मूलम्
कार्यं बादरिरस्य गत्युपपत्तेः।
टीका
कार्यमेव ह्युपासीनान् नयन्त्यत्रातिवाहिकाः । उपपत्या गतेश्चैवं बादरिर्मनुते मुनिः ॥ [514]
मूलम्
विशेषितत्वाच्च।
टीका
प्रजापतेस्सभां वेश्म प्रपद्य इति वाक्यतः । प्रजापतिमुपासीनान्नयन्त्यत्रातिवाहिकाः ॥ [515]
मूलम्
सामीप्यात्तु तद्व्यपदेशः।
टीका
प्रजापतेर्ब्रह्मणश्च सामीप्यात्पितृपुत्रयोः । ब्रह्मशब्देन तस्यैव व्यपदेशस्तु युज्यते ॥ [516]
मूलम्
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात्।
टीका
ब्रह्मलोकात्यये विद्वान् ब्रह्मणा सह तत्परम् । प्राप्नोति ब्रह्म चेत्यादि शंसनाच्च तदुच्यते ॥ [517]
मूलम्
स्मृतेश्च।
टीका
ब्रह्मणा सह ते सर्वे सम्प्राप्तेप्रति सञ्चरे । इति स्मृतेश्च धातारं उपासीनान्नयन्ति हि ॥ [518]
मूलम्
परं जैमिनिर्मुख्यत्वात्।
टीका
परमेव ह्युपासीनान् नयन्त्यत्रातिवाहिकाः । ब्रह्मशब्दस्य तत्रैव मुख्यत्वादिति जैमिनिः ॥ [519]
मूलम्
दर्शनाच्च।
टीका
अर्चिरादिकया गत्या ब्रह्मप्राप्तेश्च दर्शनात् । परं ज्योतिरिति श्रुत्या एतदेव हि युज्यते ॥ [520]
मूलम्
न च कार्ये प्रत्यभिसन्धिः।
टीका
नैव प्रत्यभिसन्धिश्च कार्ये भवति वै यतः । वाक्यशेषपरामर्शाद्बन्धान्मुक्तस्य शंसनात् ॥ [521]
मूलम्
अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश्च।
टीका
प्रतीकालम्बनाद्भिन्नान् नयन्तीत्यातिवाहिकाः । पूर्वत्र दोषान् मनुते तत्क्रतोर्बादरायणः ॥ [522]
मूलम्
विशेषञ्च दर्शयति।
टीका
प्रतीकालम्बनानां तु फलस्याल्पत्व दर्शनात् । यावन्नाम्नो गतमिति तद्भिन्नान् गमयन्त्यतः ॥ [523]