्यां
श्रोतृमनस्समाधानार्थ शास्त्रार्थसंक्षेपश्चार्थतः क्रियते ।
निरूपितम् । प्रसिद्धं
हि श्रोतुः प्रतिपत्तिसौकर्याय वक्तुरर्थ
प्रतिपादनस्य सङ्क्षेपपूर्वकन्वम् ’ इष्टं हि विदुषां लोके समासव्यासधारणम्’ इति । शास्त्रार्थसंक्षेपेण वस्तुनिर्देशः
भवत्वित्याशविदिश्च कृतौ भवतः । विनतेति भक्तिरूपेति ब्रह्मणि * प्रदीभावाचगमात् प्रणतिरपि फलिता ।
- ’ णमु प्रहत्वे ’ इति हि धातुः । एवं त्रिविधं मङ्गलमाचरितं भवति ॥
श्लोकस्य प्रथमपदेन पूर्वस्याध्यायद्विकस्यार्थस्संक्षिप्तः । द्वितीयेनं तूत्तरद्विवस्य । कर्ममीमांसायां प्रतिपाद्यभेदन
षट्कभेदबदत्रापि “विषयविषयिरूपप्रतिपाद्यभेदेन द्विकभेदः । शास्त्रप्रतिपाद्यमुपेयात्मकं सिद्धोपायः उपेयंच ब्रह्म | साध्योपायो भक्तिः । तत्र सप्तम्यन्तैः पदैस्सिद्धोपायरूपंमुचेयं च ब्रह्मोच्यते । * भवतीति भुवनं कार्यवर्ग: । *रूढिशक्तया तत्कारणस्य
कुलालादिव्यावृत्तिः । भुवनशब्दो हि विपुलतरकार्यविशेषे रूः | अखिलशब्देन सर्वदेशकालवर्ती* यण्डजातानि तेन ब्रह्मादिव्यावृत्तिः । खिलं नास्तीत्यखिलम् कार्येषु ब्रह्मणस्सृष्टत्यादिव्यापाराविषयभूतं न किंचित् ।
।
विवक्षितानि
अस्तीत्यर्थः । अनया व्यतिरेकोक्त्या प्रायिकत्वनिवृत्ति: ‘अज्ञातं नास्ति ते किञ्चित्’ इतिवत् । अतस्सकलमित्यन्वय मुवेनानुक्तिः । अकारोपक्रमत्वासद्धये निखिलत्यनुक्तिः । ‘अ इति भगवतो नारायणस्य प्रथमाभिधानं भगवतो
बाचकमकारं प्रयुञ्जानेन किंनाम मङ्गलं न कृतम्’ इति चाभियुक्तैरभ्यधायि । अत्र भगवद्वाचित्वाविवक्षायामपि भगव १
द्वाचित्वशक्तियोगादकारो माङ्गलिक: ; ‘अइउण्’ इत्यत्राकारवत् । नञो निषेधवाचित्वेऽपि निषेध्यवशाच्छुभत्वाशुभत्वे।
।
अतो ‘निष्प्रत्यूहमुपास्महे’ इत्यादि निर्देशस्यैव शुभतरत्वं वैकल्यनिषेधेन पोकल्यपरत्वात् आखिल शब्देन ऋचिदन्चिद्भेदो ऽप्यभिप्रेतः। जन्म- नित्यनैमित्तिकप्राकृतरूपम् । *स्थमा- स्थितिः । सा चान्तर्यामिविष्ण्ववतारलोकपालमन्वादिनृपमाता
पित्रादिमुखेन क्रियमाणों बहुविधा विवक्षिता | भङ्ग :- नित्यनैमित्तिकप्राकृतरूपः ॥ मोक्षस्य लयान्तर्भावेऽपि शास्त्रस्य परमप्रयोजनत्वादत्र स नार्भावितः । अत एव आदिशब्देऽपि स नान्तर्भाव्यः
तस्य साधारणतया स्फुय्प्रतिपत्तिहेतुत्वाभावात् । पृथगेव हि पूर्वैश्च स्पष्टतरं निर्दिष्टो मोक्ष: ’ जगदुद्भवस्थितिप्रणाशसं सारविमोचनादयः’ इति, ‘जगज्जन्मस्थिंतिभ्वंस महानन्दैकहेतवे ’ इति च । भगवान् भाष्यकारश्च तथा निर्दि ।
शति । यथा बेदार्थसङ्ग्रहे- ‘उद्भवस्थितिप्रलयंसंसारनिवर्तनैकहेतुभूतः’ इति । माध्ये च ’ निखिलजगदुदयविभव विलयमहानन्दैककारणम्’ इति * विनतेत्यादिपदेन स्थेमान्तर्भूत स्वर्गादिसांसारिकफलप्रदत्वस्य पृथगुकिरनपेक्षिता । शास्त्रासाधारणस्य परमप्रयोजनस्य मोक्षस्यैव हि पृथगुत्त्यपेक्षा | आदिशन्दन सृष्टयाद्यौपायकान्तःप्रवेशनियमन।दि
गृह्यते । तथा न्च भाष्ये स्वयमेव वक्ष्यति ‘जगदुद्भवस्थितिसंहारान्तःप्रवेशनियमनादिलीलम्’ इति । जन्मस्थेमभ
ड्रोक्त्यैवान्तः प्रवेशनियमन दरर्थसिद्धत्वाश्रयणमयुक्तम् । * अध्यासपरिणामपक्षयोरतस्यार्थिववाभावेन तव्यावृत्यर्थं स्वमते
पृथग्वक्तव्यत्वात्, शाब्दत्वे सम्भवत्यार्थत्वकल्पनायोगात्, * विखरेणोक्तस्वार्थस्य सोको विवातित्वोपपत्ते | लीलाशब्देन भगवतः पपिपूर्णत्वानन्यप्रेर्यत्वस्वच्छन्द’चेष्टितत्वादिकमभिप्रेतम् । यथोक्तं महाभारते—— अप्रमेयोऽनियोज्यश्च यत्र कामगमो वशी। मोदते भगवान् भूतैः बाल: ऋडिनकैरिव ॥
इति । अप्रमेयत्वम्=परिपूर्णत्वम् अनियोज्यत्वम् =अनितरप्रेर्यत्वम् । यत्र कामगम इत्यनेन वायूदकादिप्रेरणाधीनःबुद्धेि |
।
S 2
थ्रु.प्र. विनतशब्दार्थत्वेनोक्तन्यासविष्ठ (गृ.सं. ) विचार:
[जिज्ञासा १-१-१
श्रीभाष्यम
विनतविविधभूतत्रात श्रुतप्रकाशिका
प्रतिघातब्युदास या स्वाधीनलीलीपकरणचं या पशिशब्दार्थः । विश्व वशं यस्य सवशी । इन्द्रियव्यापाराधीन चेष्टाव्यावृच्या शिदः | बालदृप्रान्तेन लीलायाः प्रयोजनान्तरनैरपेक्ष्यमभि येतम् अनेन राज्ञां पणबन्धपूर्वकद्यूतादिव्यावृत्तिः । कार्यवर्गीपेक्षया भगवन्महिम्नो विपुलतरत्वं ऋडिनकै रित्यनेन फलितम् । ननु *प्रयोजकव्यापारो हि लीला | अतो भङ्गस्य लीलावे युक्तेऽपि कथं प्रयोज्यव्यापारभूत योजन्मस्थित्योलबम् ? उच्यते- ’ बहु `स्यां प्रजायेय ’ इति हि श्रुतिः । अतः प्रयोजकव्यापारवत् प्रयोज्यव्यापारस्यच लीलात्वकथनेनोपादानत्वं फलितम्, लीलापदेन निमित्तत्वं च | मझादीत्यनेन प्रथमाध्यायार्थस्संक्षिप्तः । अवातसमस्तकामस्य व्यापारानुपपत्ति परि
|
पूर्वक पारस्पन्दादिन्चेष्टशव्यावृत्तिः
हरता लीलाशब्देन विरोधपरिहारपरद्वितीयलक्षणार्थस्सूचितः । एवं पूर्वद्विकोक्तं कारणत्वरूपं परत्वं संक्षिप्तम् । तस्यैव समा श्रयणीयताप्रतिपत्त्यर्थसुत्तरद्विकोक्तमभिगम्पत्यमोक्षप्रदत्वलक्षणं सौलभ्यं संक्षिप्यते विनतेत्यादिपदेन । केवलं प्रकृष्टत्वं केवलं सौलम्पं च कनकाचल डोष्टशकठपोरिव समाश्रयाशीवाय कल्पतइति तदुभयव्यावृत्त्यर्थमिदं पदद्वयम् । विशेषण नताः -
प्रह्लीभूता: बिनताः, न्यासोपासनात्मकांश्च विद्याविशेषनिष्ठाः विवक्षिताः । वैविध्यंच ‘तदुपर्यापि बादरायणः ऊर्ध्वरेतस्सु ।
च’ इत्यादिना वक्ष्यमाणदेवत्त्रमनुष्यत्ववर्णाश्रमादिभेदेन जन्मगुणवृत्तभेदेन चाभिप्रेतम् | भगवज्ज्ञानेन लब्धसत्ताकावं भूतशब्दार्थ: ‘अस्ति ब्रह्मेतिचेद्वेद सन्तमेनं ततो विदुरित’ इति हि श्रुतिः । * लब्धखरूपाणां च –८
6
तेषामेवानुकम्पार्थमहमज्ञानजं तमः | नाशयाम्यात्मभावस्थ: '
दद मि बुद्धियोगं तम् ’ ’ अहं स्मरामि मद्भक्तम् '
इत्याद्युक्तप्रकारेण साक्षात्काविरोधिनिवर्तनादिकं हि भगवत एव भर इति नेस्वरूपप्रच्युतिसम्भवः । भूतसंबन्धी व्रातः गूढार्थसह
ज्ञानवृहत्वहेतुत्वं च ’ इति । एवं ब्रह्मशब्दार्थवरिष्करणेन सृष्टिवाक्यानां मुक्तिवाक्यैकरस्यं प्रतिपादितं भवति । ’ सहयज्ञैः प्रजासष्ठा’ इति गीताभाष्ये अश्मेवाप्रबुद्धानां जीवानां ज्ञान सुखादिसंपादनेच्छया सृष्टिरिति प्रतिपादनेन सृष्टेर्दयामूल्य त्वसिद्ध्या प्रयोजनत्वं सिद्धमिति राजकुमारन्यायोऽपि राङ्गतः । आत्मैकत्वप्रतिपयर्थन्यं सृष्टिवाक्यानाभित्युक्तिपि निरञकाशा ॥
अत्र श्रुतकाशिकायां ‘ विशेषेणनताः विनताः न्यासोपासनात्मकाशेषविद्याविशेषनिष्ठा: विवक्षिताः '
इति
6
‘ विद्यांचाविद्यांच’ इतिश्रुतिविवरणावसरे ‘उपासनरूप न्यासरूप च उपेयविरोधिनिरासकं ज्ञानम्’ इति ‘नाना शब्दादिभेदात् ’ इतिसूत्रे इह ब्रह्मविद्यास्सर्वाः ब्रह्मप्राप्तिमोक्षैकफलाः सद्विद्या भूमविद्या दहरविद्या उपकोरुलविद्या 6
शाण्डिल्यविद्या वैश्वानरविद्या अक्षरविद्यादिकाः’ इति भायविवरण ’ आदिशब्देन न्यासो विवक्षितः’ इतिच व्यासायें रुक्तम् ॥अत्र च न्यासस्य मुक्तिहेतुत्वं वेदार्थसङ्ग्रहे–’ एतेषां संसारमोचनं भगवत्प्रपात्तमन्तरेण नोपपद्यते ’ इति सूक्तौ स्पष्टमिति इत्थं विनतशब्दस्य विवरणंकृतम् ॥
तत्र तात्पर्यदीपिका–‘ भक्तियोगनिष्ठस्यापि तन्निष्पच्यर्थं तदङ्गत्वेन प्रपत्तेरपेक्षितत्वात् प्रपात्तनिष्ठस्य स्वतन्त्र
तयोपायत्वाञ्च प्रपत्तिमन्तरेण नोपपद्यते इत्युक्तम्’ इति । वेदार्थ अनन्तरं ‘देवीपा गुणमयी मम माया
दैवीयेषेत्यस्य वे.सं. श. गं. स्वतन्त्रप्रयात्परम्त्यागेनेत्यत्र त्यागः आत्मत्याग:
४क
गूढार्थसंग्रह:
दुरत्ययया | मामेव ये प्रपद्यन्ते मायामेतां तरान्ते ते ॥ इति तस्यैवानः कर्मकृतविचित्रगुण मयप्रकृतिसंसर्गरू
पात्संसारान्मोक्षः भगवत्प्रपत्तिमन्तरेण नोपपद्यत इत्युक्तं भवति । ‘नान्यः पन्था अयनाय विद्यत’ इत्यादिश्रु ।
तिभिश्च’ इति सूक्तिविवरणावसरे ‘प्रपत्तिमन्तरेण मोक्षासिद्धी प्रमाणमा दैवी इति श्रुतिमाह - नान्य इति ।
।
इत्यादिश्रुतिभिश्च भगवत्प्रपत्तिमन्तरेण नोपपद्यते इत्युक्तं भवतीत्यन्वयः कथं ’ तमेवविद्वान्’ इत्यादिवाक्या नां प्रपत्तिमन्तरेण मोक्षानुपपत्तिपरत्वम् ? उच्यते । ‘तमेवं विद्वान्’ इत्यादिवाक्यानामुपासनाविधिपरत्वात् उपासनस्य च स्वनिष्पत्तवर्थ प्रपत्तिसापेक्षा उक्तार्थ फालेतः । वाक्यार्थज्ञानमात्रस्योपायताव्यवृत्तिरभि :
प्रेता । यद्वा विद्वानिति वेदेनवाचिशब्दः उपासनप्रपदनसाधारण इति भावः ’ इति च ॥
एवं शरणागतिगये –’ मदीयानादिकर्मप्रवाहप्रवृत्ताम्’ इत्यादी ‘दैवीं गुणमयीं मायां दासभूतश्शरणाग तोस्मि, तवा| स्मैदास इति वक्तार मां तारय’ इति सूक्तावविषयस्य स्वतन्त्रप्रपत्तिपरत्वं स्फुटम् । अत्रव्यासार्य
विवरणम् - ‘दैवीं त्वहीलार्थम् । दासभूतं माँगिति सम्बन्ध: । शरणागतोऽस्मि तवास्मीति पूर्वोत्तरखण्डार्थः । व
क्तारम् - ‘भव शरणमितीरयन्ति ’ इतिहि उच्यते’ इति ॥ ननु प्रपत्तेः मोक्षहेतुत्वसिद्धयङ्गीकारेऽपि न्यासस्य कथं मोक्षहेतुतासिद्धिः इति चेत् अत्रायमाशयः । भगवता
अहिर्बुध्न्यसंहितोत्तरीत्या विरचित नित्यग्रन्थे ‘शरणमुपगच्छेदखिलेत्यादिना’ ‘शरणागतिप्रकारश्चपूर्वोक्त: ’ इत्यत्र गद्योक्तशरणागतिरेव विवक्षितेति बोषितम् । अहिर्बुध्न्यसंहितायांच ’ कथं तपांसि यज्ञाश्च तीर्थदानानि सर्वशः । तस्यैव
न्यासमात्रेण सिध्यन्ते तद्वद प्रभो ॥ ’ इति प्रश्नस्य ’ यानि निःश्रेयसार्थानि चोदितानि तपांसि वै । तेषांतु तपसांन्यास
मतिरिक्तं तपश्श्रुतम् । ’ (अ.सं. ३७.) इति प्रतिवचने तस्मान्न्यासमेषां तपसामतिरिक्तम्’ इति श्रुतिर्मूलमितिप्रतीयते । न
कर्मणा नम्रजया धनेन त्यागेनैके अमृतत्वमानशुः ’ इति तैत्तरीयश्रुतौ त्यागस्य मुक्तिसाधनत्वं प्रतिपाद्यते । त्यागो
न्यासश्चैक एव । यद्यपि त्यागनैक इति श्रुतिः फलसङ्गकर्तृत्वत्यागपरतया गीतायामष्टादशे भगवता व्याख्याता । अथापि 6
दैबीह्येषा’ इतिश्लोकस्यापि अङ्गप्रपत्तिपरतयैव भगवता तंत्र व्याख्यान करणेन तत्पक्षमनुसृत्याष्टादशे तथा विवरणकरणेऽपि
वेदार्थसंग्रहगद्ययोः दैवीह्येषेति श्लोकस्य स्वतन्त्रप्रपत्तिपरतया विवरणकरणेन तदनुसारेण अत्रात्मत्याग एव विवक्षितः ॥ श्रुतौ त्यागशब्दस्य आत्मत्यागपरत्वं भारते व्यक्तम् । यथा शान्तिपर्वणि राजधर्मे– ‘त्यागवान् जन्ममरणे नाप्नोतीति श्रुतिर्यतः । प्राप्तवमा कृतमतिर्ब्रहा संम्पद्यते तदा ॥ ७-३५ स धनञ्जय निर्द्वन्द्वो मुनिर्ज्ञानसमन्वितः ।
वनमामन्त्र्य वत्सर्वान् गमिष्यामि परन्तप ॥ ३३ ॥’ इति वदन्तं युष्टिरंप्रति नकुलोक्तौ बहुविधत्यागशब्दार्थनिरूपण
मध्ये ’ ब्राह्मणाश्श्रुतिसंपन्नास्तन्निबोध नराधिप । वित्तानि धर्मलब्धानि ऋतुमुख्येष्ववासृजन् | ७ ॥ कृतात्मा स महा राज सबै त्यागी स्मृतो नः | अनबंधय सुखादानं तथैचोर्ध्वं प्रतिष्ठितः ॥ ८ ॥ आत्मत्यागी माहाराज स त्यागी तापसो मतः । अनिकेत: परिपतनू वृक्षमूलाश्रयो मुनिः ॥ अयाचकस्सदा योगी स त्यागी पार्थ भिक्षुकः । क्रोधहर्षावनादृत्य
पैशुन्यंच विशेषतः ॥ १० ॥ विप्रो वेदानधीते यः स त्यागी गुरुपूजक: ।’ इति, सहदेवोक्तौ न्व " न बाह्यं द्रव्यमुत्सृज्य
सिद्धिर्भत्रति भारत । शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा नवा ॥ १३-२ ॥ द्व्यक्षरस्तु भवेन्मृत्युः त्र्यक्षरं ब्रह्म शाश्व तम् । ममेति द्व्यक्षरो मृत्यु: नममेति च शाश्वतम् ॥ ४ ॥ ’ इति, ‘आत्मा राज्यं धनंचैव कळचं वाहनानि च । एत
द्भगवते सर्वमिति तत्प्रेक्षितं सदा ॥ ’ इति नारायणाख्याने उपरिचरवसोरनुसन्धाने, अश्वमेधिवः-‘आत्माऽपिचायं न ११
४ ख
[ जिज्ञासा १-१-१
आत्मत्यागो न्यास इति अ. संहितावमुक्तम् गीतायाः श्वे. श्रुत्युपबृंहणत्वम् गूढार्थसंग्रह:
|
मम सर्वा वा पृथिवी मम यथा मम तथाऽन्वेषां इति मन्ये द्विजोत्तम ॥ ३३-११ ॥ सेमितिकस्य स्वमिति वेदवचस्तथा । नाध्यगच्छमहं बुध्या ममेदमिति यद्भवेत् ॥’ इति जनकोक्तीचात्मत्यागस्य श्रौतत्यागशब्दार्थत्वंस्पष्टम् ॥ न्यासस्य आत्मत्यागरूपत्वमहिर्बुध्नचसंहितायामपि - ’ यद्वा भगवते तस्मै स्वकीयामसमर्पणम् ॥ ३१-४ | वियुक्तं
प्रकृतेश्शुद्धं दद्यादात्महविः स्वयम् । विशिष्टदेवतायास्मै चक्ररूपाय मन्त्रतः ॥ ५ ॥ ’ इति, ‘नीचीभावेन संद्योत्यमा त्मनो यत्समर्पणन् । बिष्ण्वादिस्था चतुर्थी तसंप्रदानप्रदर्शिनी ॥ ५२.३५.॥ नीचीभूतोह्यसावान्मा यत्संरक्ष्यतयाऽयेते
तत्कस्मा इत्यपेक्षायां विष्णवे स इतीर्यते ॥ ६३ ॥’ इति ’ सर्वज्ञस्सर्वशक्तिश्च सर्वकृत्पुरुषोत्तमः । जातवेदास्समु द्दिष्टः आत्मा सोमस्समीरितः | सह्यविद्यावशात्सर्वयोनिस्थः सूयते सदा ॥ ५७-३३ ॥ योग्यताऽऽपादनं तस्य प्रोच्यते ऽत्र मुनोति न । पृथक्कारोहि सोमस्य स्वरसस्य सुनोतिजः ॥ ३४ ॥ रसीभूतेन सोमेन याग:कर्ते सशक्यते उपमा ।
गर्भं एवायं वाक्यार्थ: पूर्वपादजः ॥ ३५ ॥ सोमं यथाऽभिपुण्वन्ति ह्यध्वंर जातवेदसे दिवसमानस्तथाऽकान नृषिःस्वं परमात्मने ॥ ३६ ॥ देहेन्द्रियमन:प्राणधीगुणेभ्यस्स्वरूपतः। विविनकि प्रसङ्ख्याः साम्यहेजेः ॥ ३७ ॥ एवं विविच्य दत्वाऽस्मै स्वात्मानं जातवेदसे | तत्स्थः स तम्मना भूत्वा स्वेनाथो संविवित्सते ॥ ३८ ॥ नमशब्दार्थ एवायं वाचस्पतिरस 1
प्रकारान्तरदर्शित: ’ इति । ‘बाचस्पते विधेनामन्’ इत्यादौ एतदेव पुनर्वक्ति मुनिस्स्वात्मसमर्पणम् । '
6
पूर्वोक्तः सोमं सोमरसोपमम् | पित्रत्वात्मरसं स्वस्मै मयाहुतमिवाध्वरे’ इत्यादिषु च व्यक्तम् ॥
गीतायां सप्तमोपक्रमे चतुर्विंशतितत्वात्मक प्रकृति जीवयोः परस्वामिक के प्रदर्य ‘मामेव येप्रपद्यन्ते ’ इत्युत्तया
प्रपद्यन्तइत्यत्र प्रेत्युपसर्गेण पदधात्वर्थे प्रकर्ष उक्तः | सन्चान्यस्वामिकत्वार्नवृत्तिपर्यवसितः । तेनात्र आत्मन्यासोऽपि विव क्षितः। श्वेताश्वतरोपनिषदि (१) ’ क्षारात्मानावीशते देवएक: ’ इत्याद्युत्तरं ‘तद्धोभयं वै प्रणवेन देहे ’ इत्यत्र परमात्म जीवौ प्रणवघटकाकारमकारार्थौ ईशेशितव्यभावसंबद्ध विवक्षितौ । अत्रैवावधारणार्थानुसंधाने उक्तार्थ: सिद्धयति । ‘ मुमुक्षुर्वै शरणमहं प्रपद्ये ’ (वे. ६) इतिश्रुतौ ‘प्रपद्ये’ इत्येतदनुसंधानेन तदेकार्थ्येनैव ’ मामेब ये प्रपद्यन्ते’ इत्युः क्तम् । गीतायामप्यष्टादशे ‘मामेकं शरणं व्रज इत्यत्र सेव श्रुतिर्विवक्षिता इत्यहिर्बुध्नयसंहितोक्तार्थे श्रुतिगीतकरस्यम्गुरुर॥ "
गीता सङ्ग्रहः, तद्विस्तरः पञ्चरात्रम् | पाञ्चरात्रिकैः तद्धर्मोऽनुष्ठीयंत इति मोक्षधर्मे व्यक्तम् ।
6 य एष
स्माकं.ऋषिर्गन्धवतीसुतः तस्मात् श्रुतं मयाचेदं कथितं च तवानघ । (अ.३५६. ८) नारदेनतु संप्राप्तः सरहस्यरस ।
सङ्ग्रहः । एष धर्मो जगन्नाथात्साक्षानारायणानृप | ९ | एवमेष महान्धर्मः स ते प ू र ् व नृपोत्तम । कथिता हरिगीतासु समासविधिकल्पितः । १० । नारायणीयमाख्यानमेतत्ते कथितं मया । पृ॒ष्टेन शौनकाद्यैश्च नैमिशारण्यवासिभिः ॥ नारदेन पुरा यद्वै गुरवेतु निवेदितम् ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः ॥
,
इत्यभिधाय ’ अहोक
।
न्तिनस्सर्वान् प्रीणाति भगवान् हरिः । विधिप्रयुक्तां पूजां च गृह्णाति शिरसा स्वयम् ॥ (शा. मो. ३५८.१) केनैष धर्मः कथितः देवेन ऋषिणाऽपि वा ॥ ६ ॥ एकान्तिनां च काचर्या कदाचोत्पादिता विभो । एतन्मे संशयं छिन्धि परंका तूहलंहि मे ७ ॥ ’ इति जनमेजयप्रश्नस्य प्रतिवचने ‘समुपोहेष्वनीकषु कुरुपाण्डवयोमृधे । ऊर्जुन विमनस्कं च धार्यते गीत। भगवता स्वयम् ॥ ८ ॥ गहनोह्येष धर्मों वै दुर्विज्ञेयोऽकृतात्मभिः । सम्मितस्सामवेदन पुरैवादियुग कृतः । स्वयमीशन राजनारायणेनह ॥ १० ॥ एतदथ महाराज पुष्ट नारद: ।’ इत्यत्र पुरातनसेकान्तिधर्मस्य गीतो
क्तत्वं ब्रह्मणो मानस चाक्षुपवाचिकजन्मसु अस्य धर्मस्याविर्भावतिरोभाव, ‘ऋग्वेदपाठपठितं व्रतमेतःसुदुश्चरम्
।
इत्य.
नेन ॠग्वेदपठितस्वं ब्रह्मणः श्रावणजन्मन्याप तथैवाविर्भावतिरोभात्री ‘ततो हि सवतो धर्मो व्याप्य लोकानवस्थितः ॥ १२
जिशासा १-१-१]
पञ्चास्य गीताविस्तरत्वं तद्धर्मस्य ऋग्वेद पठितत्वं च भारतासद्धम्
४ ग
गुढार्थसङ्ग्रहः
इत्यनेन गीतोक्तैकान्तिधर्माभिन्नस्य सात्वतधर्मस्य कृतयुगे व्यातिं त्रेतायुगे ब्रह्मणोना (सिक्य) सत्यजन्मनि अण्डजजन्मनि चाविर्भावतिरोभावौ
’ यदिदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप । तत्रैष धर्म: कथितः स्वयं नारायणन ॥ ४८ ॥ पिता
महाय शुद्धाय युगादौ लोकधारिणे । पितामहश्च दक्षाय धर्ममेतं पुरा ददौ ॥ ४९ ॥ ततो ज्येष्ठेतु दौहित्रे प्रादाद्दक्षो नृपो त्तम । आदित्ये सवितुर्ज्येष्ठे विवस्वान् जगृहे ततः ॥ ५० ॥ त्रेतायुगादौ च ततः विवस्वान्मनवे ददौ । मनुश्च लोक
भूत्यर्थं सुतायेक्ष्वाकवे ददौ ॥ ५१ ॥ इक्ष्वाकुणा च कथितः व्याप्य लोकानवस्थितः । ’ इत्यादिना ’ इमं विवस्वते योगं इति गीतोक्तदिशा सात्वतधर्मस्य परम्पराप्रातत्वं त्रेतायुगेऽपि व्याप्तिं ’ कथितो हरिगीतासु समासविधिकल्पितः ॥ ५३॥
नारदेनतु संप्राप्तस्सरहस्यस्ससङ्ग्रहः । एप धर्मो जगन्नाथात्साक्षान्नारायणान्नृप ॥ ५४ ॥ एवमेष महान्धर्म: आद्यो राज न्सनातनः । दुर्विज्ञेयो दुष्करश्च सात्वतैर्धार्यते सदा ॥ ५५ ॥ धर्मज्ञानेनचैतेन सुप्रयुक्तेन कर्मणा । अहिंसाधर्मयुक्तेन हरिरेवहि क्षेत्रज्ञः निर्ममो निष्कळस्तथा
।
प्रीयते हरिरीश्वरः ॥ ५६ ॥ एकव्यूहविभागोवा कचिद्विव्यूहसारीतः । त्रिव्यूहश्चापि संङ्ख्यातचतुर्व्यूहश्र हृदयते ॥ ५७
यद्येकान्तिभिरास्तीर्ण जगत्स्या कुरुनन्दन ॥ ५८ | अहिंसकैरात्मविद्भिर
।
भूतहिते रतैः । भवेत्कृतयुगप्राप्तिः आशी: कर्मविवर्जिता ॥ ५९ ॥ एवं स भगवान्व्यासो गुरुर्मम विशांपते कथयामास
धर्मज्ञो धर्मराजोद्विजोत्तम ॥ ऋषीणांसन्निधौ राजन् शृण्वतोःकृष्णभीष्मयोः । तस्याप्यकथयत्पूर्वी नारद रसुमहातपाः’ इति । इमानि वचनानि नीलकण्ठेन व्याख्यातानि प्राचीनकोशेष्व्प्युपलभ्यन्ते ॥
’ गीतानां मोक्षधर्माणांचैवंपरत्वादिति ’ (ई.उ) भाष्ये वदद्भिः शङ्कराचार्यैस्सूत्रमाध्ये मोक्षधर्मनारायणाख्यानव चनानां बहूनामुदाहरणेन चातुरात्म्यवासुदेवाराधन रूपत्वं पाञ्चरात्रधर्मस्य तेषामपि संमतम् । एतदनन्तःकालिकजीवब्रह्मा द्वैतज्ञाने एव सिद्धान्तिनां तेषांच विप्रतिपत्तिः । अतः भगवद्गीताविस्तरःपञ्चरात्रम् | गीतोक्तार्थस्य पञ्चरात्रे विस्तरेणाभि
धानंच प्रामाणिकम् । एवंच ‘तस्मान्नयासभेषां तपसामतिरिक्तमाहुः’ इत्यत्र ‘ त्यागेनैकेऽमृतत्वमानशुः ’ इतिश्रुतिविवक्षि
तात्मत्याग एव न्यासः इति मोक्षहेतुन्यासनिरूपणानन्तरं ‘तेषां तपसां न्यासमतिरिक्तं तपश्श्रुतम्’ इत्यहिर्बुध्नयसं
हिनोक्तिर्युक्तेचेति सिद्धम् ॥ एतदनन्तरं ’ समित्यादि ऋग्वेदश्रुतिराह दयावती ’ ’ समित्साधनकादीनां यज्ञानां ग्यास मात्मनः । नमसा योऽकरोद्देवे सस्वध्वरइतीरितः ॥ १ (३७.३७) इत्युक्तम् । अत्र ‘यरसमिधा य आहुती यो वेदेन ,
ददाश मर्तोऽग्नये यो नमसास्वध्वर: ’ (म.८.सू. १९. मन्त्र. ५) इति श्रुतिर्विवक्षिता ॥ अत्राश्वालायनगृह्यसूत्रे
6
अथापि ऋच उदाहरन्ति यः समिध य आहुती योवेदेनेति (१.१.४.) ’ सर्भिधमेवापि
श्रद्दधान आददन्मन्यत यज इदमिति नमस्तस्मै य आहुत्या यो वेदेनेति विद्ययैववाऽप्यस्ति प्रीतिः तदेतत्पश्यन् ऋषिरुवाच
"
इन्युपक्रम्य,
‘ यो नमसा स्वध्वर ’ इति नमस्कारेण खल्वपि न वै देवा ,
नमस्कारमति यज्ञो वै नमः
इति हि ब्राहाणं भवति ’ इत्यन्तमुपन्यस्तम् । अत्र सायणीये ‘यश्चस्वध्वरः शोभनेनाध्वरेणां ज्योतिष्टोमादिना युक्तरसन्
नमसा अन्नेन च पुरोडाशादिना अग्नय ददाश– अग्नयर्थंपरिचरति तस्येदवन्त इत्युत्तरेण संबन्धः ’ इति श्रुति
द्वयमेकवाक्यतया अर्थबोधकमित्युक्तम् ॥ ‘तस्पेदर्वन्तो रहयन्त आशवस्तस्य द्युम्नितमं यशः । न तमहो देवकृतं कुतश्चन न मर्त्यकृतं नशत् ॥ (
इति समनन्तरश्रुतिः । अत्र चेत्थं सायणभाष्यम्- ‘यः पूर्वोक्तः तस्येत् तस्यैव । आशव:- व्यापनशीलाः अर्वन्त: 6
अश्वाः । रंहयन्ते- वेगं कुर्वन्ति शत्रून् प्रसहन्त इत्यर्थः । झुम्नितमम् दीप्तिमत्तमम् यशंः कीर्तिश्च तस्यैव भवति ।
यद्वा द्यु॒म्नमिति धननाम् । धनवत्तमं यशः अन्नं च तस्य भवति । अपि च देवकृतं देवैः कृतम् अंहः पापम्
[ जिज्ञासा ११-१
ऋग्वेदश्रुत्यनुसारेण यस्समिधेत्यत्र नमश्शब्दार्थन्यासानैर्णयः
गूढार्थसंग्रहः कुतश्चन कस्मादपि हेतोः । तं न नशत्- न प्राप्नोति । न मयंकृतं मनुष्यैः कृतम्’ इति स्वध्वरस्य पापसंबन्धप्राप्तग्रभाव
॥
अत्रोत्तरार्धे तस्य
उक्त: । अत्र ब्राह्मण ‘नवे देवा नमस्कारमति’ इत्युक्तम् । एतत्पूर्व (६ म.५१
सू..) ’ मात्र एनोऽन्यकृतं भुजेम मा तत्कर्म वसवो बच्चयचे । विश्वस्य हि अवथ विश्वदेवाः स्वयं वपुस्तन्वं रीरि
पीठ ॥ ’ इत्यत्र देवमाहात्म्यमुक्तम् ॥ नम इदुग्रं नम आविवासे नमो दाधार पृथिवीमुत द्याम् | नमो देवेभ्यो नम ईश येषां कृतं चिदेनोनमसा विवासे ’ इतिश्रुतिः । श्रुतिद्वयं चेत्थं विवृतं सायणीये- ‘हे देवाः वः युष्माकं स्वभूता वयम् अन्यकृतं अनन्तरं
अन्यैः शत्रुभिः श्रुतमुत्पादितम् एनः पापम् मा भुजेम मा सुक्ष्महि । हे वसवः वासयितारः देवा: । यत्- येन
कृतेन पावेन चयचे अस्मान् बाधध्वे | चयतिहिंसाकर्म । तच्च पापं माऽकामे | करोतेर्माङि लुङि ’ मन्त्रैर्घसि ’ इति |
च्लेर्लुक् ॥ विश्वदेवाः सर्वे देवाः | विश्वस्य सर्वस्य जगतः
यूयं हि क्षयथ- ईश्वरा भवथ | अतः कारणात् अम्म
दीय: रिपुः शत्रुः तन्वं स्वशरीरम् स्वयमेव रीरिष्ट हिंस्यात् । यथैवं भवति तथा कुरुतेति भावः ॥
आस्तां तावदेवानां माहात्म्यम् तदीयनमस्कारोऽपीत्थं महाभागः इति ब्रुवाणः कैमुतिकन्यायेन देवांस्तौति नम इत् नमस्कार एव । उग्र उद्दूर्णवलं सर्वोत्कृष्टम् तेनं हि सर्वे लभ्यते । अतः नमः नमस्कारम् आविवासे परिचरामि । नमः नमस्कार एवं पृथिवीमुत द्याम् धुलोकं च दाधार धारयति । द्यावापृथिव्यौ प्राणिभिर्नमस्क्रि ।
यमाणे सत्यौ तदुपभोगाय चिरकालमवतिष्ठेते अतः देवेभ्य: ईदृशं नमः करोमि । एषां देवानां नमः नमस्कारः
ईशे- ईष्टे यतस्तेन ते वशीकृताः । कृतं चित् कृतमयचरितमपि एनः पाप नमसा नमस्कारेण आविधासे विवासो वर्जनम् वर्जयामि विनाशयामि’ इति ॥
।
अत्र प्रथमश्रतौ देवानां स्वभूतत्वमभिधाय देवानां स्वभूतानां प्रशस्ततमेन नमसा परिचरतां पापनिवृत्तिः प्रतिपादिता ‘ यो नमसा स्वथ्वर’ इत्येतदर्थक’ न वै देवा नमस्कारमति’ इत्युक्तांर्थ: पूर्वश्रुतौ स्पष्टीकृतः ।
एवं स्थिते जीवसामान्यस्वामित्वेन श्रुति गीतादि प्रतिपन्ने वासुदेवे नमस्कारं कुर्वत एव स्वध्वरत्वे पर्यवसानं ‘यो ननसा स्त्रध्वर’ इति श्रुतिवाक्यस्य युक्तम् | देवसामान्यविषये नमस्कारकर्त्रपेक्षया देवानामपि स्वामिभूते नमस्कारकर्तुः
अतिशयेन स्वव्वरत्वं प्रत्याख्यानान स्वरसतास्स्सध्यति
तस्येदर्वन्त’ इत्युत्तरश्रुतौ देवकृतपायनिवृत्तेः प्रति
।
८
पादनेन इतरदेवेषु नमस्कारस्य देवकृतपापनिवर्तकत्वशक्तययोगेन देवस्वामिवासुदेवनमस्कारस्यैव देवकृतपापनि वर्तक त्वसामर्थ्यमिति वासुदेवमस्कारस्यैवात्र विवक्षितत्वमकामेनापि सिध्यति ॥
।
एवं ’ कुविदङ्ग नमसा ये वृधास: पुरा देवा अनवद्यास आसन् ते वायवे मनवे बाधिताया वासय
नुत्रसं सूर्येण ॥’ (म.७.अ.६.सू.९१.म.१) इति मन्त्रेऽप्ययमर्थः स्फुटः । अत्र वायुशब्दः यागे वायुदेवपर इति ।
सायणीये व्याख्यातम् । वृद्धानां देवानां वायुवे नमस्कारस्य अवद्यसामान्यनिवर्तनसामर्थ्यासम्भवेन वायुशब्दः वा य्वन्तर्यामिपरः । योगपौष्कल्येन सर्वगतपरो वा व्याख्येयः तेन परमात्मनि वासुदेवे नमस्कारः देवानामवद्यसामा न्यनिवर्तक इति श्रुत्यर्थः अबाधितो भवति । एतेनापि ‘यो नमसा स्वध्वर
"
इत्यत्र वासुदेवनमस्कारविवक्षा
सिद्धा ॥ भगवद्गीतायाम् ‘देवान् देवयजो यान्ति मद्भक्का यान्तेि मामपि ’ ( ७.२३) ‘याति देवव्रता देवान् यान्तिमद्याजिनोऽपि माम्’ (९२५) ’ आब्रह्मभुवनालोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ ’ (८.१६.) इत्यादौ वासुदेवभक्तेरतिशयितफलस्यं स्पष्टम् ॥ 6
१४
शरणागतौ नमश्शब्दः अरण्यपर्वण्युक्तः पतिपत्नीभावेन वृत्तीऋग्वेदोक्ता गूढार्थसंग्रहः
मोक्षधर्मे यज्ञाग्रहराध्याये प्रवृत्तिधर्मनिष्ठानां प्रयोजनान्तपराणामेव इतरदेवतोद्देश्यकयज्ञः निवृत्तिधर्मनिष्ठानां मुमु
क्षूणांतु वासुदेवोद्देश्यक एव यज्ञ इति स्फुटम् ॥ एवंच ‘सह यज्ञैः प्रजास्सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्व मेष वोऽस्विष्टकामधुक् ॥ (गी.३.१०) इत्येतद्भाष्ये सृष्टेर्दयामूलकत्वमभिधाय ’ एष वोऽस्त्विष्टकामधुगि ’ ति मोक्ष पर्यन्तकामानां पूरयिताभवतु ’ इति भगवता विवरणकरणेन वासुदेवोद्देश्यकन्यासाख्ययज्ञस्य श्रुत्यादिसिद्धस्य अत्र भगवतः 3
विवक्षा अकामेनापि स्वीकार्यैव ॥ ईश्वरस्सर्वभूतानाम् ’ इत्यादि ’ स्थानं प्राप्स्यसि शाश्वतम्’ इत्यन्तसन्दर्भे ईश्व 6
रस्सर्वभूतानाम्’ इत्यत्र सर्वजीवानां यत् स्वामित्वं परस्य सप्तमे उक्तं तदभिधाय शरणागतितत्फलयोरभिधाने न तत्राप्यात्मत्यागो विवक्षित इति स्फुटं प्रतीयते । उपायलाघवेऽपि भगवता दयादिगुणैर्मुक्तिदानं युक्तमिति वैकुण्ठगद्ये स्फुटम् ॥ यद्यपि नमश्शब्दः गीतायां न्यासाभिप्रायेण न प्रयुक्तः ; तथाऽपि अर्जुनेन प्रागेवैतदर्थः निश्चित इत्यभिप्रेत्य कृष्णेन नमश्शब्दः न प्रयुक्तः । काम्यकवने कृष्णनारदसमक्षं मार्कण्डेयेन यः परमानुग्रहेण स्वस्य सृष्टिप्रलयादि क्रममदर्शयत्सएवायं कृष्ण: तत्र शरणागतिं कुरुवमतिपाण्डवान्प्रति कथनानन्तरं सर्वेऽपि मशव्दनव शरणागतिमका पुरिति अरण्यपर्वणि व्यक्तम् । यस्स देवो मया दृष्ट: पुरा पद्मायतेक्षणः । स एप पुरुषव्याघ्र सम्बन्धी ते जनार्दनः ॥ १९२.५१. ॥ सर्वेषामेव लोकानां पिता माता च माधवः । गच्छध्वमेनं शरणं शरण्यं पुरुषर्षभाः |॥ ’ ५६ ॥ इति, ८
एवमुक्तास्त्रयः पार्थाः यमौ च भरतर्षभ । द्रौपद्या सहितास्सवें नमश्चक्रुर्जनार्दनम् ॥ ’ ५७ | इति च ॥ श्वेताश्वतरोप निषदितु द्वितीयेऽध्याय ‘युजे वां ब्रह्म पूर्व्यं नमोभिः’ इत्यत्र न्यासरूपा शरणागतिः विवक्षिता श्रुत्यर्थरतु औपनि 6
|
,
पदमणिहारे श्वेताश्वतरसरे, हयशिरोरत्नभूषणदीधितौ च व्यक्तः ॥
एवं ’ सनायुवो नमसा नव्यो अर्कैः वसूयवो मतयो दस्म दद्रुः | पतिं न पत्नीरुशतीरुशन्त स्वशन्ति त्वा |
शवसावन्मनीषाः ॥ , ऋ.म.१.अ.११.सू.६२.म.११. इत्यत्र सायणीयभाष्ये ‘हे दस्म दर्शनीय इन्द्र ! अर्कै:-शास्त्ररूपैर्मन्त्रैः नमसा नमस्कारेण यस्त्वं नव्यः स्तुत्यो भवसि सनायुवः सनातनमग्निहोत्रीदक नित्यं कर्म आत्मन इच्छन्तः । बसूयवः- वसु धनमात्मन इच्छन्तः धनकामा वा । मतयः मेधाविनः त्वां दद्रु:- बहुना प्र .
यासेन जग्मुः । हे शवसावन् - बलवन् इन्द्र तैः प्रयुक्ता: मनीषशः- स्तुतयः
त्वा, त्वाम् स्पृशान्त- प्राप्नुवन्ति ।
उशत्यः कामयमानाः पत्नी:- पत्नयः उशन्तं कामयमानं पतिं न यथा पतिं सम्भजन्ते
तत्र दृष्टान्तः | उशती:
सना ’ इत्येतदव्ययं नित्यत्वमाचष्टे | तेनं च तद्वान् लक्ष्यते । सना सनातनं कर्म आत्मन इच्छन्तीति सनायुवः । क्याछन्दसि ’ इति उप्रत्ययः । जसि वर्णव्यत्ययेन उत्वम् । मतयः मन ज्ञाने । मन्य तद्वत्
।
सनायुवः.
6
।
6
.
न्त इति मतयः स्तोतारः । ‘त्तियक्तौ च संज्ञायाम् ’ इति क्तिच् । ’ न क्तिचि दीर्घश्च’ इति निषेधे प्राप्ते बाहुलकात् अनुदात्तोपदेश इत्यादिना अनुनासिकलोपः’ इत्युक्तम् ॥
अत्र सनातनमात्मन इच्छन्त इति शब्दार्थ ‘नास्ति तस्मात्परतरः पुरुषाद्वै सनातनात् नित्यं हि नास्ति
जगति भूतं स्थावरजङ्गमम् । ॠत तमेकं पुरुषं वासुदेवं सनातनम् ॥ ’ (मो.३४७.३२) इति वासुदेवस्य सनातनत्यो |
त्या तस्यैव फलवेन अपेक्षावतां नमसा न्यासकरणमपि विवक्षितम् उत्तरार्धदृष्टान्तोऽपि पतिपत्नीभावरूपः आत्म 6
न्यासे अतीव सङ्गतो भवति । यथा नद्यस्स्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूप विहाय । तथा विद्वान्नामरूपा
द्विमुक्तः परापरं पुरुषमुपैति दिव्यम् ॥ ’ (मु. ३.२.८) इति श्रुतौ पूर्वार्धे पतिपत्नी भावसंबन्धो विवक्षितः । उत्तरार्धे च
पल्या: पतिसमीपगमन तदनन्तरकालीन व्यापात् मुक्तस्य भगवत्समीपगमन तदनन्तरकालिक सेवादिकं विवक्षितम् ॥ १५
[ जिज्ञासा १-१ १
एवं भारतरामायणयोरप्यत्र पतिपत्नीभावबोधनम्
गूढार्थसंग्रह:
अयमर्थः वाल्मीकिनाऽपि सूचितः । यथा किष्किन्धाकाण्डे दक्षिणदिशं प्रति वानराणां प्रेषणसमये सुग्रवक्तौ ‘ ततस्तामानगां दिव्यां प्रसन्नसलिलां शिवाम् । ततो द्रक्ष्यथ कावेरी विहितामप्सरोगणैः ॥ ४१.१५ ॥ तस्यासीनं नगस्याग्रे मलयस्य महौजसम् | द्रक्ष्यथादित्यसङ्काशमगस्त्यमृषिसत्तमम् ॥ १६ ॥ ततस्तेनाभ्यनुज्ञाताः प्रस न्नेन महात्मना । ताम्रपर्णी ग्राहजुष्टां तरिष्यथ महानदीम् | १७ ॥ सा चन्दनवनैर्दिव्यैः प्रच्छन्ना द्वीपशालिनी ।
कान्तेव युवतिः कान्तं समुद्रमवगाहते ॥ १८ ॥’ इति । अत्र ताम्रपणीनदीविषयमात्रे ‘कान्तेव युवतिः कान्तम्’
इत्युक्त्या उदाहृतश्रुतितात्पर्यसूचनेन तत्समीपस्थशठकोपमुनेः एतत्संबन्धप्रकाशन स्वानुभवपरबोधनादिकं सुस्पष्टं सरो मुनिग्रन्थेषु । एतद्दृष्टापतैः कचित् सूचितः । ( परियतिरुवन्तादि ६७. ) तत्र शटकोपमुनेरगस्त्यभाषा त्वेन प्रसिद्धद्रामिडभाषानयग्रन्थकरणमपि एतत्पूर्वमा गस्त्यविषयप्रतिपादनेन वाल्मीकिना सूचितम् |
एवं व्यासेनापि भागवंते– ‘कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम् | कलौ खलु भविष्यन्ति नारा. यणपरायणाः ॥ (११.५.३८) कचित्कीचन्महाभागाः द्रामिडेषु च भूरिश: । ताम्रपर्णी नदी यत्र कृतमाला पय ये पिवन्ति जलं तासां मनुजा मनुजेश्वर ॥ ४० ॥
।
स्विनी ॥ ६९ ॥ कावेरीच महापुण्या प्रतीची च महानदी
प्रायो भक्ता भगवति बासुदेवेऽमलाशयाः ।’ इति । अत्रापि ताम्रपर्थ्यादिनदीतीरवर्तिनां एतत्संबन्धप्रकाशनादिक ।
मपेक्षितम्
इमानि वचनानि हेमाद्विपरिशिष्टखण्डेऽप्युदाहृतानि ॥ एतदनन्तरं ‘देवर्षिभूतात्मनृणां पितॄणां न
किङ्करो नायमृणी च राजन् सर्वात्मना यश्शरणं शरण्यं नारायणं लोकगुरुं प्रपन्नः ॥ ४१ | इत्युक्तौ शरणाग तिकथनेन पतिपत्नीभावसंबन्धानुगुणा शरणागतिः पूर्वोक्त ताम्रपर्णीनद्यादितीरवासिनः एतन्निष्ठा इति च दर्शितम् ॥ ताम्र पर्णीशब्दस्य प्रथमत उपादानं तत्समीपस्थशठकोपमुनेरेव सरोमुन्यादिविरचितग्रन्थप्रकाशन करणेन प्राधान्यबोधनार्थम् । ।
7
तेन
सरोमुन्यादयोऽपि
विवक्षिताः
॥
शरणागति: पतिपत्नीभावसबन्धप्रकाशनार्थेति लक्ष्मणचरित्रेऽपि व्यक्तम् । तथा हि अरण्यप्रस्थानसमये शरणा भर्ता
गतिं कुर्वता लक्ष्मणेन प्रस्थानानन्तरं गङ्गासमीपे सुमन्त्रं प्रति अहं तावन्महाराजे पितृत्वं नोपलक्षये । भ्राता च बन्धुश्च पिता च मम राघवः ॥ इत्युक्तौ पितेत्यनेन राजकुमारनयस्सूचितः । भर्तेत्यनेन प्रपन्नस्य विवाहस्थानापन्ना C
शरणागतिरिति च सूचितम् । गङ्गातरणानन्तरं श्रीरामं प्रति ‘नच सीता त्वया होना नचाहमपि राघव । मुहूर्तमपि जीवावो जलान्मत्स्याविवोद्धृतौ | ’ इत्युक्तौ प्रपन्न: पत्नीतुल्य: कन्यादानं शरणागतिश्च एकप्रकारेति च व्यक्तम् ॥ भगवता देहवियोगकाले समपिस्थान् शिष्यान्, दु:खितान्प्रति ’ देहयात्रा कर्माधना, आत्मयात्रा भगवदधीना प्रथमयात्रार्थं शोके नास्तिक्यम् द्वितीययात्रार्थे शोके आत्मसमर्पणस्यानृतत्वम् । अतः यात्राद्वयार्थमपि भवद्भिः शोकः
न कयिः’ इत्युक्तौ आत्मसमर्पणानन्तरम् आत्मयात्रार्थं शोकः न युक्तः तत्पूर्वं तु युक्त इति सूचनेन पूर्व मोक्षो पायप्रवृत्तेः नैव विरोध इत्युक्तं भवति । आत्मसमर्पणमित्यत्र आत्मन्यासः अभिभूतो विवक्षित इति व्यासार्याशयः । एतत्सर्वमभिप्रेत्य आचार्यवर्यैः- ‘माङ्गल्यसूत्रवस्त्रादीन् संरक्षति यथा बधूः । तथा प्रपन्नश्शास्त्रीयपतिकैङ्कर्यपद्धतिम् ॥ यद्वन्माङ्गल्यसूत्रादेः त्यागे संरक्षणेऽपि वा । रक्षेन्निरोधर्मोगर्वा पतिस्तद्वदिहापि नः ॥ ’ (र.सा.च.अ.) इत्युस.म् । 6
गद्योक्तशरणागतिः न्यासरूपैवेति ’ पारमार्थिकी भगवञ्चरणारविन्दशरणागतिः’ इत्यत्र गद्यव्याख्याने
कूल्यादिशरीरवती । तद्धेि तस्या उपायान्तरेभ्यो व्यावृत्तं स्वरूपम् इति व्यासायैरुक्तम् । श्रुतप्रकाशिकायाम, उपा.
अ. संहितावचनोपादानपूर्वकं तदर्थनिर्णयोपक्रमः
४छ
गूढार्थसंग्रहः
सनभिन्नन्यासरूपाङ्गिन एव बहुत्र कथनेन उदाहरिष्यमाणे शुकपक्षीये आत्मनिक्षेपस्य अभितायाः प्रपत्ते: आनुकू ल्यादिपञ्चाङ्गकत्वस्य स्फुटं प्रतिपादनेन च अङ्गाङ्ग्रेिसमुच्चयाभिप्रायेण ‘आनुकूल्यादि शरीरवती’ इत्युक्तम् ॥
अहिर्बुध्न्यसंहितायां च– ‘बाह्येन चान्तरेणापि योगाख्येन महामुने । न्यासेन वा सुखी सोऽत्र परत्र च न सं
।
शयः ॥ बाह्य आभ्यन्तरश्चापि मम योगः प्रकीर्तितः
न्यासाख्यं साधनं प्रोक्तं तन्मे ब्रूहि महेश्वर ॥ (३७–२१,२२.)
।
एतन्महोपनिषदं देवानां गुह्यमुत्तमम् । अभीष्टार्थप्रदं सद्य: सर्वपापप्रणाशनम् ॥ २३ ॥ अवाच्यमेतत्सर्वस्मै नाभ क्ताय कदाचन भक्तोऽसि मे स्थिरश्चेति वक्ष्यामि हितकाम्यया ॥ २४ ॥ यद्येन कामकामेन नसाध्यं साधन
न्तैरैः । मुमुक्षुणा यत् साङ्ख्थेन योगेन न च भक्तित: ॥ २५ ॥ प्राप्यते परमं धाम यतो नावर्तते पुनः । तेन तेना
।
।
प्यते तत्तत् न्यासेनैव महामुने ॥ २६ ॥ परमात्मा च तेनैव साध्यते पुरुषोत्तमः षोढा हि वेदविदुषो वदन्त्येनं महामुने ॥ २७ ॥ आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम् । रक्षिष्यतीति विश्वासो गोष्तृत्ववरणं तथा ॥ २८ ॥ आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः उपाये गृहराक्षत्रोश्शब्दः शरणमित्ययम् ॥ २९ ॥ वर्तते सांप्रतत्वेष उपा यार्थैकवाचकः। अहमस्मयपराधानामालयोऽकिञ्चनोऽगतिः ॥ ३० ॥ त्वमेवोपायभूतो मे भवेति प्रार्थनामतिः । शर णागतिरित्युक्ता सा देवेस्मिन् प्रयुज्यताम् ॥ ३१ ॥ भगवन् सर्वविजयिन् सहस्रारापराजित । शरणं त्वां प्रपन्नोऽस्मि
श्रीकर श्रीसुदर्शनम्॥ ३२॥ अनेनैव प्रपन्नस्य भगवन्तं सुदर्शनम् | तस्यानुबन्धाः पाप्मानस्सर्वे नश्यन्त्यसंशयम् ॥ ।
कृतान्यनेन सर्वाणि तपांसि तपतां वर
सर्वे तीर्थास्सर्वयज्ञाः सर्वदानानि च क्षणात् ॥ ३४ ॥ कृतान्यनेन मोक्षश्च
तस्य हस्ते न संशयः । कथं तपांसि यज्ञाश्च तीर्थदानानि सर्वशः
॥ ३५ ॥ तस्यैव न्यासमात्रेण
सिद्धयन्ते तद्वद
प्रभो । यानि निःश्रेयसार्थानि चोदितानि तपांसि वै ॥ ३६ ॥ तेषां तु तपसां न्यासमतिरिक्तं तपश्श्रुतम् । समित्साघ '
नकादीनां यज्ञानां न्यासमात्मनः ॥ नमसा योऽकरोद्देवे स स्वध्वर उदीरितः
इति वचनक्रमः
। अत्र बाह्याभ्यन्त
।
रयोगः प्राक् (३१, ३२ अध्याये ) कथितः । तेन साकं विकल्पेन न्यासस्य मुक्तितदितरफलकत्वमुक्तम् । " यद्येन कामकामेन ’ इति श्लोके मुमुक्षुणा अनुष्ठेयत्वं न्यासस्य स्पष्टम् भक्त्याद्यसाध्यफलहेतुत्वं च | सर्वपापप्रणाशनम् '
‘ तस्यानुबन्ध:पाप्मानस्सर्वं नश्यन्त्यसंशयम्’ इति वाक्यद्वये पापसामान्यनाशकत्वप्रतिपादनेन न्यासशरणागत्योरभेद:सिद्धः
अत्र वचनेषु उपक्रमोक्तन्यासस्य उपसंहारे कृष्णयजुर्वेदे तैत्तिरीये, ऋग्वेदे च विवक्षितत्वकथनेन वेदतात्पर्यविषयत्वं प्रकाशितम् । अत्र न्यासोपासनयोर्विकल्पकथनेन एतद्वचनतात्पर्येणैव ‘न्यासोपासनात्मकाशेषविद्याविशेष
निष्ठाः ’ इति व्यासार्यैरुक्तम् । एतेन एतव्यतिरिक्तब्रह्मविद्या नैव वर्तते इत्युक्तं भवति ॥ अनन्तरं च मध्ये मुमुक्षुर्वै ८
शरणमहं प्रपद्ये’ इति श्रुत्यर्थः विशदीकृतः । तेन गीतायां सङ्ग्रहेणोक्तार्थोऽपि प्रकटीकृतो भवति ॥
अत्र ‘ षड्विधा शरणागतिः’ इत्युक्तिः अङ्गाङ्गिसमुच्चयाभिप्राया । द्विपञ्चाशे- ‘बाचा नम इति प्रोच्य वपुषा मनसा च यत् । तन्नमः पूर्णमुद्दिष्टं अतोऽन्यन्नधूनमुच्यते ॥ इयं करणपूर्तिरस्यात् अङ्गपूर्तिमिमां शृणु ’ इति वक्ष्यते । अत्र नमश्शब्देन ऋग्वेदश्रुतौ विवक्षितः आत्मन्यास एव प्रागुक्तः अभिप्रेत: । अङ्गपूर्तिमित्यत्र अङ्गशब्दनिर्देशेन कर णपूर्तिरित्यत्र अङ्गिभूतकरणमेव विवक्षितम् ॥ अत्र ‘न्यासेन वा सुखी न्यासाख्यं साधनम्’ इत्यत्र न्यासस्य (
।
करणत्वस्य स्पष्टमुक्तेः
एतच्च करणत्वं व्यापारवत्कारणरूपम् । शरणशब्दानुसारात् वाङ्मनः कायव्यापारत्रयेण व्यासस्य
करणतासंपादनमेव पूर्ति: । अनन्तरामघाय ‘पूर्णमा नमनं ते प्रकीर्तितम्’ इत्येतदर्थ: उपसं १७. '
3
न्यांस एंव प्रश्न:प्रतिवचनं च प्रार्थना मतिरित्यत्र मतिशब्देन न्यासस्यैव शरणागतित्वम् [ जिज्ञासा १.१.१
ज ४
गूढार्थसङ्ग्रहः
।
हृतः । अत्र उपाङ्गकथनेन अङ्गानामङ्गत्वं सम्यक्प्रकाशितं भवति अतः उपाङ्गकथनमात्रेण प्रागुक्तानुकूल्यसङ्कल्पादी नामङ्गत्वं नैव निवर्तते । अतः न्यासस्यैवाङ्गित्वं तत्र विवक्षितम् ॥
तत्र प्रश्नस्वैवाभावात् उपक्रमोपसंहारानुरोधेन मध्यग्रन्थस्य |
|
अत्र न्यासमिन्नशरणागतिः मध्ये नैवाभिप्रेता
नेयत्वात् । ‘ षोढा हि बेदविदुषो बदन्त्यनं महामुने’ इत्युपक्रम्य ’ पड्विधा शरणागति: ’ इत्युक्तौ एतच्छन्दन पूर्व प्रस्तुतन्यासस्यैव शरणागतिवभिधानात् ॥ वताश्वतरोपनिषदि द्वितीयाध्याये- ‘युजे वां ब्रह्म पूर्व्ये नमोभिः
3
इत्यनन्तरम् अष्टाङ्गयोगो निरूपितः । तत्र योगाङ्गभूतबहुमपत्तितात्पर्येण ‘नमोभि: ’ इत्युक्तम् । तत्र नमश्शब्दार्थ एव ’ मुमुक्षु वैं शरणमहं प्रपद्ये’ इत्यत्र पठे वक्ष्यते । तदनुसारेण अहिर्बुध्न्यसंहितायामपि इत्थमुक्तम् । गीतायाम् अन्ते शरणागतेरभिधानेन न्यासमिन्नशरणागतिर्विवक्षितेति भ्रमवारणाय उपक्रमोपसंहारयोन्यसमभि ।
घाय, मध्ये न्यासस्यैत्र शरणागतित्वप्रदर्शनम् । न्यासस्य उपायत्वं पूर्व प्रदर्शितम् शरणागतौ तु भगवतएवोपायत्वं प्रति पाद्यते अत: उभयत्र विरोध इति न म्नमितव्यम् तथा सति ‘पविधा शरणागति : ’ इत्यनन्तरं शरणागतिशब्द
घटकशरणशब्दार्थनिरूपणपरे ‘सांप्रत त्वेष उपायार्थैकवाचकः’ इत्यत्र उपायवाचक इत्यनेनैव निर्वाहे अर्थशब्दो व्यर्थस्स्यात् । अर्थशब्द: पुरुषार्थपर: । ‘यद्येन कामकामेन ’ इत्युपक्रमे न्यांस फलभेदेन धर्मभेदो नास्तीत्यभि घानेन
अत्र फलभिन्नोपायः
कर्मयोग ज्ञानयोग भक्तियोगरूपः पूर्वप्रस्तुतः | मोक्षार्थशरणागतौ तु फलाभिन्नोपायः ।
त्वमेवोपायभूतो मे भव’ इत्यत्रापि प्राप्याभिन्नो भवेत्यर्थः । युष्मच्छन्देन प्राप्यतयैव अर्थस्योपस्थितिः ‘यद्येन कामकामेन ’ इति सन्दर्भे परमात्मनः प्राप्यत्वस्यैव बुद्धिस्थत्वात् । अहमस्म्यपराधान।मालयोऽकिञ्चनोऽगतिः’ इति 6
6
पूर्वार्धे अगतिरित्यस्य प्राप्यान्तर इत्येवार्थ: । अगतिरित्यनेन भगवद्व्यतिरिक्त प्राप्य शून्यत्वोक्त्या भगवत: प्रागुक्तं प्राप्यत्वं बुद्धौ सन्निधापितम् । प्राप्यस्यैव त्वमेवेत्यत्र युप्मच्छदार्थतया प्राप्याभिन्नोपायव्यतिरिक्तोपायस्य पूर्वप्रस्तुतस्य ।
कर्मयोगादेरेव एवकारेण निषेधः
॥
यद्वा अर्थशब्दः इच्छाविषयपरः । पूर्व न्यासस्य परिणागतिरूपत्वमभिधाय पूर्वोक्तशरणशब्द घटकल्युड
स्यात्रार्मिधानेन न्यासरूपैव शरणागति: ‘शरणागतिरित्युक्ता’ इत्यत्राभिप्रेतेति बोधनार्थमेव । संहितायामुपसंहारे 6
नमसा योऽकरोद्देवे’ इत्यत्र विवक्षित ’ सनायुचः’ इत्यादि ऋग्वेदश्रुत्यर्थमभिप्रेत्य अत्रार्थशब्दः । ( सनायुवः
उदाहृतश्रुतौ
सनातनं नित्यं
१ इति
कामयमान इत्यर्थेन तदर्थ एव ’ उपायार्थ’ इत्यत्रार्थशब्देन विवक्षितः । तेन नमः ।
करणकशरणागतिरेव अत्र विवक्षितेति सूचितम्
एतेन न्यासस्य करणत्वमत्रापि विवक्षितमिति सिद्धयति ॥
‘ प्रार्थनामीतः’ इत्यत्र मतिशब्दस्य किम् प्रयोजनमिति विवेचनीयम् । ‘आत्मात्मीयभरं सर्वे निक्षिप्य श्रीपतेः पदे | उपायं वृणु लक्ष्मीशम्’ इति अत्रिसंहिताऽपर नामकलक्ष्मीतन्त्रवचने निक्षेपरक्षोदाहृते निक्षेपानन्तरमेव उपाय
वरणस्योक्त्या उपायवरणस्य प्राधान्यव्युदासायात्र मतिशब्दः । मतिशब्दे उपक्रमोपसंहारोक्तन्यासात्मकमतिरेव विव क्षिता । शरणं ब्रज, न्यसेत्, इति चोदनावैलक्षण्यादिना न्यास शरणागत्योः भेदशङ्का एतेन निरस्ता भवति ॥
प्रार्थनायुता मतिः प्रार्थनामतिः। अयमर्थः प्रश्नानुरोधेन शरणागतेरप्रश्नन उपक्रमोपसंहारानुगुण्येनैव मध्ये अर्थविवक्षायाः अङ्गीकार्यत्वेन मध्यस्थैरङ्गीकार्यः। एवमर्थाङ्गीकार एवशरणागतिरित्यत्र गतिशब्दार्थनिर्णयस्सम्भवति नत्वन्यथा ’ आत्मात्मी यभरं सर्वम् ’ (ऌ.तं) इत्यादिकं न शरणागतिशब्दार्थनिरूपणार्थी प्रवृत्तम् । येन उपायवरणस्यैव तच्छब्दार्थत्वं स्यात् ।
’ निक्षिप्य’ इत्यत्र समानकर्तृकत्वमेव विवक्षितम् । अन्यथा शरणागतिशब्दार्थविरोधात् । भरं सबै निक्षिप्योपाय १८
गूढार्थसंग्रहः
वृणु इति क्रमेणोक्तिः उपायत्वं भरस्वीकर्तृत्वमिति बोधनार्था, नतु निक्षेपवरणयोः ऋमिकत्वबोधनार्था इति तद्वचनस्य
अहिर्बुध्न्यसंहितावचनस्य च न विरोधः । एतत्तात्पर्येणैव ‘अभीष्टे दुस्साधे खत इतरतो वा वचन तद्भर न्यासं याच्याऽन्वितमभिवदन्ति प्रपदनम् । इतःपञ्चादस्मद्यतननिरपेक्षेण भवता समर्थ्योऽसावर्थस्त्विति
मतिविशेषं तमविदुः ’ इति र. सा. साङ्गप्रपदनाधिकारे ‘याच्ञाऽन्वितम्’ ‘मतिविशेषम् ’ इति पदद्वयेन ‘त्वमे
वोपायभूतो मे भव’ इति श्लोकार्थम् आचार्यपादाः स्फुटमकार्षुः ॥
अत्र उपायशब्दस्य शरणशब्द समानार्थकत्वं सर्वैरप्यङ्गीकरणीयम् । शरणशब्दश्च ’ हिंसायाम्’ इति धातो: करणे ल्युटि व्युत्पन्नः । ‘मुमुक्षुर्वै शरणम् अमृतस्य परं सेतुं दग्धेन्धनमिवानलम्’ इति श्वेताश्वतरतावेतदर्थस्य '
6
प्रतीते: । गीतायाम् ’ अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि ‘ अनैनैव प्रपन्नस्य भगवन्तं सुदर्शनम् । तस्यानुबन्धाः पाप्मानः सर्वे नश्यन्त्यसंशयम् ॥ ’ इति, अहिर्बुध्न्यसंहितायां च पापसामान्यानेवृत्तेरभिधानेन शरणत्वं पापसामान्यानवर्तकत्वं तदपि
फलाव्यवहितप्राक्क्षणवृत्तित्वरूपस्य करणत्वस्य शरणशब्दे विवक्षितत्वेन तदेवात्रोपायत्वम् । श्रुतौ ’ अमृतस्य परं
सेतुम् ’ इत्यत्र परशब्देन एतादृशमेवोपायत्वं शरणशब्दे विवक्षितमिति निर्धारितम् ॥ एतेन प्रत्तेः भगवत्प्रसादद्वारा भक्त्यपेक्षया फलव्यवहितोपायत्वेन उपक्रमोक्तन्यासोपायत्वस्य व्यापारवत्कारणत्वस्य न
विरोधः । एतेन न्यासशरणागत्योः न भेदसिद्धिः। ’ यद्येन कामकामेन न साध्यं साधनान्तरैः । मुमुक्षुणा ’ इत्युपक्रमे इतरासा 6
ध्यफलहेतुत्वस्य न्यासे प्रतिपादनात् । सर्वपापनिवृत्तिरूपफलस्यापि ततएव सम्भवात् । अवताररहस्यज्ञानवतां भक्तानां
तद्देहावसाने मुक्तेः भगवद्गीतासिद्धत्वेऽपि आर्तानां प्रारब्धनि वर्तकत्वस्य तत्प्रपत्तिसिद्धस्य भक्तिसाध्यत्बासम्भवात् ।
. एवं निराबाधकैमर्यादेरपि ततस्सिद्धिः न संभवति ॥ एतेन ’ इयं केवललक्ष्मीशोपायत्वप्रत्ययात्मिका | स्वहेतुत्वधियं रुन्धे किंपुनस्सहकारिताम् ॥ ’ इति
न्यायसिद्धाञ्जनोक्तौ प्रपत्तेरनु गयत्वमाचार्याणामप्यभिमतमित्युक्ति: तद्ग्रन्थ पूर्वोत्तरवाक्यानां ग्रत्थान्तरे आचार्यवाक्यानां चापर्यालोचनेन तात्पर्यज्ञान मूलिकेति सिद्धयति । तत्रापि हेतुत्वस्य उक्तशरणशब्दार्थोपायत्वरूपस्यैव विवक्षि तत्वात् । भक्तानां चरमदॆहरियोगकाल एव उपायनिष्पत्या प्रसादमात्रव्यवधान राहत कर्मसामान्यक्षयाव्यवहितपूर्ववृत्तित्वं वर्तते । प्रपन्नानां तु प्रपत्यनन्तरं चेतनव्यापारस्योपायभूतस्य विरहेण देहवियोगकालिक कर्मक्षयाव्यवहितपूर्ववृत्तित्वं प्रसा दमात्रव्यवधानरहितं नास्त्येव । एतादृशोपायत्वधियं रुन्धे । लक्ष्मीशस्यैव तादृशहेतुत्वात् । एतत्पूर्वम् ’ अथ को
मोक्षहेतुः ? ’ इत्युपक्रम्य भक्तेर्मोक्षहेतुत्वमुपपाद्य, ‘अध्यवसायविशेषात्मिका न्यासविद्या’ इति न्यासविद्यां प्रस्तुत्य
’ उपायस्सुकरस्सोऽयम्’ इति तस्योपायत्वे प्रमाणमपि प्रदर्श्य ‘न्यासविद्यातु प्रारब्धं निश्शेषं निवर्तयितुं शक्ता तथाऽपि रागविषयमंशं तदनुबन्धि दुःखं च स्थापयति । निश्शेषवैराग्ये तु निश्शेषं निवर्तयति । अत एव आर्तदृत
भेइः | रागविषयश्चांशः दृप्ते नैतावदिति परिच्छेत्तुं शक्यः ; विचित्रत्वात्पुंसामभिप्रायपद्धतेः । अस्यां च विद्यते इत्येतदनन्तरम् ’ इयं केत्रललनीश’ इत्यादिकमुपन्यस्तम् | अनन्तरंच ‘प्रारब्धकर्मावधिको मोक्ष इत्थमुपासितुः ।
हतस्य देहावधिको आर्तस्यार्त्यवधिर्मतः दृप्तस्य ॥॥ ॐ इत्युक्तम् ॥ अत्र एतस्मात् श्लोकात्पूर्वमनन्तरं च भक्तयपेक्षया न्यास विशेष: प्रदर्शितः । सच ’ साधनं भगवत्प्राप्तौ ’ इत्यादा वप्यामार्हतः । मोक्षश्च अनधिकरणश्रीभाष्योक्तः निश्शेषाविद्यानिवृत्तिघटितः । भगवदनुभवश्च प्रतिबन्धविगमानन्तरं ,
भविष्यति । इत्थं च निश्शेषाविद्यानिवृत्तिकरणत्वमेव शरणत्वम् तदेवात्रोपायत्वम् । एतच्च भक्तापेक्षया शरणागतस्य १९
गद्यत्रयवाक्यैः सर्वधर्मान्परित्यज्येत्यनुवादः स एवाकिञ्चन्यं प्रपत्तावधिकार इति साधनम् [ जिज्ञासा १-१-१
४ ञ
गूढार्थसंग्रहः
विशेषप्रदर्शनपरपूर्वोत्तरग्रन्थसन्दर्भे आप्रयाणादनुवर्तमान भक्त्यपेक्षया शरणागते: विशेषप्रदर्शनेन लक्ष्मीशमात्रनिष्ठ नतु शरणागताविति आचार्यपादैः स्पष्टीकृतम् । अत्र न्यासविद्यां प्रस्तुत्य ’ इयं केवल - ’ इति श्लोकस्य कथनेन इतरबहु ग्रन्थेषु न्यासभिन्नशरणागतेः अप्रामाणिकत्वस्य आचार्यपादरेव व्यवस्थापनेन अत्रैव पूर्वम् ’ उपायस्मुकरस्सोऽयम्’ इति न्यासस्योपायत्वप्रदर्शनेन च लक्ष्मीशोपायत्ववैलक्षण्यं न्यासाख्यशरणागतौ आचार्यपादैरेव व्यवस्थापितम् ॥
अहमस्मथपराधानाम्—’ इत्यहिर्बुध्नयसंहिताश्लोके ‘अकिञ्चनः’ इत्यत्र ‘यद्येन कामकामेन ’ इति प्रागुक्तकर्म
योगज्ञानयोगभक्तियोगज्ञानशून्यत्वमेव विवक्षितम् । अन्यविक्षाया अत्रासम्भवात् । गद्य ’ एवंभूतमत्कैङ्कर्यप्राप्त्यु पायतयाऽवक्लृप्तसमस्तवस्तुविनिोऽपि ’ इत्येतद्व्याख्याने व्यासायें: ‘वक्ष्यमाणचरमश्लोकप्रथमपादार्थमाह-एवंभूतेति । अवक्लप्तम् - विहितम् । समस्तवस्तुशब्देन कर्मज्ञानभक्तियोगाः तदनुगुणा अमानित्वादिगुणाञ्च विवक्षिताः । विहीन इति त्यागोऽनूदित इति भाव: ’ इत्यर्थ उक्तः । एतनात्र त्यागविधिपक्षः असंमत इति स्फुटम् ॥
एवम् एतदेवाकिञ्चन्यं शरणागतावधिकार इत्यपि सूचितम् । गीताविस्तरत्वात्पञ्चरात्रस्य ‘अहमस्म्यपराधाना
मुमुक्षुणा यत्साङ्ख्येन योगेन न च भक्तित: १ (३७-२५) इति प्रागुक्तभक्तिशून्यत्वकथनेन न्यासाभिन्नशरणागतौ स एवाधिकार इति बोधनेन ’ सर्वधर्मान्परित्यज्य इत्यनुवादन उत्ता मालयोऽकिञ्चनोऽगति: १’
इत्यत्र
अकिञ्चनशब्देन
८
धिकार एव विवक्षित इति संहितावचनेन निर्धारितं भवति । एतत्संहितावचनमेव शरणशब्दार्थे प्रमाणतयाऽभ्युपग च्छेद्भिः एतद्वचनबलेन ’ सर्वधर्मान्परित्यज्य ’ इत्यस्यानुवादत्वं नैव प्रत्याख्यातुं शक्यम् । अकिञ्चनोऽनन्यगतिः "
(
इति यामुनमुनिसूक्तिरेतदभिप्रायैव ॥
इत्थमर्थः नित (श्रीरङ्ग) गद्यादिनाऽपि भगवतोऽभिमत इति प्रतीयते । ‘नित्यकैङ्कर्यप्राप्त्युपायभक्ति दु पायसम्यग्ज्ञान तदुपायसमीचीनक्रिया तदनुगुणसात्विकताऽऽस्तिक्यादिसमस्तात्मगुणविहीनः दुरुत्तरानन्त
ताद्वेपर्ययज्ञानाक्रयाऽनुगुणानादिवासनामहार्णवान्तर्निमग्नः तिलतैलवत् दास्वह्निवत् दुर्बिबेचत्रिगुणक्षणक्षरण सञ्चितानन्ताशक्यविस्रंसनक स्वभावाचेतनप्रकृतिव्याप्तिरूपदुरत्ययभगवन्मायातिरोहितस्वप्रकाशः अनाद्यविद्या र्मपाशप्रग्रार्थतः अनागतानन्तकालसमक्षयाऽव्यदृष्टसन्तारोपायः निखिलजन्तुजातशरण्य ! श्रीमन्नारायण ! तव क्तिः चरणारविन्दयुगलं शरणमहं प्रपद्ये ’ इति मितद्यसूक्तिः अत्र ‘समस्तात्मगुणविहीनः ’ ’ अदृष्टसन्तारोपाय: ’ इति सू
‘ अकिञ्चनः ’ ‘ सर्वधर्मान् परित्यज्य ’ इत्यस्य च विवरणमिति स्फुटम् ॥ ’ दुरुत्तरानन्त-’ इत्यादि ’ अहमस्म्यपराधाना मालयः इत्यस्य विवरणम् । अत्र एतत्पूर्वमेव ‘अशेषशेषतकरीतरूपनित्यकिङ्करो भवानि ’ इत्यनन्तरं पूर्वोदाहृत गद्यश्रीसूक्तिः ॥ ‘ एवं ‘दैवी ह्येषा गुणमयी’ इति श्लोके मायातरणस्य फलत्वकथनेन तत्फलसाधनतया श्वेताश्वत ८
८
·
।
• रादौ प्रतिपादितध्यानयोगविरहश्च विवक्षितः सन्तार इत्यत्र समित्यनेन स्वेच्छाविषयकालिकत्वं विवक्षितम् । तत्साध एवं वैकुण्ठगद्येऽपि ‘ऐकान्तिकात्यन्ति कतत्पादांबुजद्वय परिचर्यैकमनोरथः तत्प्राप्तये च
तत्पादांबुजद्वयप्रपत्ते
'
नत्वं तु भक्तेः नैव सम्भवति ॥
रन्यन्नमे कल्पकोटिसहस्रेणापि साधनमस्तीति मन्वानः तस्यैव भगवतो नारायणस्य अखिलसत्वढ्यैकसागरस्य
अनालोचितगुणागुणाखण्डजनानुकूलमर्यादाशीलवतः स्वाभाविकानवधिकातिशयगुणवत्तया देवतिर्यङ्मनुष्याद्य
खिलजनहृदयानन्दनस्य आश्रितवात्सल्यैकजलधेः भक्तजनसंश्लेपैकभोगस्य नित्यज्ञानक्रियैश्वर्यादिभोगसामग्री समृद्धस्य महाविभूतेः श्रीमतचरणारविन्दयुगलं अनन्यात्मसंजीवनेन तद्रत सर्वभाषेन शरणमनुब्रजेत्’ इत्युक्तम् । २०
४ दे
अकिंचनस्य शरणत्वं गुरुतरोपायस्थानापन्नत्वमुपायत्वं ‘अमृ-सेतुम्’ इति श्रुतेः गुढार्थसङ्ग्रहः
।
अत्र गद्यद्वये कैङ्कर्यापेक्षया शरणागति: स्फुटा
एतेन ’ नित्यकैङ्कर्यप्राप्त्यपेक्षया पारमार्थिकी भगवच्चरणारविन्द
।
शरणागति: ’ इति श. गद्यसूक्तः गद्यद्वयसूक्तेश्चैकार्थ्य स्फुटम् शरणागतिगचे ‘अनन्यशरण: ’ इति अधिकारः सङ्ग्र हेण निरूपितः । ‘अकिञ्चनोऽनन्यगतिः’ इति यामुनसूक्तौ योऽर्थ उक्तः स एवं अनन्यशरणः इत्यत्र विवक्षितः । ८
"
वै.गद्ये स्वतन्त्रप्रपत्तेरभिधानेन वेदार्थसंग्रहसूक्तिविवरणे व्यासार्योक्तार्थ: नात्र विवक्षित: । किंतु ’ प्रपत्तैरन्यन्नमे क ल्पकोर्टिसहस्रेणापि साधनमस्ति ’ इत्यत्र ’ भत्त्यादिकमेव साधनमभिप्रेतम्’ इति शरणातिगद्य सङ्ग्रहेण मितगद्ये विस्त
रेण कैङ्कर्मप्राप्युपायभत्तयादिशून्यत्वं यदुक्तं तदेवात्र विवक्षितम् ॥ वेदार्थसंग्रहे भक्तरेव प्राधान्येनोपक्रमोपसंहारयोः उक्त्या अङ्गप्रपत्तिरपि तत्र विवक्षितेति व्यासायें: तथा विवृतम् । तेन अङ्गप्रपत्त्यनुष्ठातु: तदुत्तरभक्तियोगपूर्त्यनन्तरमेव मुक्तिः । स्वतन्त्रप्रपत्तिनिष्ठस्य तु न तथेति विशेषः स्फुट प्रतीयते 6
॥
अहमस्मयपराधानामालयः’ इति श्लोके अङ्गप्रपत्तिनिष्ठापेक्षित प्रपत्त्यनन्तरभक्तिरूपगुरुतरोपायस्थानापन्नत्वम् तदपे ‘
क्षामन्तरैव रक्षकत्वरूपं भरस्वीकर्तृत्वं विवक्षितमिति एतत्सूक्त्या सूचितम् । अयमर्थ: अ. संहितायामपि विदुषां व्यक्तः । अकि
ञ्चन’ इत्यत्र भक्तियोगशून्यत्वस्य विवक्षितत्वेन भक्तियोगसाध्यफलापेक्षावतः एवाधिकारित्वस्य पूर्वमेवोपपादनन भक्ति योगसाध्यफलापेक्षावतः तदुपायशून्यस्य भगवत्युपायत्वप्रतिपादने भक्तियोगमनपेक्ष्य रक्षकत्वं वाक्यव्युत्पत्तिमतां विदुषां व्यक्तं प्रतीयते ॥ यथा अनेकवत्सरेषु सेवां कुर्वतां फलमपेक्ष्य परमकारुणिकस्य समर्थस्य महापुरुषस्य समीपं गत्वा
‘नाहं विलंचं सहे तावत्कालं सेवां कर्तुमहमशक्तः अथापि शक्तस्य यत्फलं तदिच्छामि त्वमेवोपायो भव इति वाक्य
प्रयोगे हुकालसेवामनपेक्ष्य अल्पकालिकसेवाया एव तत्फलं परमकारुणिको राजा ददाति । तत्सेवयैवायमपि सेवकः फलं संपादयतीति लोकसिद्धमेतत् । एवंच प्रमाणानुरोधेन गुरुतरोपायस्थानापन्नत्वं गुरुतरोपायनिरपेक्षरक्षक वरूपं सिद्धम अत्र वैकुण्ठगद्ये ‘साधनम्’ इत्यत्र साधनशब्दः शरणशब्दार्थभूतोपायपर इति सर्वैरप्यङ्गीकरणीयम् । अन 6
न्यशरण: ’ इति शरणागतिगद्यसूत्तयर्थस्यैव अत्र विस्तरेणामिघानात् । शरणशब्दे ल्युडर्थ: ‘सांप्रतं त्वेष उपायार्थैक वाचकः’ इति वचनसिद्ध एव । अत्रच वचने अर्थशब्द: याच्याविषयार्थकः । फलस्य याच्याविषय-देन तस्य च ‘य न कामकामेन ’ इति पूर्वमभिधानेन तत्रत्यन्यासस्यैव ’ षड्विधा शरणागति : ’ इति कथनानन्तरं पूर्वोक्तशरणशब्द घटकल्युडर्थस्यैवात्राभिधानन पूर्वोत्तपलविषयिणी याच्जेति स्फुटं प्रतीयते । तच्च फलं प्रागुक्तोपायासाध्यमेव । तच्च स्वापेक्षितकाले सर्वपापनिवृत्तिरूपं प्रपत्तिव्यतिरिक्तगुरुतरोपायमन्तरैव गुरुतरोपायलभ्यं प्रपत्युत्तरचेतनव्यापारानपेक्षया भगवद्देयत्वेनेच्छाविषयीभूतं फलम् । तेनैतादृशफलदत्वेन इच्छाविषयाभिन्नः उपायो यः तद्वाचकश्शरणशब्दइति पर्य वसितम् ॥ एतेन स्वोत्तरभाविचेतन व्यापारमनपेक्ष्य रक्षकत्वरूपं यत् भरस्वीकर्तृत्वं गुरुतरोपायफलदातृत्वं उपायत्वमेव शर णशब्दे ल्युडर्थ इति निश्चीयते । अमृतस्य परं सेतुम्’ इति श्रुतौ सहजकारुण्यस्य विशेषत: उपयोगेन भगवति पर त्वं प्रकाशित मिति एतादृशमेवोपयत्वं तत्रापि विवक्षितमित्यभिप्रेत्य संहितायामित्थमुक्तिः ॥
6
एवं ल्युडर्थमभिधाय अनन्तरेमव ’ त्वमेवोपायभूतो मे ’ इति वचनं संहितायां प्रवृत्तम् । तेन च तत्र पूर्वश्लोके
भरस्वीकर्तृत्वरूपप्रार्थनैव विवक्षिनिर्णयसम्मति । एतत्सर्वमभिप्रेत्यैव वैकुण्ठगद्यसूक्तिः । एतदर्थमभिप्रेत्यैव ‘ स्वतन्त्रन्यासानेष्ठानां सिद्धेोपाये विभौ स्थितिः । क्षणात् स्वयत्नविरतिव्यक्त्यै प्रोक्ता विशेषतः । ’ (र.सा.
च,अ.) इत्याचार्यपादैरुक्तम् ॥ एन- दुर्विज्ञानैर्नियमगहनैः दूरविश्रान्तिदेशैः बालानर्बहुभिरयनैः शोचतां २१
प्रपत्तौ सहजकारुण्यादिना विशेष: (असं) पन्था नमननामवान् इत्यस्यार्थद्वयम्
[ जिज्ञासा १-१-१
गूढार्थसंग्रहः
नस्सुपन्थाः । निष्प्रत्यूहं निजपदमसौ नेतुकामस्स्वभूम्ना सत्पाथेयं किमपि विदधे सारथिस्सर्वनेता ॥ र.सा. "
इत्यत्र सौष्ठवं क्षणात् स्वयम्नविरतिरेवेति सिद्धयति । सुदुष्करेण शोचेद्यो येन येनेष्टहेतुना | सस तस्याहमेवेति चरम श्लोकसंग्रहः ॥ ’ इत्यत्र भगवति गुरुतरोपायाभेदोक्त्या भरस्वीकर्तृत्य विवक्षितमिति सिद्धम् ॥ सौलभ्योपयोगिगुणानामेव प्रपत्तै। विशेषेणोपयोग
इति ’ अनालोचितगुणागुणाखण्डजनानुकुलमर्यादाशीलवतः ’ इति सौशल्यमुक्तम् ।
एतच्च
कृष्णावतारे विशेषेण प्रकाशित भगवता | मर्यादाशीलवत्त्वमेव ‘देवतिर्यङ्मनुष्य – आनन्दनस्य’ इत्यादिना विवृतम्।
वात्सल्यमपि सौलभ्योपयुक्तम् । ‘ये भजन्ति तु ’ इत्यत्र भक्तजनकभोगत्वमपि व्यक्तम् । एतेन सहजकारुण्यमेव प्रातः फलदाने मूलम् | तस्यैव अन्ये गुणाः पोपका इति दर्शितं भवति ॥ भक्तावेतेषां गुणानामुपयोगांपेक्षया शरणागते स्त्रैवर्णिकेतरेष्वनि आरम्भसम्भवेन जात्यादि विभागराहित्येन क्षणात् स्वयत्नविरत्या चेतनेच्छाकाले कर्मक्षयफलदानेन इच्छा त्रिनिराधकैङ्कर्यदानेन आचार्येणानुष्ठितप्रपच्या सर्वेषां प्रपत्तिरूपव्यापारमन्तराऽपि फलदानेन च भगवत: सहजकारु ण्यस्य अन्यगुणानां च विशेषतः उपयोगोऽवसेयः ॥ एतदभिप्रायणैव संहितायां ’ न साध्यं साधनान्तरै: ’ इत्युक्तिः ॥
एतत्तात्पर्येणैव- ‘ पन्था नकार उद्दिष्ट : मः प्रधान उदीर्यते । विसर्गः परमेशस्तु तत्रार्थोऽयं निरुच्यते ॥ अना• ।
दिः परमेशो यः शक्तिमान् पुरुषोत्तमः | तत्प्राप्तये प्रधानोऽयं पन्था नमननामवान् ॥ (अ.स. ५२. ३२) ’ इति नमन
श्शब्दस्य परार्थ उक्तः । अत्र प्राधान्यं ‘दैवं चैवात्र पञ्चमम्’ (१८ - १४) इति गीताभाष्ये पञ्चमम्:- परमात्मा 6
अन्तर्यामी कर्मनिष्पत्तौ प्रधानहेतुरित्यर्थः । उक्तंहि –’ सर्वस्य चाहम् – अपोहनञ्च’ इति । वक्ष्यति च ‘ईश्वरस्सर्वभू तानां – यन्त्रारूढानि मायया ’ इति ’ इति गीताभाष्ये सहजकारुण्यीनबन्धनमूलकारणत्वमेव प्रधानहेतुत्वमिति प्रति पाइनेन तस्य शरणागतौ नमश्शब्दार्थे विशेषत उपयोगः संहितायां प्रदर्शितः ॥ अत्र ‘नमननामवान्’ इत्यत्र नाम
शब्दः नाभिधानपरः नमनशब्दस्य भगवदर्थकताया: अ. संहितायां पूर्वमनुक्तेः अन्यत्रानभिधानाच्च ॥ अत्रैव पूर्वे ’ नाम यत्यपि वा देवं प्रह्वीभावयति ध्रुवम् । प्रह्वीभवति नीचे हि परो नैच्यं विलोकयन् ॥ अतो वा नम उद्दिष्टं यत्तन्नामयति
स्वयम् । (५२- ११)’ इत्युपक्रम्य अङ्गोपाङ्गनिरूपणानन्तरं ‘पूर्णमङ्गैरुपाङ्गैश्च नमनं ते प्रकीर्तितम् ’ (२४) इति पूर्व नम इशब्दार्थस्य प्रपत्तेरेव नमनशब्देनाभिधानेन तत्र भगवन्तं नामयतीति योगार्थे नमनरूपं यत् स्वप्रह्वीभावकं तद्वानि -
त्यर्थः । तेन नमश्शब्दार्थप्रपत्त्या प्रह्वीभूतः इत्यर्थो लभ्यते । तस्यैव प्रधानहेतुत्वमत्र परमात्मपरत्वाङ्गीकारे विवक्षितम् प्राधान्यं च गीतामाष्योक्तदिशैव ॥
’ स्वप्राप्तये’ इत्यनभिधाय तत्प्राप्तये इ· युक्त्या सामानाधिकरण्येनान्वयः नात्र विवक्षित इति प्रतीयते । पक्षद्वयेऽपि प्राप्तये इत्यर्थबोधकशब्दो नास्त्येव अतः ‘ अयं पन्था: ’ इति परमेशभिन्नपन्था एव विवक्षितः । विसर्गशब्दार्थो यः परमेश: तत्प्राप्तये पन्थाः कइति गवेषणायां ।
।
|
यद्वा–‘ तत्प्राप्तये प्रधानोऽयं पन्था नमननामवान् ? इति भिन्नं वाक्यम्
।
अग्रम्’ इ·युक्तम् । पूत्रै स्थूलार्थानरूपणावसरे नमश्शब्दार्थो नमनरूप उक्तः तस्यैव अङ्गेपाङ्गवैशिष्टयस्य पूर्वमभि
धानेन उपक्रमे न्यासशब्देनोक्तार्थस्य ‘ नमसा योऽकरोद्देवे स स्वध्वर इतीरितः’ इत्यत्र नमश्शब्दार्थत्वकथनेन तस्यैव परार्थनिरूपणावसरे उपसंहारस्य न्याय्यतया बुद्धिसन्निकर्षः तस्यैव वर्तत इति ’ अयम् ’ इत्यत्र स एव विवक्षितः ।
सच उक्तदिशा नमनशब्दावसेय इति न्यासात्मकप्रपत्तिपरतयाऽपि योजनं सम्भवति ॥ तत्र प्रपत्तौ भक्त्याद्यपेक्षया प्राधा
।
न्य ‘ यद्येन कामकामेन ’ इत्युपक्रमोक्तं सहजकारुण्यादिगुणप्रकाशननिबन्धनं भरस्वीकतृत्वेनैव वैकुण्ठगद्ये ‘तत्प्राप्तये २२
सृष्ट्यादौ सहजकारुण्यस्य हेतुतया राजकुमारन येन दायवत् मुक्तिस्सर्वेषां समाना
४
गूढार्थसंग्रहः च ' इति संहिताघटकशब्दस्य प्रयोगेण परार्थनिरूपणावसरे उपक्रमोक्तार्थन्यास सूचितम् एव विवक्षित इति भगवता ॥ एतदेवाभिप्रेत्य आचार्यपादै: एतद्वचनस्य अर्थद्वयं तत्रतत्रोक्तम् ॥
साधनतारतम्येन साध्यतारतभ्यं परमकारुण्येन तत्तच्चेतनाद्यधिकारानुरोधेन पुत्राणां दायधनवत् अविशेषेण फ्ल शक्यम्
।
प्रदातु: नैवापादयितुं
अत एवोपासायाः तरतमभावापन्नफलशङ्काऽपि निरवकाशा । अयमर्थः सर्वत्रप्रसिद्धय
धिकरणश्रीभाष्ये स्फुटः । तत्र शाण्डिल्यविद्यायाम् ’ एष म आत्मा अन्तर्हृदये’ इति त्रिवारमभ्यासेन परमकारुण्यसूचनेन ,
भगवतस्सहजकारुण्यमूलकत्वेन अन्तर्यामित्वस्य मोक्षपर्यन्तोपयोगित्वस्य ’ ईश्वरस्सर्वभूतानाम्’ इति गीतायाम्, ‘हार्दा नुगृहीतरशताधिकया ’ इति सूत्रच प्रतिपादनेन सहजकारुण्यवत एव सर्वेषामविशेषेण फलदानं युक्तमिति सिध्यति ॥
एतमित: प्रेत्याभिसम्भविताऽस्मि इति यस्य स्यादद्धा न विचिकित्साऽस्ति ’ इति शाण्डिल्यविद्यायां एवमध्यवसायवतः
अविशिष्टफलस्य स्फुटं प्रतिपादनेन भक्तविषयेऽपि परमकारुण्यादिकं मूलमिति सिद्धया स्वतन्त्रप्रपत्तिनिष्ठविषये सहज कारुण्यादेविशेषत उपयोग इति सिद्धम् ॥ राजकुमारनयोऽप्यत्रैवानुकूलः । एवं च ‘तत्प्राप्तये ’ इत्यत्र भरन्यासस्य सूचनेन ‘न्यासेनैव ’ इत्यत्र एवकारार्थं एव व्यतिरेकमुखेनाभिधाने मूलमिति सिद्धम् ॥ अयमर्थः शुकपक्षीये आत्मा त्मीयभरन्यासं प्रतिपादयतां व्यासार्याणामभिमत इति न प्रत्याख्यानमर्हतीत्यपि सिद्धम् ॥ एतन अत्रोपायत्वस्य भरस्वीकर्तृत्वरूपत्वेन भरन्यासमन्तरा तदयोगेन ‘प्रार्थनामति: ’ भरन्यारूरूपति सिद्धयति
अत्र वचने उपायत्वस्य गुरुतरोपायान्तरस्थानापन्नत्वरूपस्य बहुत्र निर्धारणकरणेन ‘अनन्यसाध्ये स्वाभीष्टे ’ इति भरतमु निवाक्येऽपि (अ.सं) एतदनुसारेण भरन्यासएव विवक्षित इत्यभिप्रेत्य ’ अभीष्टे दुस्साघे ’ इत्यत्र भरन्यासं याच्या ऽन्वितमभिवदन्ति प्रपदनम्’ इत्याद्याचार्यपादैरुक्तम् ॥ एवमधिकारस्य ‘तत्प्राप्तये’ इति सूक्त्या स्फुटीकरणानन्तरं 6
एतादृशाधिकारिणः लघुपायनिष्ठस्य गुरूपायसाध्यं फलं कथं दास्यति भगवानिति शङ्कापरिहाराय ‘अखिलदयैकसागरस्य '
इत्यादिविशेषणानि । सृष्टेः चेतनसामान्ये सहजदयामूलकत्वेन सर्वचेतनानां फलदानेच्छा भगवतो वर्तते इति सिद्धम् ॥ एवं च कर्मज्ञानभक्त्यसाध्यफलहेतुत्वं न्यासे अभिधाय तादृशफलहेतुत्वमव्यवहित पूर्ववृत्तित्वरूपं भगवति । व्यव हितं तु शरणागतौ इति अहिर्बुध्न्यसंहितायामभिधानन न्यासस्य करणत्वं व्यापारवत्कारणत्वरूपं भगवतस्तु फलाव्यवहित
प्राक्क्षणवृत्तित्वरूपमिति विभागेन उभयोः करणत्वप्रतिपादकप्रमाणयोरविरोधः अन्योन्यसामरस्यं च सिद्धम् ॥ एतत्सर्व मभिप्रेत्य भक्तौ आप्रयाणं मुक्तिहेतुभूतचेतन व्यापारानुवृत्तिः प्रपत्तौ तु उत्तरकाले नानुवृत्तिरित्यर्थः अ.संहिताऽदि तात्पर्यपर्यालोचनेन सिद्धयतीत्युक्तिः इत: पश्चादस्मद्यतननिरपेक्षेण भवता समयऽसावर्थस्त्विति मतिविशेषं तम (
विदुः’ इत्युक्तिश्च ॥ अत्र ‘प्रार्थनामतिः इत्यत्र प्रार्थनायुता मतिरित्यर्थस्य विवक्षण एव शरणागतिशब्दार्थाने रूपण 2
परत्वमेतद्वचनस्य सङ्गच्छते । गत्यर्थानां बुद्धयर्थत्वस्य सर्वसम्मतत्वेन इच्छाया: बुद्धयवस्थाविशेषरूपत्वस्य सिद्धान्ते
अङ्गीकारेऽपि इच्छार्थस्य गत्यर्थकधातुभिः क्वापि प्रतीतिविरहेण अस्य वचनस्य शरणागतिशब्दावयवार्थनिरूपणपरत्वं
नैव स्यात् । एतत्पूर्वबचने शरणशब्दे ल्युडर्थमभिधाय अस्मिन् वचने ‘शू’’ ‘गम्’ इत्येतद्वातुद्रयार्थनिरूपणमुखेन शरणागतिशब्दार्थो निरूप्यत इति निर्मत्सराणां स्फुटम् ॥
वचने चास्मिन् अधिकारी पूर्वार्धे निरूपितः । अपराधानिवृत्ति साधनान्तरशून्यः अकिञ्चनः अधिकारी इति पूर्वा
धैन सिद्धौ अपराधनिवृत्तिरूपफलस्यापि प्रतीत्या तत्फलकरणस्वरूपोपायत्वस्य तत्प्रार्थनाऽन्वितमतरुत्तरार्धं निरूपणेम शर
।
गागतिशब्दार्थस्संपूर्णां निरूपितः गीताऽथोंऽपि विशदीकृतो भवति । उपक्रमाद्यैकरस्यंच । अन्तर्यामिब्राह्मणस्य प्रश्ना २३
[ जिज्ञासा ११ १
शरणागतेरपराधत्वं व्यासार्यानभिमतम्, श्रीभागवतशुकपक्षीयवचनानि च
४ दें
गूढार्थसंग्रह: नुरोधेनान्तर्यामिपरत्वमेव ।
‘नान्योऽतोऽस्ति द्रष्टा इतितु नियन्तुः नियन्त्रन्तरनिषेधपरमिति वृत्तिकारसिद्धान्तः, स
एब युक्त इति भगवता साधितम्। नतु परमतरीत्या द्रष्टृन्तरनिषेधेनैकस्य द्रष्टृत्वतात्पर्येण आत्मैकत्वम् । सैव रीतिः अत्रापि प्रश्नानुरोधेन साधीयसी । एवमभिप्रेत्यैव गद्यविवरणे पारमार्थिकी शरणागतिरित्यत्र व्यासार्यैः आनुकूल्याद्यङ्गकन्यासस्य 7
भगवदामिप्रेतत्वोक्तिः: ॥
गद्यव्याख्याने ‘ग्रपत्तिं विवृणोति ‘तस्मादिति ’ । इति ’ तस्मात् प्रणम्य ’ इति गीतावाक्योपादाने तात्पर्यमभिहितम्
पित्रादयः तत्तत्संबन्धाद्धि क्षमन्ते अतरसर्वविधसंबन्धात् त्वया क्षन्तव्यमित्यर्थः प्रार्थनापर्यन्तमहाविश्वासः प्रपत्तिः महाविश्वास पूर्विका प्रार्थना वा’ इत्यनेन ’ प्रसादये ’ इत्यस्यार्थ उक्त: । अत्र प्रार्थना उपायत्वप्रार्थनैव | उपायत्वंच भक्तिस्थाना पन्नत्वम् | अनन्तरं ‘परभक्तिपरज्ञान- ’ इति गद्यव्याख्याने ’ परभक्तिस्थाने प्रपदनम् परज्ञानपरमभक्ती देहसंबन्ध वेलायां उपासकस्य उपायकोटिनिविष्टे प्रपन्नस्य ते उपेयकोटिघाटते’ इति परभक्तिस्थाने प्रपदनोक्तेः । अन्ते ‘अतो भक्तिसाध्यं प्रपत्त्यैव लम्यमिति निर्भरेण त्वया भवितव्यमित्याह- अतस्त्वमिति ’ इत्यत्र प्रपत्तेः परब्रह्मप्राप्तिकरणत्वाभि
घानात् भगवत्युपायत्वस्य गुरुतरोपायस्थानापन्नत्वस्य भरस्वीकर्तृत्वस्यैव व्यासार्याणां सम्मतत्वमिति प्रतीयते । एतेन तस्मात्प्रणभ्य–इति गीतोपादानं सर्वापराधप्रायश्चित्तरूपाऽपि प्रपत्तिः अपराधरूपेति प्राक् गद्यानुष्ठित प्रपत्तिरूपापराध
क्षमापण क्रियत इति कल्पना अप्रामाणिक इति व्यासायैर्निर्धारितं भवति ॥
शुक्रपक्षीयेऽपि ‘ तत्तेऽनुकम्पां सुसमीक्षमाणः भुञ्जान एवात्मकृतं विपाकम् | हृद्वाग्वपुर्भिविंद धन्नमस्ते जीवेतयो मुक्ति
पदे संदायभाक् |} ’ (श्री.भा. १०.स्कं.१४.अ.८. श्लो) इत्यत्र ‘ हृद्वाग्वपुर्भिस्ते नमः विदधत् ’ इत्यनेनानुकूल्यादिपञ्चपरिक रोक्तिः, एवंप्रकारेण यो जीवेत इति दृप्तत्वोक्तिः, मुक्तिपदे अर्चिरादिना दायभाग्भवतीति जीवतः पुत्रादेः पितृदायभाक्त्वमिवेति
भावः’ इति । एकादशस्कन्धे - ’ तस्माद्दुरुं प्रपद्येत जिज्ञासुश्श्रेय उत्तमम्’ (११.३.२१) इत्यत्र ‘उत्तमं श्रेयः भक्तिरूपं
प्रपत्तिरूपं वा ज्ञानम् इति, ‘ इष्टं ततं तपो जप्तं वृत्तं यच्चात्मनःप्रियम् । दारान्सुतान्गृहान् प्राणान्यत्परस्मै निवेदनम् ॥’ (११.३.२८) ’ इत्यत्र उक्तसर्ववृत्तिनिदानं श्रीभगवति आत्मात्मीयभरन्यास रूपमङ्गिन माह — इष्टमिति प्राणा
।
6
निति प्राणादिविशिष्टस्यात्मनः परस्मै परवासुदेवायेति विषयो दर्शितः । एवमात्मनः आत्मीयस्य च भरन्यास एव आत्म निक्षेपः प्रपत्तिः न्यास इति पर्यायैरुक्त: ’ इति चोक्तम् ॥
एवं ’ समाश्रिता ये पदपल्लवप्लवं महत्पदं पुण्ययशी मुरारेः । भवाम्बुधिर्वत्सपदं परं पदं पदं पदं यद्विपदां न
तेषाम् ॥ ’ (१०.१४.५८) इत्यत्र ‘अतएव श्रीभगवच्छरणागतिरेव श्रीमदाचार्यकारिता सर्वाधिकारिका इति सुस्पस्टमाह
समाश्रिता ये इति । ये पुरुषाः मुरारे: मुरहननसमर्थस्य भाविनोऽपि भूतवन्निर्देशश्च अनादिसिद्धनामबत्त्वं हरेस्सूचयतीदं पदम्। पुण्ययशाश्चासौ मुरारिः तस्य पदपल्लवप्लवं पदं चरणः स पल्लव इव शीतलः सुखदःप्लवः नौकातुल्यः सान्निध्यस्पर्शा भ्यामेव तारकत्वं व्यञ्जितम् । महत्पदं महतां ब्रह्माण्डाधिपानामपि पदं आश्रयं तेषां भवाम्बुधिः जन्ममृत्युप्रवाहरूपस्सं
।
साइः समुद्र इव दुस्तरोऽपि बल्सपदं वत्सपदतुल्यं भवेत् (अयत्नतरणीयो भवेत् ) परं पदं स्थूलावस्थन्चिदचिद्विशिष्टब्रह्मणः
लीलाविभूतिविशिष्टस्य परं विरजातश्च परं पदं परमव्योमाख्यं श्रीवैकुण्ठपदं स्थानं स्वगृहरूपं भवेत् । विरजाप्रमाणं च
प्रधानपरमब्योम्नोरन्तरा विरजा नदी । वेदान्तस्वेदजनिततोयविनाविता च सा ’ इति ‘अर्चिरादिना तत्प्रथितेः’ इति सूत्र ।
6
ऋदमिमतार्चिरादिनैव गमनेन प्रपन्नानां परमपदप्राप्तिः, अतएवात्मात्मीयभरसमर्पणवतां प्रपन्नानां यद्विपदां पदं संसारभ्र ।
मणरूपं तत्तेषां न भवेदेवेत्यर्थ: ’ इति च व्यासार्यैरुक्तम् अत्र ‘परस्मै निवेदनम्’ इत्येतद्विवरणे भरन्यास एव आ’म २४
(ल.तं) शरणागतेर्न्यासभेदाभावः मुक्तिहेतुप्रीतिहेतूपायत्वं च
४ण
गूढार्थसङ्ग्रहः
निक्षेपःप्रपत्तिः न्यास इति पर्यायैरुक्त इति वाक्येन भरन्यासातिरिक्ता प्रपत्तिर्नास्त्येवेति बोधितम् । ‘तत्तेऽनुकम्पाम् '
इत्यत्र अस्यैव आनुकूल्यादिपञ्चपरिकरा उक्ताः । एतेन गद्यव्याख्याने शरणागतिः आनुकूल्यादिशरीरवतीत्यत्र अङ्गप
ञ्चकसम्पन्नभरन्यास एव विवक्षित इति स्फुटं प्रतीयते । तेन अहिर्बुध्न्यसंहितायामङ्गपञ्चक सम्पन्नभरन्यास एव शरणागतिः ।
प्रतिपाद्यतया अभिप्रेतेत्यपि सिद्धम्
अयमर्थः गीताविस्तरपञ्चरात्रवचनेषु व्यक्तः। षडङ्गं तमुपायं च श्रृणु मे पद्म 6
सम्भवे । (ल.तं.१७.५९) आनुकूल्यस्य सङ्कल्प : प्रातिकूल्यस्य वर्जनम् । रक्षिष्यतीति– षड्विधा शरणागतिः ॥ (६०) मामेव शरणं प्राप्य तरेत्संसारसागरम् ।’ इत्युपक्रम्य आनुकूल्यसङ्कल्पाद्यङ्गपञ्चकस्वरूपं निरूप्य ’ तेन संरक्ष्यमाणस्य फले स्वाम्यवियुक्तता । केशवार्पणपर्यन्ता ह्यात्मनिक्षेप उच्यते ॥ निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुतः । सन्न्यासस्त्याग इत्युक्तः शरणागतिर्रित्यपि ॥ ’ इति । ‘आत्मात्मीयभरन्यासोह्यात्मनिक्षेप उच्यते । ’ (७९) इति च उक्तम् ॥
।
एवं ‘ प्रपत्तेश्च स्वरूपंते पूर्वमुक्तं सुरेश्वर प्रपत्तिं तां प्रयुञ्जीत स्वाङ्गैः पञ्चभिरन्विताम् ॥ प्रातिकूल्यं परित्यक्तमा नुकूल्यं च संश्रितम् | (२८.११) मया सर्वेषु भूतेषु यथाशक्ति यथामति । अलसस्याल्पशक्तेश्च यथावच्चाविजानतः । उपायाःक्रियमाणास्ते नैवस्स्तारणं मम । अतोऽहं कृपणो दीनो निर्लेपश्चाप्यकिञ्चनः ॥ यन्मेऽस्ति दुस्तरं किञ्चित्पुत्र
दारक्रियादिकम् । समन्तादात्मना न्यस्तं श्रीपते तव पादयोः ॥ शरणं भव देवेश नाथ लक्ष्मीपते मम । सकृदेवं प्रप न्नस्य कृत्यं नैवान्यदिष्यते ॥’ इत्युक्तम् । अत्र ‘षडङ्ग’ ‘षड्विधा शरणागतिः’ इत्युपक्रम्य पञ्चानामङ्गत्वनिरूपणेन अङ्गा ङ्गिसमुच्चयेन ‘षडङ्गं’ ‘ षड्विधा शरणागतिः’ इत्युक्तमिति निर्धारितम् । एतेन अहिर्बुध्नयसंहितायां ’ षड्विधा शरणाग ति: ’ इत्यत्रापि उक्तार्थ एवेति सिद्धम् ॥
अत्र पूर्वे ‘ तोषणीयाऽसि केन त्वमुपायेनाम्बुजासने । परमःपुरुषार्थो यस्त्वत्प्रीतिस्तस्य साधनम् ॥ (१५.६) त्वत्प्री तौ क उपायस्स्यात् कीदृशः किंविधस्मृतः । एतन्मे सकलं ब्रूहि नमस्ते पद्मसम्भवे ॥ (१५.७) इति प्रश्नः । अत्र परम
पुरुषार्थसाधनं प्रीतिः, तत्साधनं किमित्येव प्रश्नः ‘ब्रह्म नारायणं मां यद्ज्ञानेनैवाप्नुयाद्यतिः। पन्था नान्योऽस्ति विज्ञा
नादयनाय विपश्चिताम्॥ ज्ञानं तच्च विवेकोत्थं सर्वतश्शुद्धमव्रणम् । वासुदेवैकविषयमपुनर्भवकारणम् ॥ ज्ञाने तस्मिन् समुत्पन्ने विशते मामनन्तरम् । तैस्तैरुपायैः प्रीताऽहं जीवानाममलात्मनाम् ॥ उद्भावयामि तज्ज्ञानमात्मज्योति:प्रदर्श कम् । ’ इत्यन्तेन ‘तमेव विदित्वाऽतिमृत्युमेति’ इति श्रुतौ विवेकजज्ञानं समाधिरूपं विवक्षितमिति प्रदर्शितम् ।
‘ उपायास्ते च चत्वारो मम प्रीतिविवर्धनाः । उपायांश्चतुरश्शक्र शृणु मत्प्रीतिवर्धनान् | यैरहं परमां प्रीतिं यास्याम्यन पगामिनीम् । स्वजातिविहितं कर्म साङ्ख्ययोगौ तथैव च । सर्वत्यागश्च विद्वद्भिरुपायाः कथिता इमे ॥ इत्यनेन प्रथ १
।
मःप्रश्न उत्तरितः अनन्तरं कर्मसांख्ये निरूप्य ’ उपायोऽयं तृतीयस्ते वक्ष्यते योगसंज्ञकः । ’ इत्युपक्रम्य ‘अहं संख्या यमानाहि स्वरूपगुणवैभवैः । उद्भावयामि तज्ज्ञानं प्रत्यक्षं यद्विवेकजम् ॥ (१६.३८) तृतीयस्तु समाध्यात्मा प्रत्यक्षो
ऽविप्लवो दृढम् । इति ते कथितास्सम्यगुपायास्त्रय ऊर्जिताः ॥ ’ इत्यन्तेन कर्मज्ञानभक्त्यपरनामधेयसमाधिरूपप्रीतिसाघ नान्यभिधाय ’ शृणूपायं चतुर्थ मे सर्वत्यागसमाह्वयम् । (४२) तत्र धर्मान् परित्यज्य सर्वानुच्चावचाङ्गकान् । संसारान लसंतप्तो मामेकां शरणं व्रजेत् ॥ अहंहि शरणं प्राप्ता नरेणानन्यचेतसा | प्रापयाम्यात्मनाऽऽत्मानं निर्धूताखिलकल्मषम् ।
इत्यन्तेन पुरुषार्थसाधनप्रीतिसाधनं सर्वत्यागः शरणागत्यपरनामा प्रदर्शित: । एतावता उपायभूतशरणागतेरेवाभिधानेन उपायव्यातीरिक्ता शरणागतिः नास्त्येवेति निर्धारितं भवति ॥
२५
४ त
तमेव विदित्वा इत्यत्र (ल. तं) ध्यानशरणागतिरूपवेदनद्वयस्यापि विवक्षेति व्यासायशियः [ जिज्ञासा १-१-१ गूढार्थसंग्रहः
अत्र उपक्रमे ‘पन्था नान्योऽस्ति विज्ञानात् ’ इत्यत्र प्रथमतः विवेकज्ञानवत् सर्वत्यागसमाह्वयशरणागतेरेवोपाय त्वेनाभिधानेन श्रुतौ ज्ञानद्वयं विवक्षितमिति अत्र निर्धारणमभिप्रेत्यैव तात्पर्यदीपिकाप्राकू (४. क) उदाहृतायां ‘बंदन
बाचिशब्दः उपासनप्रपदनसाधारण: ’ इति व्यासार्यैरुक्तम् । एवं पञ्चदशषोडशोक्त प्रकारेणैव सप्तदशे पतिंप्रति ‘अभी हि प्राणिनस्सर्वे निमग्ना: क्लेशसागरे । उत्तारं प्राणिनामस्मात्कथं चिन्तयसि प्रभो ॥ ४७ ॥ ’ इति प्रश्नस्य पत्युः प्रति
।
वचने ’ उत्तारहेतवोऽमीषां उपाया विहिता मया कर्म साङ्ख्यं तथा योग इतिशास्त्रव्यपाश्रयाः ॥ १ (४९) इत्युपनभ्य
चतुर्थांपायप्रश्नस्य प्रतिवचने उपायाश्चाप्यपायाश्च शास्त्रीया निर्मिता मया । विहिता य उपायास्ते निषिद्धाश्चेतरे मताः
अधो नयन्त्यपायास्तं य एताननुवर्तते | ५७ ॥ आयापायसन्त्यागी माध्यम वृत्तिमाश्रितः । मामेकं शरणं प्राप्य मामेवान्ते समञ्जते | ५८ ॥ ’ पडङ्गं तमुपायं च – पडूविधा शरणागति: ।’ (५९,६०) ३लनन्तरं ’ एवं मां शरणं प्राप्य
वीतशोकभयक्नुमः । निरारम्भो निराशीश्च निर्ममो निरहङ्कृतिः । मामेव शरणं प्राप्य तरेन्संसारसागरम् ॥ सत्कर्म
निरताश्शुद्धास्सांख्ययोगविदस्तथा । नाहीन्त शरणस्थस्य कलां कोटितमीमपि (६१,.६२,.६३) इत्युक्तम् ॥ ,
अत्र ‘ षडङ्गं तमुपायं च ’ इत्यत्र पूर्वोक्तशणागतिरेव विवक्षिता । ’ प्रविधा शरणागतिः’ इत्यनन्तरश्लोके ‘एवं " शरणं प्राप्य तरेत्संसारसा
मां शरणं प्राप्य ’ इत्यत्र एवमिति पूर्वोक्तप्रकारेणेत्यर्थेन उपायभूतैव शरणागतिर्विवक्षिता ।
गरम् ।’ इत्यत्र पूर्व योगस्योत्तारहतुत्ववत् शरणागतेरपि संसारसागरतरणहेतुत्वमेव विवक्षितम् | अनन्तरं लक्ष्म्या आनु
कूल्यादिस्वरूपप्रश्नस्य शक्रकृतस्य प्रतिवचने ‘तेन संरक्ष्यमाणस्य ’ इत्यनेन फलव्यागोऽभिहितः । पूर्वे आत्मनिक्षेपशब्दे ।
नात्मत्यागः शरणागतिशब्देन गुरुतरोपायभूतभरत्यागोऽमिहितः ‘ निक्षेपापरपर्यायः’ इत्यनन्तरं ’ उपायोऽयं चतुर्थस्ते प्रोक्तश्शीघ्रफलप्रदः । अस्मिन्ह वर्तमानानां विधौ विप्रनिषेविते । पूर्वेत्रय उपायास्ते भवेयुरमनोहरा: । (१७.७५,
७६) इल्यत्र प्राक् परमपुरुषार्थहेतुप्रीति साघनीभूतोपायचतुष्टयं चतुर्थः सर्वत्यागरूपः आत्मनिक्षेपशरणागतिशब्दाभिधेयः यः तमभिधाय ‘ आत्मात्मीयभरन्यासो ह्यात्मनिक्षेप उच्यते । ’ इति प्राक् षडङ्गोपायः ’ प्रविधा शरणागतिः ’ सर्वत्यागः चतुर्थोपायः य उतः आत्मनिक्षेपशब्दाभिधेयः तस्य स्वरूपनिष्कर्षः कृतः । इस्थमर्थस्य अभिसंहिताऽपरनामकगीतावि स्तरभूतलक्ष्मीतन्त्रवचनेषु विदुषां फुटं निर्णयेन न्यासशरणागत्यां मैदोत्प्रेक्षणमनवकाशम् ॥
अयमेवार्थः पञ्चाशेऽपि ‘प्रवद्यमानो मां नित्यं देवं वा पुरुषोत्तमम् । इत्येवमनुसन्दध्याच्छ्रद्दधानोजितेन्द्रियः ॥ २१३ ॥ प्रातिकूल्यं परित्यक्तमानुकूल्यं संश्रितम् । मया सर्वेषु भूतेषु यथाशक्ति यथामति ॥ २१४ ॥
अपायेभ्यो निवृत्तोऽस्मि पातकेभ्यो भवोदधौ । तथाऽन्यत्र प्रवृत्तिर्या त्वत्स्मृतेस्साऽपि नश्यतु
२१५ ॥ अलसस्याल्प
शक्तेश्च यथावच्चाविजानतः। उपायाश्चोदिताश्शास्त्रैर्न मे स्युस्त|रकास्त्रयः | २१६ ॥ त्रेधाऽप्यत्र प्रवृत्तिर्या त्वदाज्ञापा लनंतु तत् । अतोऽहमनुपायत्वात्कृषणोऽकिञ्चनोऽगतिः ॥ २१७ ॥ छायानाश्रित्य वर्तेऽहं त्वदीयां तापहारिणीम् । निरु पाधिस्स्वतंत्रा च स्वामिनी नःकृपानिधिः ॥ २१८ ॥ त्वमेव सर्वशास्त्रेषु शरणस्वेन गीयसे । आत्मात्मीयं च यत्किंचि हुस्त्यजं दुर्भरं मम | २१९ ॥ तत्सर्वे तव विन्यस्तं शुभयोः पादपद्मयोः उपेयायास्तव प्राप्तयै त्वामुपायं तथा वृणे |
।
२२० | उपायो भत्र मे देवि शरणं भव मेऽम्बुजे । प्लष्य मे दुरितं सर्व पुष्यमे त्वद्गतां धियम् ॥ २२१ ॥ इत्येव
मनुसंधाय मां प्रपद्येत वै गतिम् । आदिदेवं जगन्नाथमीशं वा पुरुषोत्तमम् ॥’ इति वचनेषु स्फुटः ॥
समाप्तौचौक्तमत्रिणा—‘ भूयस्त्वं शृणु संक्षेपमनसूयेऽनसूयया | श्रुत्या च कुरु (ते चित्ते ) योन रक्षांचाप्यप्रमादिनी॥
लक्ष्मीनारायणाकारा भवित्री ते मनःस्थितिः । अपायान्संपरित्यज्य स्वीकृत्याप्यनुकूलताम् ॥ लक्ष्मीनारायणौ विश्वमिति २६
(ल.तं) पञ्चदशे षोडशेऽष्टाविंशे अन्ते च न्यासाभिन्नशरणागतेस्संसारतारणत्वम् न्च
४ थ
गूढार्थसंग्रहः
।
।
भावे कृतस्स्थितिः अपायान्संपरित्यज्य पातकान्भवसागरे । दैवाद्वा यदि वा मोहादपायस्य परिप्लवे भजमानाऽथ तावेव लक्ष्मीनारायणावुभौ | शश्वच्चासुकरान्सर्वानुपायाखतीस्वयम् । आलप्सा करणे तेषां लोकसंग्रहचेतसा ॥ आकि ञ्चन्यं समालम्ब्य बुद्धचैव दृढया स्वयम् । सर्वथा सर्वदेशेषु सर्वावस्थासु सर्वदा | रक्षिष्यति हरिश्श्रीमानाश्रितानिति निश्चयात् । आत्मात्मीयभर सर्वे निक्षिप्य श्रीपतेः पदे ॥ आयं वृणु लक्ष्मीशं तमुपेयं विचिन्त्य च । इतिते सकलं भद्रे शास्त्रशास्त्रार्थतत्फलम् ॥ दर्शितं परमे तत्वं गोपाय स्वन तेजसा ।’ इति निक्षेपरक्षोदाहृतेषु अत्रिसहिताऽन्तवचनेषु पञ्चदशायुक्त प्रकारेणैवार्थरस्फुटः अत्र अष्टाविंशे पञ्चाशे ग्रन्थान्ते च वचनेषु उपायवरणमप्युक्तं, निक्षेपोऽप्युक्त: । अथापि निक्षेपानन्तरं वरणं नैव विवक्षितम् । सर्वत्यागरूपशरणागते: आत्मनिक्षेपस्य पञ्चाङ्गकत्वस्य प्रतिपादनपूर्वकं
आत्मात्मभरन्यासएवात्मनिक्षेप इति निष्कर्षकरणन निक्षेपानन्तरमुपायवरणमिति क्रमः न विवक्षितः, किंतु समानकर्तृकत्व
मात्रमेव विवक्षितम् । अयमर्थ: अष्टाविंशे-‘प्रपत्तेश्च स्वरूपं ते पूर्वमुक्तं सुरेश्वर । ’ इति पूर्वोक्तार्थस्यैव स्थैर्यार्थे पुन रुक्तौ प्रपत्तिस्वरूपे प्रागुक्तार्थ एवाभिमत इति प्रतीयते । तादृशप्रपत्ति स्वरूपस्यैव प्रागुक्तान्येव पञ्चाङ्गान्युक्तानि । तेनच न्यासस्यैवामित्वमिति स्फुटं प्रतीयते ॥
एतेन पञ्चाशग्रन्थान्तवचनेष्वपि अयमेवार्थ इति निर्धारणं युक्तम् । अतश्च आत्मात्मीयभरन्यास एव ह्यात्मन ।
क्षेपः स एव शरणागतिरिति सिद्धयति । ‘आत्मात्मीयभरन्यास’ इति वचनानन्तरं ’ चतुर्थमाश्रयन्नेवोपायं शरणाश्रयम् । अतीत्य सकलं क्लेशं सविशत्यमलं पदम् ॥ १७-९८ ॥ अपायोपायनिर्मुक्तां मध्यमां स्थितिमास्थिता शरणागतिरप्रयैषा संसारार्णवतारिणी ॥ ९९ ॥ इति, ’ उपायस्सुकरस्सोऽयं दुष्करश्च मतो मम ।’ (१०४) इतिचोक्तम् ॥
अत्र परमपुरुषार्थसाधनप्रीतिसाधनभूतः सर्वत्यागः उपाय: चतुषूपायेषु यश्चतुर्थः पञ्चदशे उक्तः ‘ शृणूपायं चतुर्थे
मे सर्वत्यागसमाह्वयम् ।’ इति षोडशे ’ निक्षेपारपर्याय ’ इति वचनानन्तरं ’ उपायोऽयं चतुर्थस्ते प्रोक्त’ इति निक्षेपा परपर्याय शरणागतरेव चतुर्थोपायस्वमभिधाय ‘आत्मात्मीय - उच्यते इति तनिष्कर्ष कृत्वा ‘चतुर्थमाश्रय नेवमुपायम् इत्यन्ते चतुर्थोपायशरणागतेः संसारार्णवतारणत्वं प्रतिपाद्य चतुर्थोपायः निक्षेप उपसंहृतः । अष्टाविंशेऽपि ‘प्रपत्तिं तां "
,
प्रयुञ्जीत’ इत्युपक्रम्य प्रागुक्तार्थस्यैव स्थिरीकरणेन चतुर्थोपायस्सर्वत्यागः आत्मनिक्षेपः स एव शरणागतिः स एवात्मात्मी यभरन्यासः प्रपत्ति: संसारतारणंचेति स्फुटं विदुषां वचनार्थः प्रतीयते ॥
एतेन गीतायां–‘दैवीद्वेषा गुणमयी’ इति श्लोके प्रपत्तेस्संसारतारणत्वं यदभिहितम् यच्च ‘सर्वधर्मान्परित्यज्य
,
इति श्लोके शरणागत्यादिकं तत्सर्व विशदीकृतं भवति । एवं गीताविस्तरसंहितावचनेषु निर्धारणमभिप्रेत्यैव व्यासार्यैः
शुक्ररक्षोये पञ्चाङ्गन्यास एवं प्रपत्तिश्शरणागतिरात्मात्मायभरन्यासः आनुकूल्याङ्गपञ्चकसंपन्न इति निर्धारणं कृत्वा गद्य व्याख्याने शरणागतिरुक्ताङ्गपञ्चक संपन्नैवोत्तेति निर्धारितम् ॥
गद्यत्र्य स्वतन्त्रप्रपत्तिनिरूपणपर् कर्मज्ञान भक्तियोगपरित्याग एव ’ सर्वधर्मान्परित्यज्य ’ इत्यत्रानूदितः एतदेवा
किंचन्यमधिकारः इत्यर्थस्य स्फुटतया ‘सर्वधर्मान्’ इत्यतःपूर्व ’ मन्मना भव’ इति श्लोके न्यासो विवक्षित: ’ सर्वधर्मान् इत्यत्रोपायवरणं विवचितम् त्यागस्य विधिरेच अनुवादपक्षः असङ्गतः इत्यादिकल्पनाऽप्रामाणिकीति भगवतैव निर्धारितं भवति । स्वतन्त्रप्रपत्तिनिरूपणार्थं गद्यत्रये इत्थं वदतो भगवतः संहिताऽनुसारेण न्यासाभिन्नशरणागतिरेवाभिमता, न अत्र शुकपक्षीये -’ शरणागति: आचार्यकारिता सर्वाधिकारिका’ इत्यु
न्यासभिन्नशरणागतिरिति च प्रागेव निरूपितम् ।
पक्रम्य तस्या आत्मात्मयभरन्यासरूप वाभिधानेन शरणागतिव्यतिरिक्ताचार्याभिमानः चरमोपायभूत इति कल्पना छाप्रा २७
४द
आचार्यकारितशरणागते रुत्कर्षः व्यासार्याणामाचार्यपादानां च प्रपत्त्यादिविषयेऽभिप्रायैक्यं च [ जिशसा ११.१
गूढार्थसंग्रहः माणिकी । वेदार्थसंग्रहवैकुण्ठगद्ययोः प्रपत्तिमन्तरा कस्यापि न मोक्ष इति साधनेन प्रपत्तिव्यतिरिक्ताचार्याभिमान स्याप्रामा
णिकतायाः स्फुटीकरणात् अत्र ‘न्यासोपासनात्मकाशेपविद्याविशेषनिष्ठाः’ इत्यभिधाय न्यासस्य उपेयविरोधिनिरासकत्वं वदद्भिः
ब्यासार्यै: ‘भूतसंबन्धी व्रातः भूतत्रातः संश्रितसंबन्धिनोऽपि ततएव कारणात् भगवतो रक्ष्या इत्यभिप्राय:’ इत्युक्तेः, ‘ तयैव सर्वे संपस्त्यते ’ इति श.गद्यव्याख्याने ‘स्वसंबन्धिसंबन्धिनिस्तरणमपि सर्वशब्दाभिधेयम्’ इत्युक्तेश्च अर्थ: ‘आचार्यकारितेति’
शुकपक्षीयोक्त्या सम्यक्प्रकटीकृतो भवति । अत्र उपासनाधिकारिसंवन्धिना परंपरया निस्तरणमेव, आचार्यकारितन्यास
।
संबन्धिनांतु साक्षादिति विभागसूचितो भवति । अयमर्थ: आचार्यपादैः सम्यक् तत्र तत्र निरूपितः
श्रुतप्रकाशिका
गद्यव्याख्यानयोः शुक्रपक्षीयेच सामान्यतः न्यासविद्यानिप्रसामान्यसंवन्धिनिस्तरणस्याभिधानेन स्वयं न्यासमकुर्वतामपि आचार्य
कारितन्यासविषयत्वेन मुक्तिरिति बोधनेन रामानुजमुनिविषय एवेयं प्रक्रिया नान्यत्रेति केषांचि कल्पना निर्मूलेति बोधितम् ॥ आचार्यपादैरापि शरणागतिगद्याधिकारे विभीषणसहागत राक्षसन्यायेन संबन्धिनिस्तरणमुत्तम् ॥ न्यासतिलकेऽपि–‘ त्वय्याचार्यैः विनिहितभरास्तावका रङ्गनाथ त्ववैङ्कर्यप्रवणमनसः त्वद्गुणास्वादमत्ताः । त्वय्ये कस्मिन्नपि विजहतो मुक्तवत्साघनत्वं त्वच्छेषत्वस्वरसरसिकास्सूरयो मे स्वदन्ताम् ॥’ इति सामान्यतो आचार्यनिष्टाय गुणाधिक्यकथनं सङ्गच्छते । उत्तया धनञ्जयविभीषणलक्ष्यया प्रत्याय्य लक्ष्मणमुनेर्भवता वितीर्णम् | श्रुत्वा वरं तदनुबन्धमदावलिप्ते नित्यं प्रसीद भगवन् मयि रङ्गनाथ ॥’ इत्यत्र वरोऽपि न रामानुजमुनिमात्रविषयः, तद्व्यतिरिक्तेन (
येनकेन बाप्याचार्येणैकेन यच्चेतनभरः भगवति न्यस्यते तच्चेतनानां मुक्तिरित्येव वरः ।
शरणागतिगद्यविवरणोक्त्यैकरस्यात् । अतश्च
विभीषणसहागतराक्षसन्यायेनेति
श्रीभाष्यादिप्रवचन प्रख्यातवैभववात्स्यवरदगुरूपदेशानुसारिभिः व्यासार्यैः
न्यासविद्याविषये सम्मततया प्रकाशितार्थः योय: स सर्वोऽपि आचार्यपादानामपि संमतः तैर्निर्धारितश्चेति सिद्धम् । ये च वात्त्यवरदगुरूपदेशानुसारिछात्रपरंपरान्तर्गताः ते न्यासातिरिक्तशरणागतिमनभ्युपगच्छन्त: (अ) संहितोक्तन्यासविद्यानिष्ठाः
।
तत्संहितोक्तेज्याप्रयोगं नित्यग्रन्थोक्तमेव श्रद्दधानाः तदुक्त प्रकारेणैव नित्यमाचरन्ति येतु न्यासविद्याविद्वेषिणः ते ‘अथ परमैकान्तिनो भगबदाराधनप्रयोगं वक्ष्ये भगवत्कैङ्कर्यरतिः परमैकान्ती भूत्वा ’ इति नित्योपक्रमविरोधेन इन्द्रियजयशू
न्यानां नित्योक्तरीत्यानुष्ठानं कल्पयन्तः तदुक्तस्त्रानं तदा गङ्गाऽऽवाहनं मूलमन्त्रजपं आधारशक्त्त्यादि तर्पणर्मित्यादिकं नानु तिष्ठन्त्येव। अतः वात्त्यवरदगुरूपदेशानुसारेण व्यासार्याणामित्थमुक्तिः सङ्गच्छत एवेति दिक् । अधिकंतु सत्संप्रदायरक्षायां विवेचविष्यते ॥
भूतन्त्रातरक्षैकढ़ीक्षे इत्यनेन मुक्ति प्रदत्वमुक्तम् । प्रथमपादेन च जगत्कारणत्वम् । जन्माद्यस्य यतः ’ इति 6
सूत्रविषयवाक्ये ‘ आनन्दाद्ध्येच खल्विमानि भूतानि जायन्ते आनन्दं प्रयन्त्यभिसंविशन्ति ’ इत्यत्र आनन्दरूपस्य ब्रह्मणः
यदेष आकाश आनन्दो न स्यात् एषह्येवानन्द याति’ इत्यत्र मुक्ति प्रदत्वमपि, एतदर्थद्वयं पादद्व ८
|
कारणत्वमुक्तम्
येन निरूपितम् । ‘आनन्दं प्रयन्ति’ इत्यत्रानन्दरूपस्य ब्रह्मणः प्राप्यत्वं प्रतिपादितम् । ‘अस्माल्लोकात्प्रेत्य एतमान 6
न्दमयमात्मानमुपसङ्क्रम्य इमान्लोकान्कामानी कामरूप्यनुसञ्चरन् ’ इति अन्ते ’ सोऽश्रुते सर्वान्कामान्त्सह ’ इति श्रुत्यर्थों
।
विशदीकृतः
एतेन आनन्दरूपस्यापि ब्रह्मणः एतल्लोके न प्राप्तिः अपित्वन्यत्रेति सिद्धम् । इदमेव प्राप्यत्वं प्रतिपाद
।
यति श्रुतिशिरसिविदीप्ते इत्यादिना ’ वेदैरनेकैरहमेव वैद्य: ’ इति (कै.उ) श्रुत्या गीतोपबृंहितया वेदसामान्ये ब्रह्मण: प्रति पाद्यतया दीप्तेस्सत्वेऽपि ’ तंत्वौपनिदं पुरुषम् ’ ’ विज्ञानमानन्दं ब्रह्म ’ इत्यादौ उपनिषत्प्रतिपाद्यब्रह्मण एव कर्मविद्या फलप्रदत्वम्, परायणभित्यत्र ‘आनन्दं प्रयन्ति’ इत्यादि बहुश्रुत्यैकरस्येन प्राप्यत्वमपि विवक्षितमिति श्रुतिशिरसिविशेषेण २८
ब्रह्मणः श्रुतिशिरासीवशेषेण दीप्तेरुपपादनम्
श्रीभाष्यम्
रक्षकदीक्षे । श्रुतिशिरसि विदीते श्रुतप्रकाशिका
भूतव्रातः संश्रितसम्बन्धिनोऽपि तत एव कारणाद्भगवतो रक्ष्या इत्यभिप्रायः । यथा—
।
आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः । वैष्णवो नः कुले जातस्स नस्सन्तारयिष्यति ॥ इति
पशुर्मनुष्यःपक्षी वा ये च वेष्णवसंश्रयाः । तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदम् ॥ इति च ननु षठ्यन्तनिर्दिष्टानतिरिक्तविषय समुदायशब्दः; यथा ब्राह्मणसमाज इति नैवम् - 1जपरिषदित्यादिप्वतिरिक्त
स्यापि दर्शनात्, समासान्तर्गताया षठ्यारसम्बन्धमात्रविषयत्वात्, षठ्यन्तनिर्दिष्टानतिरिक्तवनियम् स्यानुशासनाभावाच्च । ।
समुदायशब्दे श्रुते समुदायिन: के ? इत्यपेक्षायां सन्निहितशब्दवाच्यनिष्ठस्समुदायश्शीघ्रं प्रतीयत इति ब्राह्मणसमुदाय इत्यादिष्वनतिरेकप्रतीतिः राजपरिषदित्यादिष्वतिरिक्तत्वस्यापि दर्शनात् तत्तत्समुदायग्राहकप्रमाणानुरोधेनार्थवर्णनं युक्त
मिति यथोक्त एवार्थः। एवं च सति व्रातशब्दप्रयोगस्यार्थवत्वं स्यात् । इष्टप्राणपर्यन्तानिवारणलक्षणा रक्षा ; तस्याम् एकदक्षिः - प्रधानदीक्षः । दीक्षा सङ्कल्पः स्वसत्ताया अपि संश्रितरक्षासङ्कल्पनिवर्तन स्यात्यन्ताभिमतत्वं प्राधान्यम्-अप्यहं ।
जीवितं जह्याम् इति ह्युक्तम् ’ काममात्मानं भार्या पुत्रं वोपरुन्ध्यान्नत्वेव दासकर्मकरम्’ इति चापस्तम्बः ।
ईंटशीय स्मृतिर्यदाज्ञा तस्यापि तथानुष्ठानस्याभिमतत्वम् अप्यहं जीवितं जह्याम् इत्यनेनावगम्यते । दीक्षाप्राधान्येन रक्षाप्राधान्यं फलितम् दीक्षाशब्देन आश्रितसंरक्षणस्य स्वप्रयोजनत्वं दर्शितम् । व्रतभ्रंशसमाप्तयोरन र्थाभ्युदय |
दयप.लत्वं
व्रतिन एव ; संश्रितरक्षणं च तद्व्रतम् | यथा ’ ददाम्येतद्व्रतं मम ’ इति । विनतरक्षाशब्दाभ्यां तृतीयचतुर्थाध्यायार्थी ।
समाश्रयणीयतानिमित्ततयाऽवगते
यथा ’ य एनं विदुरमृतास्ते भवन्ति ’ इत्युपक्रम्य
।
सङ्क्षिप्तौ । एवं जगत्कारणत्वमोक्षप्रदत्वे कथिते । एतेहि राज्ञश्छत्रचामरवद्ब्रह्मणोऽसाधारणं चिह्नम् * परत्वसौलभ्ये च 6
सं बाहुभ्यां नमति सं
पतत्रैद्यावापृथिवी जनयन्देव एकः’ इति ‘सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्ति मृच्छति | ’ इति च | प्रमेयशरीरं साधीयो यदि प्रमाणमुपलभामह इत्यपेक्षायां द्विकद्वयशेषभूतचतुरसूत्र्यर्थं वदन् प्रमे यानुरूपं प्रमाणं दर्शयति – श्रुतिशिरसीति । श्रूयते नित्यमिति श्रुतिः । अनेनापौरुषेयत्वान्निर्दोषत्वं विवक्षितम् । गूढार्थसंग्रहः
दीप्तिः। श्रुतिशिरश्शब्दद्वयोपादानेन ‘रातिर्दातुःपरायणं तिष्ठमानस्य तद्विद: ’ इति श्रुयैव श्रुतितच्छिर: प्रतिपाद्यप.ल दातृत्वस्य प्राप्यत्वस्य च ब्रह्मणि प्रतिपादनेन श्रुतितच्छिरसोः तात्त्विक प्रामाण्येन प्रतिपाद्याथ्र्यो : रुङ्गतिमत्वेनाविरोधरसू चितः, यथा प्रतिपादकयोरविरोधः तथा प्रातपाद्ययोरपि । ‘विदीत ’ इत्यत्र दीपधातुप्रयोग: ’ अथ यदितःपरो दिवो ज्योतिर्दीप्यते ’ (छा) इति श्रुत्युक्त दीप्तिमभिप्रेत्य । इयं च श्रुतिः ज्योतिरधिकरणविषयवाक्यतया परैरप्युदाहृता । प्रकृ तिमण्डलाद्बहिः देशविशेषाबच्छेदेन प्राप्ति : एतच्छ्रतिबलात् सिद्धयतीति समन्वयाधिकरणपश्चपादिकाविवरणभर त्याविषु वृत्तिकाराणामाशयः पूर्वपक्ष उपन्यस्तः । ’ ईश्वरस्सर्वभूतानाम् ’ इति गीताभाष्ये स्थानविशेषावच्छेदेन प्राप्यत्वनिरूपण परश्रुतिमध्ये इयं श्रुतिः भगवता आत्ता । एवं ज्योतिरधिकरणेऽपि स्थानविशेषावच्छेदेन दिव्यम्ङ्गलविग्रहविशिष्टस्य ।
परमात्मनः प्राप्यत्वमिति भगवता वक्ष्यते अतः एतच्छुातचलात् देशविशेषावच्छेदेन दिव्यमङ्गलविग्रहविशिष्टस्यप्राप्तिः
उननिषत्स्वेव सिद्ध्यतीति श्रुतिशिरसिविदीप्ते इत्युक्तम् ।
२९
परस्मिन्नित्यनेन सूत्रश्श्रुतिघटकैर्बहुभिः परशब्दैः सविशेषस्यैव परब्रह्मत्वबोधनम्
[ जिज्ञासा १. ११
श्रीभाष्यम्
ब्रह्मणि श्रीनिवासे भवतु मम परस्मिन् श्रुतप्रकाशिका
अतएव पूर्वमीमांसान्यायानां प्रामाण्याद्यपयोगिनामत्रोपजीव्यत्वं सूचितम् | शिरश्शब्देनानन्यपरत्वं विवक्षितम् । परत
।
स्वप्रधाना मन्त्राह्मणभागायुपनिषद | विदीप्ते पूर्वभागेऽप्यन्नीन्द्रादिरूपतया ब्रह्मण एवं प्रतिपाद्यत्वं, ‘तदेवाग्निस्त द्वायुस्तत्सूर्यस्तदु चन्द्रमाः’ इत्यादिनोपनिषद्वाक्येनैव ज्ञायत इति विशेषेण दीप्तं विदीप्तम् । यद्वा क्षुद्रसुखसाधन भूतदुःखात्मकप्रवृत्तिनिवृत्तिरूपं प्रयोजनं पूर्वभाग दीप्तम् ; ब्रह्मतु स्वयंनिरतिशयानन्दरूपतया परमपुरुषार्थभूतमुपरित नभांगे विशेषणे दीप्तमिति भावः । अनेन समन्वयाधिकरणार्थस्सू चितः । तत्पूर्वाधिकरणत्रयार्थश्चात्र द्योतितो भवति
।
।
व्युत्पत्तिलक्षणसौष्ठवाभावे श्रुतिशिरोवेद्यत्यायोगात् श्रुतिशिरदशब्दस्य प्रमाणान्तरव्यावर्तकत्वाच्च ब्रह्मणीति सामा
न्यपदमौपनिषदानां सद्ब्रह्मात्मादिसामान्यशब्दानां प्रदर्शनार्थम् । श्रीनिवास इति विशेषपदं नारायणादिविशेषशब्दानां प्रदर्शनार्थम् । पशुना यजेत’ ‘छागस्य वपाया मेदसः’ इत्यत्र ‘छागो वा मन्त्रवर्णात्’ इति सूत्रोक्तन्यायेन 6
गूढार्थसंग्रहः
।
ब्रह्माण श्रीनिवासे इत्यनेन निश्श्रीकस्य निरतिशयबृहत्त्वं न सम्भवतीति सूचितम् ‘मही देवस्य सवितुःपरि ष्टुतिः ’ (श्वे.२.४) ‘ युजे वां ब्रह्मपूर्व्यं नमोभिः ’ २.५ इति श्वेताश्वतरश्रुतिः अभिप्रेता।’ ब्रह्मविदाप्नोति परम्’ ‘ परात्परं पुरु पमुपैति दिव्यम् ’ (मु) ‘ परात्परं पुरुषं याति विद्वान्’ (कै) ’ परंज्योतिरुपसंपद्य ’ पुरुषस्सपरः पार्थ भक्त्या लभ्यस्त्वनन्यया
(गी) इत्यादौ परशब्दनिर्देशेन परस्यैव प्राप्यत्वं सिद्धम् । ‘परमतस्सेतून्मान सम्बन्धभेदव्यपदेशेभ्यः’ इत्यादौ प्रापकात्परस्य
प्राप्यस्यप्रतिषेधेन प्राप्यत्वं प्रापकस्यैवेति वक्ष्यते । अतः अखिलेत्यादिपूर्वार्धे पापकत्वेनोक्तस्य प्राप्यत्वं परस्मिन्नित्यत्राभि
प्रेतम्। अत्र उत्तरार्धे श्रुतिशिरसि विदीप्ते परस्मिन् इत्यनेन अर्चिरादिगतिद्वारा देशविशेषावच्छेदेन प्रापकस्यैव परस्य ।
।
प्राप्यत्वस्य प्रतिपादनेन अपुनरावृत्तिश्रुतिः क्रममुक्त्यभिप्रायति परोक्तिः प्रमाणविधुरेति सूचितम् ‘अस्माच्छरीरात्स स एनान् ब्रह्म गमयती ’ त्यनन्तरं मुत्थाय परंज्योतिरूपसंपद्य ’ इत्यत्र उत्क्रान्त्यनन्तरं गतिसाव्यप्राप्तेः प्रतिपादनात् नच पुनरावर्तते इति श्रुतौ निर्विशेषप्रतीतेरेबाभावेन क्रममुक्तयुल्लेखस्याप्यसम्भवात् । ‘पस्मिन्’ इयत्र ब्रह्मगतो त्कर्ष एव परशब्देन बिबक्षितः । प्रागुदाहृतपरशब्दघीतश्रुत्तिषु परशब्दस्योत्कृष्टार्थकत्वात् । सूत्रेष्वपि ‘पगत्तु तच्छ्रुतेः’ ’ पराभिध्यानात् ‘‘ ’ परंजैमिनिः’ इत्यादावपि परशब्दस्यो कृष्टार्थकत्वस्य परेषामपि संमतत्वात् ।’ एतद्वै सत्यकाम परंचापरं च ब्रह्म ’ (प्रश्न.३) इति श्रुनावपि परशब्दस्यान्यार्थकत्वाभावात् । एवं ’ परमत ’ इति सूत्रघटिपाद एव ‘पराभिध्या नात्’ इत्यत्र पूर्व सविशेषस्य ध्यानमेव विवक्षितमिति तत्र परशव्देनोत्कर्षः बुद्धिस्थ इति ‘परमत ’ इति सूत्रेऽपि पर शब्दः उत्कृष्टार्थक एव । परात्तु तच्छ्रुने:’ इति सूत्रे सृष्टिसमकालिकान्तर्यामित्वप्रतिपादनपरे नपरशब्दप्रयोगेण स्रष्टा स्थानतोऽपि परस्य 6
9
अन्तर्यामी बुद्धिस्थः । स एव ’ पराभिध्यानात्’ इत्यत्र बन्धमोक्षहेतुतयाऽपि उपस्थितः ।
८
इत्यत्रापि तस्यैबोपस्थितिर्युक्ता, नतु परसंमतनिर्विशेषस्य। एवं च ‘परमतस्सेतून्मान ’ इति सूत्रेऽपि अतइत्यत्रैतच्छब्देनजग स
ष्टाऽन्तर्यामी बन्धमोक्षहेतुश्च सविशेष एवोषस्थाप्यते । तस्मादुत्कृष्टमेव प्राप्यमस्तीति पूर्वपक्षः, तस्यैव प्राप्यत्त्रमिति सिद्धान्तः । परमतरीत्या निर्विशेषादन्यत् तत्त्वमस्तीति पूर्वपक्षः नास्तीति सिद्धान्तोऽत्र विवक्षितः । तथा तस्य तात्त्विकताबो नतु ३०
५ खे
गूढार्थसंग्रहः
घकप्रमाणानां तैरप्यनुपन्यासात् ‘तद्धेतुव्यपदेशाच्च पराभिथ्यानात्तु तिरोहितं ततोह्रस्य बन्धविपर्ययौ ’ इत्यादौ प्राप कत्वं परमात्मन उक्तम्।सेतुशब्देन प्रापकबोधस्थले प्राप्यान्तरप्रतीतिवत् अत्रापि प्राप्यान्तरमिति प्रतीयते प्रापकस्योन्मितत्वने ?
6
प्राप्यस्यानुन्मितत्वं बोथ्यते । ’ अमृतस्य परं सेतुम् ’ ’ अमृतस्यैष सेतु’ रिति षट्या प्राप्यप्रापकसंबन्धव्यपदेशेन प्रापकभिन्नं प्राप्यमिति प्रतीयते। ‘परात्परं पुरुषमुपैति ’’ ततो यदुत्तरम्’ इत्यादौ परभूतात्प्रापकात्प्राप्यस्य भेदेन व्यपदेशोऽपि दृश्यते।
एते च हेतवः सविशेषात्प्रापकादन्यन्निर्विशेषमेव प्राप्यमिति पूर्वपक्षहेतवो युक्ताः । प्रकृतैतावत्वं प्रतिषेधति’ इति 6
निर्विशेषमतपर्यालोचनेन अत्रापि तत्पर्याालोचनमेव युक्तम् ॥
तत्र ‘सेतुं तीर्त्वा’ इत्यत्र सेतुशब्दस्सर्वलोकासङ्करकरत्वेन प्रवृत्तः । उन्मानव्यपदेशः उपासनार्थः इत्यभिधाय
‘ उपपत्तेश्च’ इति सूत्रे ‘अमृतस्यैष सेतु: ’ इत्यत्र षठ्या संबन्धव्यपदेशः न प्राप्यप्रापकभेदतात्पर्यकः यमेवैषवृणुते —तनू स्वाम् ’ इत्यत्र वरयितुस्स्वस्यैव लभ्यत्वं ’ तस्यैष आत्मातिवृणुते तनूगँस्वाम् ’ इति वाक्येन प्रकटीकृतम् । एतेन ‘यमेवैष वृणुत’ इत्यत्र ध्यानानन्तरकालिकवरायतृत्वेन प्रापकत्वेनोक्तस्यैव ‘तेन लभ्य’ इत्यत्र प्राप्यत्वमभिधाय, उत्तरत्र तदेव प्राप्य’चं दृढीकृतमिति प्राप्यापक चेतनाभेद एव सिद्धयति ।एत्र श्री भाष्यादौ ‘खप्राप्तौ स्वस्यैत्र प्राप्यस्यैव प्रापकत्वम् । ' ।
८
इत्यादिना प्राप्यप्रापकचेतन भेदो नास्तीत्येव सूत्रात्पर्ये बोधितम् केषांचित्सम्मतं सिद्धोपायत्वं नात्र वित्रक्षितमिति भाव ।
।
प्रकाशे तृतीयसम्पुटे निरूपितम् ॥ ’ भ्वाद्यायतनं त्वशब्दात् ’ (१.३.१) ’ मुक्तोपसृभ्यव्यपदेशाच्च ’ (१.३.२) इति
सूत्रद्वयार्थः अत्र निर्धारितो भवति । तत्र च ’ अमृतस्यैष सेतुः’ इति प्रथमसूत्रे विषयवाक्यम् । अमृतस्य स्वस्यैव
प्रापक इत्यर्थवर्णनेन तदर्थनिष्कर्षः कृतः । ‘नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्’ इति श्रुतौ ’ नामरूपाद्वि मुक्त: ’ इत्यत्र नामरूपसामान्यविनिर्मोकः नाभिप्रेत इति ‘प्रकृतैतावत्वंहि प्रतिषेधति’ इत्यादावेव व्यक्तम् । ’ दिव्यो
ह्यमूर्तःपुरुषस्सबाह्याभ्यन्तरोह्यजः अप्राणोह्यमानाशुभ्रोह्यक्षरात्परत: पर: ’ ( मु. २.१.२) इति परत्वेनोक्तस्यैव ‘तमेबैँकं जानथात्मानममृतस्यैष सेतुः ’ (२.२.५) इति सेतुत्वं प्रतिपाद्य ’ तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्’ ८
(मु.३.२) इत्यत्र परस्यैव प्राप्यत्वप्रतिपादनेन सेतोरेव प्राप्यत्वपर्यसानात् । (३.२) ’ यमेवैष वृणुते—खाम् ’ इत्यत्र
वरयितुरेव प्राप्यत्वस्य प्रतिपादनेन प्रापकस्यैव प्राप्यत्वं स्थिरीद्धतम् । एतेन द्यु॒भ्वाधिकरणोक्तविषयवाक्यनिष्कर्षः परा धिकरणे सिद्धः ॥
यद्यपि ’ तथाऽन्यप्रतिषेधात्’ इति सूत्रे अन्यप्रतिषेधः प्रतीयत इव । तथाऽपि नात्र सोऽर्थो विवक्षितः ।
‘ अन्यप्रतिषेधात्’ इत्यनेनैवोपपत्तौ तथेत्यस्य वैयर्थ्यात् । तथेत्यनेन पूर्वपक्षिसंमतोत्कृष्टत्वरूपेणैव प्रतियोगिनः उपस्थिया तस्य प्रतिषेध एव तत्सूत्रे विवक्षितः । ’ यस्मात्परं नापरमस्ति किञ्चित्’ इति श्रुतिरत्र विषयवाक्यत्वेन परैरप्युदाहृता।
इयं च श्वेताश्वतरश्श्रुति: तैत्तरीयेऽपि वर्तते । तैत्तरीयविद्यारण्यभाष्ये ’ यस्मात् ब्रह्मतत्वात् परं उत्कृष्टं अपरं अनुत्कृष्टं वा वस्तु किञ्चिदपि नास्ति ’ इति । एवमेव ब्रह्मविद्यऽभरणेऽपि यद्विवरणं कृतं तत् न श्रुतितात्पर्यानुगुणम् । ‘ यस्मान्ना
णीयो न ज्यायोऽस्ति कश्चित् ’ इत्यनन्तरवाक्य इव अत्र नञ्द्वयाभावेन चकारादिविरहेण ‘ मत्तःपरतरं नान्यत्किञ्चिदास्त
,
इति गीताद्युपबृंहणविरोधेन च एवमाशयस्य श्रुतौ कल्पनाऽसम्भवात् । ‘ यस्मानाणीयो न ज्यायोऽस्यि’ इति वाक्यं
व्यतिरेकमुखेन प्रवृत्तम्। एवं ‘ अणोरणीयान्– महिमानमीशम्’ (श्वे. उ. २०) इत्यत्र अणुत्वमहत्वरूपधर्मद्वयमपि ईशे अन्वयमुखेन प्रतिपाद्यते,-ईशंतेनतं ईशविषय एवावं मन्त्रः । अतो ‘ यस्मान्नाणीयः ' इ त ् य त ् र यच्छन्दः ईशविषयः । एवमेव ज्ञात्वा अमृता भवन्ति ’ (३.७) इतीश्वरस्यो कर्षः प्रतिपादितः । तेन ‘ यस्मात् परं न '
पूर्वे ’ ततःपरं ब्रह्म—-
पराधिकरणे सूत्रांवेषयवाक्ययोः आत्माऽन्यामथ्यात्वं किंतूतार्थएवेति साधनम्
[ जिज्ञासा १-१-१
गूढार्थसंग्रहः
|
इत्यत्र तत उत्कृष्टस्यैत्र निषेधः
अपरशब्दः अन्यवरः ईशस्यापरब्रह्माचं, तत उत्कृष्टं निर्विशेषं परब्रह्मेति मतनिरासार्थ
एवं श्रुति: अनया ईश्वरादुत्कृष्टस्यान्यस्य निषेधेन निर्विशेषमप्रामाणिकमिति प्रतिपादितं भवति । एवमेव तत्रैव षष्ठे ‘तमी श्वराणाम् ’ इत्यनन्तरं ’ न तत्समश्राम्यधिकच ’ इत्यत्रापि अभ्यधिकनिषेधेन निर्विशेषाप्रामाणित्वमेव प्रतिपाद्यते ॥
।
एतेन पूर्वं परत्र ईशनिरूपणानुसारेण ‘तततॊ यदुत्तरतरं तद्रूपमनामयम् यएतद्विदुःमृतास्त भवन्ति ’ (श्वे ३.१०) इत्यत्र यत्तदिति पदद्वयेन तत इत्यत्र अवधिपञ्चमी न विवक्षिता । तथासति यत्तदिति पदद्वयवैयर्थ्यात् । एतेन
पदद्वयेन पूर्वे यत्प्रस्तुतं परंब्रह्म ईशरूपं तदेव अरूपमनामयं य एतद्विदुरमृतास्ते भवन्ति’ इतीशज्ञानस्यैव मुक्तिहे तुत्वं उपसंह्रियते । तत इति हेतुपञ्चमी अरूपमनामयं इत्यनेन निर्विशेषस्यप्रतीतिरिति न भ्रमितव्यम् । ‘विश्वस्य स्रष्टारं
तमनेकरूपम् ’ (४.१४) स्रष्टारमनेकरूपं विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशै: ’ (५.११) इत्यत्र अनेक
रूपविशिष्टज्ञानस्य मुक्तिहेतुत्वोक्तिविरोधात् । किंतु ‘सविश्वरूपः ’ ’ प्राणाधिपस्सञ्चरति स्वकर्मभिः ’ (५.७) कर्मानुगान्य नुक्रमेण देहीस्थानेषु रूपाण्यभिसंपद्यते (५.११) इत्यत्र जीवस्य कर्ममूलकरूपस्य प्रतिपादनेन अरूपमित्यस्य कर्ममूलक रूपन्यमित्येवार्थः ॥
एतेन गुरुचन्द्रिकायां - एतत्प्रघट्टकस्य दृश्यमिथ्यात्वरूपत्वं प्रतिज्ञाय ’ अत्रहि तमेवेत्यादिना स्वान्याविषयक ज्ञानस्य मुक्तिहेतुत्वमुक्त्वा जीवेशभेदादिज्ञानं मुक्ति हेतुरिति मताभासेन विरोधानेरासाय यस्मादित्यादिकमुक्तम् । परमिति तुशब्द समानार्थकं, यस्मादपरंतु नास्ति, परशब्देन अपरज्ञानस्य मुक्तिहेतत्वव्यवच्छेदः । ’ जीवोऽणुः ईशो महान् ’ इति तयो
रखण्डैक्यज्ञानं न मोक्षहेतुरिति कथमुक्तमतविरोधो नेति भ्रान्ति निरस्यति ‘यस्मान्नाणीयो–कश्चिदिति । किंचिदपि
वस्तुस्वरूपं यस्मादात्मनो न ज्यायो न वाऽणीयोऽस्ति । यदात्मस्वरूपं मुमुक्षुभिज्ञेयं तस्य ज्यायस्त्वमणीयस्त्वं वा औषा धिकं न स्वाभाविकमिति तस्मादणुज्यायो वा वस्तुतो नास्तीति भावः । ईशज्ञानादेव मोक्ष इति पाशुपतादयस्तन्निरस्यति
वृक्षइवेत्यादि । ततः ईश्वररूपात् यदुत्तरतरमधिष्ठानतया आनन्दघनसपतया च श्रेष्ठतरम्’ इति यदुक्तं तदभिनिवेश
मूलकमेत्र। परभित्यस्य तु इत्यर्थवर्णन मप्रसिद्धत्वादनादरणीयम् | अणुचव्यायस्त्वयोरुभयोरप्यौपाधिका कपनमपि ‘अर्भ
कौकस्त्वात् ’ इत्यादिना सूत्रकार एव निरासिष्यति ज्यायस्त्वं स्वाभाविकं, अणुत्वमौपाधिकमितिर्हि तत्र व्यवस्थाप्यते । ।
,
‘ तमेव विदित्वा’ इत्यत्र तच्छब्देन प्रकारतया उपस्थापितधर्माणां वेदनयोगव्यवच्छेदकत्वं एवकारस्य व्युत्पत्तिविरुद्धम् ।
विद्यारण्यब्रह्मानन्दपक्षद्वयेऽपि ’ यस्मादपरं नास्ति’ इत्येतावतैव आत्माऽन्यनिषेधेन सर्वनिषेघोपपत्तौ परमित्यस्य वैयर्थ्य ।
।
मेव पूर्वमीशस्यैव प्रस्तुतत्वेन तत्र व्यापकत्वादिधर्माणामेवोत्तया ततो यदुत्तरतरमित्यत्र पूर्वमनुपस्थिताधिष्ठानत्वपुर स्कारेण उत्तरतरत्वोक्तिरपि न घटते ‘ अनेन सर्वगतत्वमायामशब्दादिभ्यः ’ इति पराधिकरणान्तिमसूत्रे परैरपि आया
मशब्दो व्याप्तिवचनः शब्दः इत्युक्त्या व्याप्तेः (श्वे.) उपनिषदि बहुत्राभ्यासेन सर्वव्यापकेश एव एतप्रघट्टके विवक्षित ।
इत्यन्तिमसूत्रमपि सिद्धान्त एवानुकूलम् । नतु ‘व्याप्यव्यापकता मिथ्या’ अपरोक्षानुभूतौ ४६ इति वदतां परेषांमते अतश्च ईशस्यापरब्रह्मत्वं निर्विशेषस्य परब्रह्मत्वं अपरब्रह्मविषया गतिः इत्यादीनां निरसनमेवात्र सूत्रकृतो विवक्षितम्। एतेन पर स्यैव प्राप्यत्वाङ्गीकार एव अर्चिरादिगतिद्वारा अपुनरावृत्तिश्रुतिः स्वरसत : उपपद्यते नतु क्रममुक्तिपक्ष इत्यपि सिद्धम् ॥
एवं पराधिकरणसिद्धान्ताङ्गीकारेण ‘एतद्वै सत्यकाम परंचापरं च ब्रह्म’ इति प्रश्नश्रुतौ परब्रह्म सविशेषमेवेति स्थापितं भवति । अयमर्थ: ’ परं पुरुषमभिध्यायीत ’ ’ परात्परं पुरिशयं पुरुषमीक्षते’ इत्युभयत्र परशब्दप्रयोगेण ध्यान
तत्फलयोरुभयोः परपुरुष एव विषयः सोऽपि पुरिशयमित्यनेन सर्वशरीरीति प्रतिपादनेन प्रश्नोपनिषद्येव दृढी
५ घ
शेमुषी भक्तिरूपेत्येतत्तात्पर्यवर्णनम्
श्रीभाष्यम्
शेमुषी भक्तिरूपा ॥ श्रुतप्रकाशिका
पशुशब्दस्य छागपर्यवसायित्वनिर्णयात्, सामान्य वाचिपदानां विशेषवाचिपदेसति तत्पर्यवसायित्वात्,सह्मात्मादि सामान्य |
शब्दानां नारायण एव विशेषे पर्यवसानं सूचितम् * रूढिशक्त्या त्रिमूर्तिसाम्यं तदैक्यं * ब्रह्मणस्तदुत्तीर्णत्वं च निषि द्धम् | ईश्वर एव ब्रह्म, स त्रिमूर्त्यतिरिक्तः सदाशिवः, ब्रह्मादयस्त्रयोऽप्यनीश्वरा इति पक्षश्च व्युदस्तः । परस्मिन्निति परमतस्सेतून्मान’ इत्यधिकरणार्थसूचनम् । तेनोपायान्तरव्यावृत्तिः । ‘ब्रह्मविदाप्नोति परम्’ इत्यत्र प्राप्यस्य पर
शब्देनाभिधानात् । यद्वा कारणत्वशङ्कितदोषव्युदासाय, ‘न स्थानतोऽपि परस्य ’ इत्यधिकरणसिद्धं शोधकवाक्योक्त मुभयलिङ्गतया वैलक्षण्यं सूचितम् । अथोपायोपेयात्म के प्रतिपाये विनतपदसू नितमुपायस्वरूपं वदति- शेमुषीति । अयं सामान्यशब्दः, भक्तिरूपेति विशेषशब्दः । अत्रापि ’ छागो वा मन्त्रवर्णात् ’ इति न्यायोऽभिप्रेतः । शेमुषीशब्दोपा दानेन ज्ञानकर्मसमुच्चयव्यावृत्तिः । भक्तिरूपेति वाक्यार्थज्ञानव्यावृत्तिः ॥ शुद्धभावं गतो भक्त्या शास्त्राद्वेद्मि जनार्दनम् । 6
भक्त्या त्वनन्यया शक्यः’ ’ ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च ’ इत्युक्तप्रकारेण ज्ञानदर्शनप्राप्तिसाधनभूता भक्ति
रण्यत्र विवक्षिता, अविशेषेण भक्तिरूपा इत्युक्तत्वात् । ‘अहमस्म्यपराधानामालयः’ इत्यायुक्तप्रकारेण स्वात्मान मनुसन्धायाह-ममेति भवत्विति भक्तरेव स्वादुतर्मतया प्रार्थनीयता सूचिता यद्वा नहि भक्तिस्सर्वेभ्योऽपि स्वदत ।
। ।
इत्यत्राह – ममेति मम प्रतिबन्धक पापरहितस्य शान्तपित्तस्यहि क्षीरस्वादुतमताबुद्धिरिति भावः । रक्षैकदक्षेि परस्मिन् गुढार्थसङ्ग्रहः
कृत: एवमङ्गीकार एव ’ तंत्वौपनिदं पुरुषम् ’ विज्ञानमानन्दं ब्रह्म रातिर्दातुःपरायणं तिष्ठमानस्य तद्विदः’ इत्यु 6
6
क्तिस्सङ्गच्छते । अत्र सविशेषस्यैव प्रापकस्योपनिषत्तात्पर्यविषयत्वकथनेन निर्विशेषस्य प्राप्यत्वं नास्तीति स्फुटं निर्मल्स
राणाम् | अपरमुक्तिहेतुत्वमेव सविशेषस्य तच्चादृष्टद्वारकम् परमुक्तिस्तु निर्विशेषज्ञान फलभूता नादृष्टद्वारिकेति परे बदन्ति ।
सोऽप्यर्थः एतच्छ्रतिविरुद्ध इति ‘फलमतउपपत्ते: ’ इत्युत्तराधिकरणे व्यवस्थापयिष्यते । अत्र श्रुतौ ‘रातिर्दातुःपरा
यणं तिष्ठमानस्य तद्विदः’ इत्यत्र कर्मफलविद्याफलहेतुत्वयोरुभयोः ‘परायणम्’ इत्यत्रैक विधत्वप्रतीत्या उभयोःफल्योः कर्मविद्यामूलकपरमात्मसङ्कल्पहेतुकत्वमेवाविशेषेण प्रतिपादितम् । अयमेवार्थः फलाधिकरणश्रीभाष्यादौ अपूर्वनिरसन मुखेन सिद्धान्तितः । अधिकं भावप्रकाशे ( २– ३.संपुटयो :) निरूपितं तत्रैव द्रष्टव्यम् । अतः परस्मिन् ब्रह्मणि इत्यत्र जन्माद्यस्य यत’ इति सूत्रे जगत्कारणत्वेनोक्तं ब्रह्मैव परं ब्रह्म, तदेव मुक्तिप्रदं मुक्तप्राप्यं चेति विवक्षितम् । राजकुमार 6
नयश्च कुमारस्य राजप्राप्तिपक्ष एव स्वरसः । प्राप्तिश्च गतिद्वारा देशविशेषावच्छेद नैव । एवमङ्गीकार एव गत्यपुनरावृत्तिश्रुत्यै करस्यम् । नतु निर्विशेषबादिसंमतक्रममुक्तिपक्षे । अतश्च परं ब्रह्म सविशेषमेवेति श्रुतिसूत्रसिद्धान्तः युक्त इति दिक् ॥
वेदार्थसंग्रहे—’ निरतिशयपुण्यसंचयक्षीणाशेप जन्मोपचितपापराशेः परमपुरुषचरणारविन्द शरणागति जनिततदाभि
मुख्यस्य ’ इति प्रोक्तमर्थद्वयं ममेत्यत्र विवक्षितमिति श्रुतप्रकाशिकायां स्फुटम् । शेमुषी भक्तिरूपा इत्यनेन भक्त्यन न्तरकालिकज्ञ।नमेव निर्विशेषविषयकं मुक्तिहेतुः।, प्रेमलक्षणा, भक्तिर्द्विविधइतिा सगुणेवेदार्थसंग्रहान्ते प्रेमलक्षणा नसाधितम् िर्गुणे ज्ञा।न भक्ति: प्रीतिःज्ञानलक्षणाचेति साच ज्ञानान्नातिरिच्यत लक्षणा इति परे गीताऽर्थकथनावसरे वदन्ति 5
३३
भक्तेः फलत्वं साधनत्वे द्वितीयश्लोकांवतरणं च
[ जिशांसा १-१-१
श्रीभाष्यम् पाराशर्येति
श्रुतप्रकाशिका इत्यन्तैः सप्तम्यन्तै:पदैरुपेयभूत एव सिद्धोपाय उक्तः । भक्तिरूपेति साध्योपायः । अत्र श्लोके शास्त्रप्रतिपाद्यैकदेशभूतः परपक्षप्रतिक्षेपश्चार्थात्सूचितो भवति । जन्मस्थेमभङ्गादिशब्देन युगपत्सर्गादिकमनभ्युपगच्छन्तो भानुप्राभाकरा व्यावर्तिताः
लीलाशब्देन साक्षिमात्रेश्वरहैरण्यगर्भव्युदासः । विनतत्यादिपदेन जीवानां परस्परं ब्रह्मणा चाभेदमभ्युपयन्तो ब्रह्माज्ञान
वादिनोऽपास्ताः । श्रुतिशिरसीत्यनेन वेदबाह्यचार्वाकचौद्धार्हत निरासः तेनैव पदेन आनुमानिकेश्वरवादिनो व्युदस्ताः |
ब्रह्मणीत्यने नाब्रह्मात्मकप्रधान परमाणु कारणबादि साङ्ख्यवैशेषिकादिव्युदासः । श्रीनिवासशब्देन पाशुपतादिव्युदासः । अने नैवेश्वरोत्तीर्णब्रह्मवादिनो भेदाभेदवादिनो व्युदस्ता: । शेमुषीशब्देन ज्ञानकर्मसमुच्चयोपायवादिव्युदासः । भक्तिरूपेति बाक्यार्थज्ञानमात्रोपायवादिव्युदास इत्येवमनुसन्धेयः ॥
श्रुतेरेवोपायोपेयावगतौ सत्यां किं भवतो वक्तव्यमित्यत्राह – पाराशर्येति । प्रथम श्लोके स्वप्रबन्धस्य परमप्रयोजन तथा सिद्धरूपः परमविषयो दर्शित, साध्यरूपं प्रयोजनं च रक्षापदेनातिसंक्षिप्तम् । अथ द्वितीयेन श्लोकेन स्वग्रन्थस्या गूढार्थसङ्ग्रहः
अतश्च द्वैविध्यकल्पनं निरवकाशम् ‘भवतु ’ इत्य ।
।
सगुणनिर्गुणविभाग एव न सम्भवतीति उत्तरत्र निरूपयिष्यते नेन स्वादुतमत्वेन प्रार्थनीयत्वं प्रतिपादितम् ॥
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ ’ (गी. ९.२) इत्यत्र मुक्ति कालानुवृत्तिरपि भक्ते:प्रतिपादिता उक्तं च तद्गीताभाष्ये ‘पवित्रं मत्प्राप्तिविरोध्यशेषकलमपापहम् प्रत्यक्षावगमं अव 6
।
गम्यते इत्यवगमो विषयः प्रत्यक्षभूतोऽवगमो यस्य ज्ञानस्य तत्प्रत्यक्षावगमम् । भक्तिरूपोपासनेनोपास्यमानोऽहं तदानी-
मेबोपासितुः प्रत्यक्षतामुपगतो भवामीत्यर्थः । अथापि धर्म्यं धमादनपतं धर्मत्वंहि निश्श्रेयससाधनत्वं, स्वरूपेणैवात्यर्थ प्रियत्वेन तदानीमेव मद्दर्शनापादनतयाच स्वयं निश्श्रेयसरूपमपि निरतिशयनिश्श्रेयसरूपात्यन्तिकमत्प्राप्तिसाधनमित्यर्थः ।
अतएव सुसुखं कर्तुं सुसुखोपादानं अत्यर्थप्रियत्वेनोपादेयम् । अव्ययमक्षयं मप्राप्ति साधयत्वाऽपि स्वयं न क्षीयते । एवंरूप मुपासनं कुर्वतः मध्प्रदाने कृतेऽपि न किंचित्कृतं मया अस्येति में प्रतिभातीत्यर्थः’ इत्यभिहितम् । अत्र मुक्तिकालानु वृत्तेः भक्तौ प्रतिपादनेन प्रपन्नेनापि फलतया प्रार्थनीयत्वं युक्तम् । उपासकस्यतु फलतया फलसाघनतया च प्रार्थनीयत्वं सङ्गतं भवति ॥
प्रथमश्लोके श्रुतिशिरसि विदीप्ते इत्यादिना सविशेषस्यैवोपनिषत्तात्पर्याविषयन्वं यदुक्तं तन्नघटते । विष्णुपुराणे
बहुत्र अद्वैतस्यैव उपनिषत्तात्पर्यविषयत्वसाधनात् । तत्रचाद्वैतशब्दाः बहवः वर्तन्ते, तत्पुत्रस्य व्यासस्यापीदमेवाभिप्रेतं निर्बिशेषपरत्वमेव वेदान्तानामिति इति मन् परस्मिन् पूरुषे भक्तिभूमा इत्यत्र भक्तिभूम्नः प्रतिपादनेन
भवतु मम परस्मिन् शेमुषी भक्तिरूपा इत्यत्र तदकथनेन न्यूनताभ्रममप्यपाकुर्वन् वृत्तिकारसंमतार्थस्य उपनिष त्तात्पर्यविरुद्धत्वमपि व्युदस्यन् सांप्रदायिकत्वमपि सूचयन् ब्रह्मसूत्राणामेव बेदान्तदर्शनत्वेन अन्वहं तदर्थानुसंधानमेव
कार्यमित्याह –पाराशर्येति । ऋषिवचनैरेव उपबृंहणभूतैः वेदान्तार्थनिर्णयः इति इतिहासपुराणाभ्यां वेदं समुपबृंह 6
६ क
पाराशर्यशब्दतात्पर्य विष्णुपुराणस्य सविशेषपरत्वं व श्रुतप्रकाशिका
वान्तरविषयः परम्परया ब्रह्मविषयत्वं स्वप्रबन्धंप्रति सभ्यज्ज्ञानस्याव्यवहितावान्तरप्रयोजनत्वं, परम्परया मुक्ते: परमप्रयो
जनवं स्वव्याख्येयस्य प्रमाणमूलताकथनेन व्याख्येयान्तराणामप्रमाणमूलकता, स्वव्याख्येयविषयभाष्यान्तरव्यावृत्त्यर्थं स्वोक्तप्रबन्धस्य सांप्रदायिकत्वमित्यादि श्रौतमुच्यते । स्तुत्यात्मकगुरूपासन रूपमङ्गलाचारश्चार्थतःक्रियते । जायमानंहि पुरुषं यं पश्येन्मधुसूदनः ।
।
‘तद्विद्धि प्रणिपातेन ’ ’ ददामि बुद्धियोगं तम्’ इत्यादिभिराचार्योपसत्तेरपि भगवत्कटाक्षहेतुकत्वावगमात् परदे
वतोपासनानन्तरभावित्वं गुरूपासनस्य युक्तम् । तथा च श्रुति : ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ’ इति । पूर्वैरपि तथाऽऽचरितम् । यथा भगवता वैशम्पायनेन ‘नमस्कृत्य हृषीकेशम् ’ ‘नमो भगवते तस्मै व्यासाय इति । यथा च द्रमिडाचार्यैः ‘नमःप्रवरगुणैकास्पदाय स्थिरत्रसकुलबीजकुम्भभूताय भुवनकोशस्य गोते ब्रह्मण नमो जैमिनये वेदरहस्यसम्पुटनिगूढविष्फारयित्रे न्यायप्रज्वलितचेतसे नमोऽस्त्वाचार्येभ्यः’ इति । पाश्चात्यैश्च 3
SER
‘विशुद्धज्ञानदेहाय ’ ’ अभिवन्द्य गुरूनादौ ’ इति । ‘प्रणम्य हेतुमीश्वरं मुनिं कणादमन्वत: ’ इति । *पाराश र्यशब्देन जन्मोत्कर्षः ‘सहोवाच व्यास:पाराशर्यः’ इति श्रुतिप्रसिद्धेः । तस्यैव बादरायणसंज्ञत्वं विवक्षितम् । यथोक्तं महर्षिणैव-
द्वीपे बदरिकामि बादरायणमच्युतम् । पराशरात्सत्यवती पुत्रं लेभे परन्तपम् ॥ इति यद्यपि ऋष्यन्तरेऽपि बादरायणशब्दप्रयोगः ; तथाऽपि सूत्रकृद्विषयो बादरायणशब्दः पाराशर्यगोचर एव । तथ
च स्कान्दे व्यक्तमुक्तम् गूढार्थसंग्रहः
येत् । विभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति inde ॥’ (महाभारतं ) इत्यत्रोक्तार्थ: सर्वेषामपि संमतः । तत्र च ‘तत्वेन यश्चिदचिदीश्वरतत्स्वभावभोगापवर्गत दुपाय गतीरदार: | सन्दर्शयन्निरमिमीत पुरणारखं तस्मै नमे मुनिवराय पराइराय
"
(स्तो.र) इति स्तोत्र त्ने यामुनमुनिभिः पराशरस्य निर्विशेषे तात्पर्य नास्तीति संग्रहेण प्रदर्शितम् । तदेव तत्पुत्रस्य ब्रह्म सूत्रप्रणेतुः व्यासस्यापीति सूचयति-पाराशर्येत्यनेन । पाराशर्येति गुरुकीर्तनेन ’ यस्य देवे पराभक्तिः यथा देवे तथा
गुरौ । तस्यैते कथिताह्यर्थाः प्रकाशन्ते महात्मनः ॥ ’ (श्वे.) इति श्रुत्युक्तदिशा भक्तिभूमाऽपि प्रदर्शितः । “परान्बाह्य कुदृष्टीन् प्रमाणतर्कशतैराश्शृणातीति पराशरः न तादृशापत्यमतादृवस्यात् इति व्यक्त्यै पाराशर्योक्तिः ’ इति त्रिविधानि तत्त्वटीका ॥ ८
।
6
एतेन ब्रह्मसूत्राणां नयसूत्रत्वं व्यजितम् । सूत्राणि उपदेशसूत्राणि परिभाषासूत्राणि, नयसूत्राणिचीत
ब्रह्मसूत्राणां नयसूत्रत्वं च सर्वैरप्यङ्गीकृतम् । पराशरप्रबन्धे विष्णुपुराणे निर्विशेषाद्वैतं न विवक्षितम्, किंतु सविशेषमेवे
त्युत्तरत्र स्फुटीभविष्यति सविशेषस्यैव श्रुतितात्पर्यविषयत्वं ’ अत्रेदं तत्त्वमि ’ त्यादिना प्रकाशयिष्यते । विष्णुपुराणे उप क्रमोपसंहारयोर्वासुदेवशब्दार्थस्य अन्ते भगवच्छन्दार्थस्य च निरूपणेन ‘सर्वभूताधिवासं च यद्भूतेषु वसत्यपि । सर्वानु ग्राहकत्वेन तदस्म्यहं वासुदेवस्तदस्म्यहं वासुदेवः’ इति श्रुतेः (ब्र.उ) ’ ज्ञःकालकालो गुणी सर्वविद्य ’ इति श्रुतिद्वयम ध्यपतिताया: ‘केवलो निर्गुणश्चेति श्रुतेः ‘पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ’ इति श्रुतेश्चार्थी
निरणायि ‘तवैत्र महिना यने व्याप्तमेतच्चराचरम् ।’ (वि.पु. १.४.२८) ‘व्यासिरैश्वर्यगुणसंसूचिका प्रभो’ (वि.१.१९
७२) इत्यादिना श्वेताश्वतरोपनिषदि बहुधाऽभ्यस्तव्यातेः ‘ देवस्यैष महिमातु लोके येनेदं भ्राम्यते ब्रह्मचक्रम् ‘(श्वे.६.१) ३५
‘ उपनिषहुग्धान्धि ’ इत्यादेरर्थः
[ जिज्ञासा १ १ १
श्रीभाष्यम्
वचस्सुधामुपनिषद् ग्धाब्धिमध्योद्घृताम् श्रुतप्रकाशिका
नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् । किञ्चित्तदन्यथाभूतं त्रेतायां द्वापरे खिलम् ॥ गौतमस्य ऋषेशापाज्ज्ञानेत्वज्ञानतांगते । सङ्कीर्णबुद्धयो देवा ब्रह्मरुद्रपुरस्सराः ॥
|
शरण्यं शरणं जग्मुर्नारायणमनामयम् तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः ॥ अवतीर्णो महायोगी सत्यवत्यां पराशरात् । उत्सन्नान् भगवान्वेदानुज्जहार हरिस्स्वयम् ॥
चतुर्धा व्यभजत्तांश्च चतुर्विंशतिधा पुनः । शतधाचैकथा चैव तथैव च सहस्रधा ॥ कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये | चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा ॥
अल्पाक्षरमसन्दिग्धं सारवाद्वश्वतो मुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥
|
निर्विशेषितसूत्रत्वं ब्रह्मसूत्रस्यचाप्यतः सविशेषाणि सूत्राणि ह्यपराणि विदो विदुः ॥
मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः । इति वेदविदः प्राहुश्शब्दतत्त्वार्थवेदिनः ॥ एवंविधानि सूत्राणि कृत्वा व्यासो महायशाः । ब्रह्मरुद्रादिदेवेषु मनुष्यापितृपक्षषु ॥ ज्ञानं संस्थाप्य भगवान् क्रीडते परमेश्वरः ।
इत्यादिना। वचस्सुधां * बचश्शब्दस्यार्थे तात्पर्य, यथा वेदविच्छास्त्रविदित्यादँ। वेदादिशब्दानां अर्थाभिधायकं
हि वाक्यम् वचसस्सुधामिति केचिदाचार्याः । रूपकप्रकरणात्सुधाशब्दलक्षणाभवाच्च सुधैव वचइति ‘उपमितं व्या ब्रादिभिः’ इत्यादिना समासमपर आचार्या आद्रियन्ते सुधाशब्देन भोग्यत्वमभिप्रेतम् । एवमवान्तरविषय उक्तः | ।
तर्हि कथं ब्रह्मणो विषयत्वमिति शङ्कायां सद्वारकं ब्रह्मणो विषय बमियाह-उपनिपदिति । ‘ब्रह्मण्युपनिषण्णेत्युप निपत्, उपनिषण्णत्वाद्वोपनिषत् ’ इतिहि वाक्यम् । ‘गहनेहीयं विद्या सन्निविष्ठा’ इति तद्विषयं द्रमिडभाप्यम्, गहने ब्रह्मण्युपनिषण्णा’ इति भाग्यविषया वामनटीका | अद्वारकभगवत्प्रतिपादकत्वमुपनिषण्णत्वम् । दुग्धशब्देन पूर्व भागादप्युपनिषदस्सारत्वं विवक्षितम् | यथा— आरण्यकं च वेदेश्य ओषधीभ्यो यथाऽमृतम् । गूढार्थसंग्रहः
इत्यादिश्रुतितात्पर्य च व्यक्तीकृतम् । ईश्वरस्सर्वभूतानां – मायया’ इत्यादिगीतावन्चनं च तदनुगुणम् सर्विशेषस्य भगबच्छब्दवाच्यस्य वासुदेवस्यैव परब्रहात्वम् | उपक्रमोपसंहारयोः तस्यैव मुक्तिफलदत्वं अस्त्रभूषणादिविशिष्टदिव्यमङ्गळ विग्रहविशिष्टत्वं चतुर्विंशतितत्त्वानां मिथ्यात्वं नास्तीति व्यञ्जनाय अस्त्रभूषणादीनां चतुर्विंशतितत्त्वाभिमानित्वंउक्तार्थानां नित्यस् ।
(
रिदृश्यत्वं प्रकृतिमण्डलादूर्ध्वस्थानस्यैव मुक्तिस्थानत्वं इत्यादयो बहवो विषयाः विष्णुपुराणे निरूपिताः |
सर्वेषामुपनिषद्विरुद्धत्वभ्रमं निरस्यति उपनिषद्ग्धाब्धिमध्योद्घृतामिति । तंत्वौपनिषदं पुरुषम् ‘विज्ञानमानदं ब्रह्म रातिर्दातुः परायणं तिष्ठमानस्य तद्विदः’ इत्यादौ सविशेषस्यैवोपनिषत्तात्पर्यविषयत्वमभिप्रेतमिति उत्तरत्र निरूपयिष्यते एवं ‘आनन्दमयोऽभ्यासात् ’ ’ अन्तस्तद्धर्मोपदेशात् ’ ’ ज्योतिश्चरणाभिधानात् ' ' न वक्तुरात्मोपदेशादितिचे छान्दोग्य कौषीत कीबृहदारण्यकश्रुतिषु सर्वि
दध्यात्मसम्बन्धभूमाह्यस्मिन् ’ इत्यादौ विषयवाक्यतयोदाहरिष्यमाणासु तैत्तिरीय ३६
’ व्यपगतप्राणात्म’ इत्याद्यर्थविवेचनम्
७क
श्रीभाष्यम्
संसारानिविदीपनव्यपगतप्राणात्मसञ्जीविनीम् । श्रुतप्रकाशिका
।
अब्धिशब्देनालोचितानामुपनिषदामानन्त्यादिसू चितम् मध्यशब्देन सर्ववाक्यानां मुख्यार्थापरित्यागोऽभिप्रेतः । मध्यस्य सर्वपर्यन्तदेशापेक्षया तुल्याह्यासत्तिः । उद्धृत शब्देनातिनि प्रदेशनिमग्ने ग्रहणमप्यभिदधता निश्शेषार्थग्रहणं सूक्ष्यते स्वप्रबन्धस्यावान्तरविषयः पाराशर्यसूत्रम् तस्यावान्तरविषय उपनिषत् तद्विषयभूतं ब्रहोति परम्परया ब्रह्मणः प्रतिपाद्य त्वम् । बादरायणसूत्राणामुपनिषन्मूलत्वकथनेन साङ्ख्यादि ग्रन्थानामप्रमाणमूलत्वात्तदनादरेणैतद्व्याख्यानमिति सूचितम् । प्रगाड्या शास्त्रजन्यं परमप्रयोजनमाह — संसारेति । संसाराग्निशब्देन संसारस्य कार्येन तापत्रयरूपता विवक्षिता । यथा
3
स्वर्गेऽपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः ।
इति दीपनशब्देनासङ्कोचात्सदाऽभिज्वलनवाचिना विद्यालब्धेः पूर्व कदाऽप्यनिर्वाच्यत्वमभिप्रेतम् । वैविध्य माध्यामिका दिरूपेण तेषु त्रिष्वेकैकस्यापि शारीरमानसादिरूपेण च । आत्मनां प्राणः परमात्मा । सर्वाणि हवा इमानि भूतानि
प्राणमेवाभिसंविशन्ति, कोह्येवान्यात्क:प्राण्यात् इत्यादिश्रुतेः । गतशब्देन तदलामः, उपसर्गाभ्यां तस्यानादित्वं
विविधत्वं च विवक्षितम् | ज्ञानदर्शनप्राप्तिष्वन्यतमस्याप्यभावादलाभस्य वैविध्यम् | सञ्जीविनीमिति ॥ गूढार्थसंग्रहः
शेषस्यैवोपनिषत्तात्पर्ये नतु निर्विशेषस्येत्युत्तरत्र व्यक्तीभविष्यति । सविशेषस्योपनिषत्तात्पर्यविषयत्व एव चेतनानां मुक्ति
फलसम्भवः, नत्वन्यथा इत्यभिप्रेत्याह– संसाराग्निविदीपनेत्यादिना । ‘ब्रह्मविदाप्नोति परम्’ इत्येतद्विशदीकरण
परे ‘ रसो वै स:, रसग्गृह्येवायं लब्ध्वाऽऽनन्दी भवति कोह्येवान्यात्क:प्राण्यात्, यदेष आकाश आनन्दो न स्यात् एषह्ये
वानन्दयाति ’ इत्यत्र प्राणनं ब्रह्मप्राप्तिरूपमोक्षात्मकं विवक्षितम् । प्राणः परमात्मा प्राणाधिकरणादौ च प्राणशब्दस्य पर मात्मपरत्वं सूत्रकृतैव स्पष्टीकरिष्यते ॥
‘ असन्नवसभवति असद्ब्रह्मेति वेद चेत् अस्ति ब्रहोतिचेद्वेद सन्तमेनं ततो विदुः’ (तै) ‘इह चेदवेदीदथ सत्यमस्ति नचेदिहावेदीन्महती विनष्टिः’ केनोपनिषत् इत्यादिश्रुतिपर्यालोचनायां परमात्मज्ञानाभावे व्यपगतप्राणत्वमात्मनां युक्तम् । लोके प्राणवायुवियोगे मरणव्यवहारः | सच जीवविश्लेषानन्तरकालिक इति तत्रैव पर्यवसानस्य मुक्तीतरसुखविरहाभिप्रायेण संभव वत् मुक्तिसुखविरहतात्पर्येण मुक्तियोग्यत्वाभावमभिप्रेत्य परमात्मज्ञानाभावे श्रुतिषु विनाशोक्तिः । राजपुत्रस्य अतिशय
सुखानुभवयोग्यस्य व्याधगृहसत्तादशायां राजपुत्रत्व प्रतीतिविरहेण अतिशयितसुखानुभव योग्यत्वप्रतीतिवत् परमाम् ज्ञान वि
रहदशात्रामपि जीवानामतिशयितसुखानुभवयोग्यत्वाप्रतिपत्तिमभिप्रेत्य व्यपगतप्राणवेन व्यपदेशः । ब्रहणः द्वितीय सूत्रे जगत्कारणत्वलक्षणकथनेन राजकुमारनय सूचनेन आनन्दमयाधिकरणे ‘तद्धेतुव्यपदेशाच’ इत्यत्र एतन्छतिरि उब्रह्मा
प्राप्तिहेतुत्वप्रतिपादनपूर्वकं उत्तराधिकरणेषु देशविशेषावच्छेदेन तत्प्राप्तिर्व्यवस्थापयिष्यत इति तःप्राप्तिहेतृभूत् मुत्ति हेदज्ञान मूलभूतज्ञानं ब्रह्ममीमांसासाध्यमिति व्यपगतप्राणात्मसंजीविनीम् इत्यत्र विवक्षितम् । समित्यनॆन — अस्माच्छरीरासमु त्थाय परंज्योतिरुपसंपद्य स्वेन रूपेणामिनिष्पद्यते’ इति श्रुत्युक्तसंपत्तिः बोध्यते इदं च पञ्चाग्निविद्यानिष्ठानां कैवल्या
।
नुभवदशायां नास्ति । त्वस्वरूपाविर्भावः परमसाम्यं चेत्यादिकं परज्योतिरुपसंपत्तिकालानन्तरमेव ॥
‘पूर्वाचार्य सुरक्षिताम् ’ ’ आनीवांद निक्षारैः’ इत्युमपार्थः
[जिज्ञासा १ १ १
श्रीभाष्यम्
पूर्वाचार्यसुरक्षितां बहुमतिव्याघातदूरस्थिताम् आनीतां तु निजाक्षरैः श्रुतप्रकाशिका
।
जीवनं उज्जीवनं संसारोन्मोचनम् । समिति कैवल्यव्यावृत्तिः । अथ सांप्रदायिकत्वमाह पूर्वाचार्येति । पूर्वशब्देन शङ्करायर्वाचीन व्यावृत्तिः । सुरक्षितां नोपदेशमात्रेण ग्रन्थरूपेणचेतिभावः । पूर्वाचार्यग्रन्थैरर्थस्वरूप प्रतिपन्नंचेत् किं भवतःकृत्यमित्यत्राह-बहुमतिव्याघातेति बहुचो मतयो बहूनां मतयो वा, तासां परस्परव्याघातेन ताभिस्समीची
नार्थव्याघातेन च अर्वाचीन जनै र्दुखगाहन्त्वमाह–दूरस्थितामिति । न यथावदप्रतीतिमात्रं, अन्यथा च प्रतिपत्तिरासी दिति भावः । सूत्राद्यवान्तरविषयस्य विषयी स्वग्रन्थ इति न पूर्व कण्टोतं, तदाह - आनीतामिति । सुधापक्षे निजा ।
गूढार्थसंग्रहः
सविशेषस्य उपनिषत्तात्पर्यविषयत्वेन ब्रह्मसूत्रेध्वभिप्रेतत्वे वाक्यकारादि संप्रदायविरोधशङ्कामपाकरोति पूर्वाचार्य सुरक्षितामिति । ‘सिद्धंतु निवर्तकत्वात् न संव्यवहारमात्रत्वात् ’ इत्यादीनि माण्डूक्यभाष्य इष्टसिद्धि विवरण संक्षे पशारीकाद्यभिप्रेतानि परेषां नानुकूलानीति यथाऽवसरं निरूपयिष्यते । द्रमिडाचार्याभिमतराजकुमारनयोऽपि सविशेषस्य परब्रह्मत्व एव स्वरसः । उपनिषदां ब्रह्मसूत्राणां च सविशेषपरत्वस्य वृत्तिकारसम्मतस्य वाक्यकारादिसंप्रदायविरोधः उप
निषद्युक्तिविरोधश्च यः परैरुद्भावितः तस्य नावसर इत्यभिप्रेत्याह- बहुमतिव्याघातदूरस्थितामिति । मण्डनमिश्रेण विवर्तवादिना ‘तच्चमसीत्यादिवाक्यजन्यं ज्ञानं संसर्गविषयकमेव’ इति, वाचस्पतिना ’ वृत्त्युपहितविषयकमेव ’ इति उभाभ्यामपि मानससाक्षात्कारवाविद्यानिवर्तक इति पद्मपाद प्रकाशात्मयत्यादिभिः उपनिषद्वाक्यैः साक्षात्कारात्मकं संसर्गा नवग!हिज्ञानं अविद्यानिवर्तकमित्यादिबहुमतीनां व्याघातः परमते, सिद्धान्तेतु तन्नास्तीति वाऽन्त्र विवक्षितम् ॥
आनीतांतु निजाक्षरैरिति । तस्वटीकायां ‘सूत्राक्षरै: ’ इति प्रथमं व्याख्याय ‘यद्वा गायत्र्यभिमानिसुपर्णानी
ताबा: सोमलतारूपेण परिणतायाः एकाहायुपयुक्तायाः भौमा: सुमनसः प्रतिसमयं भोक्तारः, वचोरूपायास्तु ’ ब्राह्मणा
त्रिविदिषन्ति ’ इतिवत् चोदनानर्हव्यावृत्ताः ‘सारासारविवेकज्ञाः’ इत्यादिना स्वेनैवान्यत्रोक्ताः । एतेन ब्रह्मविद्यासं ,
प्रदानमपि शिक्ष्यते श्रुतंह्येतच्छान्दोग्ये ’ इदं वाव तज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात् प्रणाय्यायवाऽन्तेवासिने नान्यस्मै
कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णो दद्यादेतदेव ततो भूयः’ इति इत्यनन्तरमुक्तम् । श्रुतप्रकाशि कायामपि -’ निजाक्षरै: गायत्र्यवयवभूतैर मृताक्षरैरिति यावत् । अतो ममाक्षरैरित्यनुक्तिः’ इत्यभिहितम् ॥ "
गायत्र्या जगती त्रिष्टुप्सम्बन्थ्यक्षरचतुष्कस्य सोमलग्नस्य सोमस्य च सहैव नीततायास्ततः परमेव तादृशाक्षरचतु
हेग योगात्प्रथमं चतुरक्षराया अपि गायत्र्या अष्टाक्षरत्वसम्पत्तेश्वाम्नानात् । तथा च तैत्तिरीयसंहितायाः ष ्ठे काण्डे प्रथ
मप्रपाठकस्य षनेऽनुबाके ‘ कद्र्श्च वै सुपर्णी चात्मरूपयोरस्पर्धेतां सा कद्दूस्सुपर्णीमजयत्साब्रवीत्तृतीयस्यामितो दिवि सोम स्तमाहर तेनात्मानं निष्क्रीणीष्वेतीयं वै कद्दूरसी सुपर्णी छन्दागूँसि सौपर्णेयास्साब्रवीद स्मै वै पितरौ पुत्रान्त्रिभृतस्तृतीयस्या मितो दिवि सोमस्तमाहर तेनात्मानं निष्कोणी चेति मा कट्टरवोचदिति जगत्युदपतच्चतुर्दशाक्षरा सती साऽप्राप्यन्यवर्तत तस्यै द्वे अक्षरे अमीयतां सा पशुभिश्च दीक्षया चागच्छत्तस्माजगती छन्दसां पशव्यतमा तस्मात्पशुमन्तं दीक्षोपनमति त्रिष्टु
बुदपतत्त्रयोदशाक्षरा सती साऽप्राप्यन्यवर्तत तस्यै द्वे अक्षरे अमीयेतां सा दक्षिणाभिश्च तपसा चागच्छत्तस्मात्त्रिष्टुभो लोके माध्यन्दिने सवने दक्षिणा नीयन्त एतत्खलु वात्र तप इत्याहुर्यस्त्वं ददातीति गायत्र्युदपतच्चतुरक्षरा सत्यजया ज्योतिषा
८ के
श्रीभाष्यम्
॥सुमनसो भौमाः पिबन्त्वन्वहम् ॥ श्रुतप्रकाशिका
क्षरैः # गायत्र्यवयवभूतैरमृताक्षरैरिति यावत् । अतो ममाक्षरैरित्यनुक्तिः सुमनसः ‘सारासार विवेकज्ञाः’ इत्या द्युक्ताः । अनेनासदपरिग्रहो न दोषायेत्युक्तं भवति । देवादीनां वृत्तिकारग्रन्थादिभिस्सुगमत्वाद्भौमा इत्युक्तम् । पिब ।
न्त्वन्वहमिति
- रस्यतातिशयान्न तृप्तिकरीति भावः । फलान्तराद्भगवत्प्राप्त्युपाय एव हि स्वादुतमः । यथोक्तम् – गूढार्थसङ्ग्रहः
तमस्या अजाभ्यरुन्धत तदजाया अजात्वं सा सोमं चाहरच्चत्वारि चाक्षराणि साऽष्टाक्षरा समपद्यत ’ इति ॥
अयमत्र भाष्याभिमतोऽर्थसङ्ग्रहः- कद्रुस्सुपर्णीचोभे सपत्न्यौ पराजये दासीत्वमभ्युपेत्य ममैव सौन्दर्य ममैवेत्यस्पर्धेताम्
तत्र मध्यस्थाः कद्रूजयमूचिरे । सा च कद्दूस्सुपण दासीत्वेन परिगृह्य तन्मोचनोपायं स्वयमेवोपदिदेश । इतोऽस्माल्लोका दारभ्य गणनायां तृतीया द्यौः स्वर्गलोकः । तस्मिन् सोमो वर्तते । महर्जनस्तपस्सत्यमित्येतेऽपि लोका युशब्दाभिधेयाः । तस्मादितस्तृतीयस्यामिति विशेष्यते । तस्मिन् सोमे आहृत्य दत्तेसति त्वां मुञ्चामीति । इयं पृथिवी कद्रूः, अतएव सा
स्वयमाहर्तुं न शक्नोति असौ सुपर्णीतु द्युलोकरूपा उत्पतनसमर्थानां गायत्र्यादिरूपाणामपत्यानां सद्भाव।च्च शक्नोति । अथ सा सुपर्णी स्वपुत्राणां गायत्र्यादीनामग्रे स्ववृत्तान्तं स्पष्टीकुर्वती एवमाह । पुत्रानस्मै एतादृशोपद्रवपरित्राणाय मातापितरौ पुष्यतः । मां च कद्रूस्तृतीयस्यामित्यादिकमवोचत् । हे गायत्र्यादिपुत्रा एतत्प्रतिपद्य यदुचितं तत्कुरुध्वम् | गायत्र्यादी नांचैच्छिकशरीरधारित्वात्पुत्रत्वमविरुद्धम् । तत्र प्रथमं प्रौढत्वाच्चतुर्दशाक्षरा जगती प्रवृत्ता द्युलोकं गत्वा स्वानभ्राजा दिभिः सोमरक्षकै; सह युध्वा सोममप्राप्याग्नीषोमीयसवनीयानूबन्धाख्यपशू निष्टिसाध्य दीक्षां च गृहीत्वा स्वकीयाक्षरद्वये वाऽनादिभिर्गृहीतेसति पराजित्य समागता । यस्माज्जगती पशूनानयत्तस्मात्सैवात्यन्तपशुप्रद। । यतः पशुभिस्सह दीक्षाऽऽ-’ नीता । ततः पश्वधिकस्वाधीनसम्पत्तौ सत्यां दीक्षायां प्रवर्तते । एवं ततस्त्रिष्टुप्त्रयोदशाक्षरा गत्वा पराजिताऽक्षरद्वयहीना ।
प्रतिनिवृत्ता दक्षिणाभिस्तपसा च सह । ततो गायत्र्यजाख्यया दीप्तयासह धुलोकं प्रवृत्ता सा च दीप्तिस्तं सोममभितो ।
रुरोध । तस्माद्रोधनपर्यायक्षेपणार्थादजधातोरजेति नाम निष्पन्नम् ततः सा गायत्री सोममप्याहरत् । तत्सम्बद्धमक्षरच तुष्टयमण्याहरत् अतएव सा गायत्र्यष्टाक्षरा समपद्यतेति ॥ यद्यप्यत्र सोमस्यैव लतात्मनो गायत्र्या समाहरणमाम्नातं न सुधाया: सोमपदश्रवणात्सोमक्रयणप्रकरणाच्च । तथा
ऽपि ‘ब्रह्मादयोऽसृजन्पूर्वममृतं सोमसंज्ञितम् । जरामृत्युविनाशाय विधानं तस्य वक्ष्यते ॥’ इत्यादिना सुश्रुतादौ वैद्य केऽमृतस्यैव सोमलतारूपतयाऽवतारोक्तेः महाभारतेऽपि सौपर्णे आदिपर्वणि सोमामृतपदयोर्बहुधापर्यायतया प्रयोगेणामृत्स्य
सर्वच्छन्दोऽभिमानिगरुडानीतत्वोपदेशात्सोमा मृतयोस्तादात्म्यावगमात्सुधायां निजाक्षरानीतत्वं सङ्गतमेव । तथा चादि
।
पर्वणि त्रिंशेऽध्याये -’ महावीर्यबल: पक्षी हतु सोममिहोद्यतः ’ इत्यादि, तत्रैव चतुस्त्रिंशेऽध्याये - ’ एवं तदमृतं तेन दृत माहृतमेव च । द्विजिह्वाश्च कृतास्सर्पा गरुडेन महात्मना ॥ इतीति ध्येयम्’ इति वचस्सुधातवे उक्तम् ।
सुमनसो भौमाः पिबन्त्वन्वहम् इत्युक्ति: स्वादुतमत्वात् गांभीर्याश्चेति पूर्वाचार्यैः व्याख्याता । एवं वदतो भगवतः श्रीभाष्याध्ययनप्रवचनादिकमेव प्रथमतः कर्तव्यम् । एतद्योग्यताऽभावे एव इतरग्रन्थाव्ययनमालयादौ अनुज्ञावै अर्यादिकंवा कार्यमिति शासनं तच्छिष्यसामान्यसम्मतमत्रानुसंधेयम् ॥
८
ख
भगवद्बोधायनेत्यादेरबतरणम्, वृत्तिकारवाक्यकारादेरेक एव सिद्धान्तः नतु परमतवद्भिन्नः [ जिज्ञासा १-१-१ श्रुतप्रकाशिका
क नाकष्ष्ठगमनं पुनरावृत्तिलक्षणम् । क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥ इति । * यद्वा गम्भीरत्वादन्वहं शीलनीयेति भावः ॥
गूढार्थसंग्रहः
परैः अहमर्थाध्यासं प्रसाध्य अस्यानर्थहेतोः प्रहाणाय आमैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरम्यन्ते । यथा " ब्राह्मणो यजेत चायमर्थः वेदान्तानां सर्वेषां तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः’ (शं. भा) इति ।
(
।
इत्यादीन्यपि अभ्यासनिबन्धनान्येव अविद्यावद्विप्रयाणि शास्त्रीयव्यवहारोऽपि अविद्यावद्विषयः ’ इति अध्यासभाध्ये ‘व्यातेश्च समञ्जसम्’ इति सूत्रे ‘चतुर्धा सामान धिकरण्यम् अध्यासे अपवादे विशेष्यविशेषणभावे एकत्वे (अखण्डायें) च’ इति निरूपितम् अत्र ’ सिंहो देवदत्त ’ इत्यत्र भट्टपादानां आरोपनिराकरणं वेदप्रामाण्य संरक्षणार्थमिति तसिद्धिपेटिकायां तत्र प्रत्यक्षमात्मानमौपवर्षा:प्रपेदिरे '
सोमनाथेन ‘व्याप्तेश्च समञ्जसम्’ इति सूत्रे परिमले अप्पय्यदीक्षितेन चाभिहितम् ।
(
इति न्यायमञ्जय जयन्तोक्त्या उपवर्षस्याहमर्थाध्यासो न संमत इति प्रतीयते । अतएव शबरकुमारिलादिभिः अहमर्था ध्यासनिराकरणं सङ्गच्छते । अविद्यावद्विषयत्वेन वेदवाक्यानां प्रवृत्त्यङ्गीकारे वेदप्रामाण्यसंरक्षणमेव न भवतीति मीमां
सकाः अभिप्रयन्तीति सिद्धम् । व्यावहारिपारमार्थिकविभागोऽपि बौद्धाद्यवैदिकसम्मतः । नतु वैदिकस्य कस्यापि,
अतः
वेदवाक्यानां सर्वेषामध्येकविधमेव प्रामाण्यं, नतु प्रामाण्यद्वैविध्यम् । सर्वत्रापि विशेष्यवशेषणभाव सामानाधिकरप्यमे कमेव
इति पूर्वोत्तरमीमांसावृत्तिकाराणां सिद्धान्तः | परिमलोत्तमथ्यासस्थापनं न सम्भवतीति भावप्रकाशे (३.सं) निरूपितम् अद्वैतिविरचिते प्रपञ्चहृदय बोधायनस्य मीमांसासूत्रव्याख्यातृत्वे च भास्करानन्तरकालिकग्रन्थकर्तृनामनिर्देशरहिते
।
नामके प्रबन्धे चतुर्थे उपाङ्गप्रकरणे ‘तस्य विंशत्यव्यायनिबद्धस्य मीमांसाशास्त्रस्य कृतकोटिनामधेयं भाष्यं बोधायनेन कृतं तद्ब्रन्थबाहुल्यभयादुपेक्ष्य किंचित्संक्षिप्तमुपवर्षेण कृतमित्यत्र व्यक्तम् । अत्र केचित् पुलवरपुराणमणिमेखलाप्रभृतिषु द्रमिडभाषा प्रबन्धेषु बोधायनकृतायाः मीमांसावृत्तेः कृत कोटिपदेन निर्देशोऽस्ति । ‘उपवर्षो हलभूतिःकृत कोटिरयान्चित:’ इति त्रिकाण्डशेपे केशबनिघण्टौँ च दृश्यते । इदमेवाभिप्रेत्य ’ गौः इत्यत्र कः शब्दः गकारौकारविसर्जनीयाः इति भगवानुपवर्ष: ’ इति शाबरभाष्यमुपन्यस्य ‘वृत्तिकारस्य बोधायनस्यैव उपवर्ष इति स्यान्नाम ’ इति तत्त्वटीकायामाचार्यपादैरुक्तम् इति वदन्ति । महान्चार्याणामयमाशयः पाराशर्यविजयेतु महाचार्यैः उपवर्षं बोधायनयोर्भेद एवोक्तः । अत्र प्रपञ्चहृदयमेव मूलम् स्पोटनिराकरणस्योपवर्षसं बोधायनबाक्यं प्राचीनैः शाबर शङ्कराचार्यप्रभृतिभिः न वाप्युपात्तम् उपवर्षवाक्यतूपात्तम् । मतत्त्वेन विवर्तवादः उपबर्षस्यासम्मत इति सिद्धयति । अतश्च असत्यासत्यसिद्धिनिराकरणावसरे असत्यात्सत्यसिद्धेः विवर्तवादिसंमतायाः उपवर्षासंमतत्वं सिद्धयतीति उपवर्ष: नतिम्। तेनच विवर्ताद्वैतं सूत्रकारवृत्ति कारानभिमतमिति सामान्यतः सिद्धौ अस्य बोधायनेति नामाङ्गीकारेणाऽपि विवर्तवादस्सूत्रकृतो न सम्मऩ इत्यर्थस्सिद्धय तीत्यभिप्रेत्य संभावनातापर्यंकं तत्त्वटीकावाक्यम् । ‘उपवर्षो हलभूतिः’ इति वाक्यंतु कृतकोटिप्रवर्तकत्वेनाप्युपपद्यते । बोधायनोपवर्षयोरैक्याङ्गीकारे सेश्वरमीमांसायां ‘यत्तूपवर्षवृत्तौ’ इत्याद्युपवर्धवृत्तिखण्डनं कथं युक्तं स्यात् । श्रीभाध्ये बोधायनमतानुसारेण सूत्रार्थो वर्ण्यत इति विश्वसनीयत्वेनोक्तबोधायनवृत्तेः सेश्वरमीमांसायां खण्डनं न युक्तं स्यात् । अतः बोधायनोपवर्षयोः भेदएवेति ॥
पूर्वाचार्या इत्यत्र ‘पूर्वाचार्या ब्रह्मनन्यादयः’ इति तच्चटीका । एतेन पूर्वाचार्यसुरक्षिताम् ।
चार्यशब्दो व्याख्यातः
इत्यत्रापि पूर्वा
अत्र आत्मसिद्धौ ‘ यद्यपि भगवता बादरायणेन इदमर्थान्येव सूत्राणि प्रणीतानि; विवृत 2₂
सूत्रव्याख्याने बीजम्, भाष्य, व्याख्यानयोस्स्वरूपं च
जिज्ञासा १-२-१]
श्रीभाष्यम्
भगवद्वोधायनकृतां विस्तीर्णां ब्रह्मसूत्रवृत्तिं पूर्वाचार्याः संचिक्षिपुः | तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते ॥