26 आतिवाहिकाधिकरणम्

मूलम्

आतिवाहिकास्तल्लिङ्गात्।

टीका

एतेऽर्चिरादयस्सर्वे देवता(ः) आतिवाहिकाः । गच्छन्तं गमयन्तीति लिङ्गादेव पराज्ञया ॥ [512]

मूलम्

वैद्युतेनैव ततस्तच्छ्रुतेः।

टीका

ततो हि वैद्युतानैव विदुषां तु गतिर्भवेत् । स एनानिति तेनैव ब्रह्मप्राप्ति श्रुतेरिह ॥ [513]