मूलम् अर्चिरादिना तत्प्रथितेः। टीका एकोऽर्चिरादिस्सर्वत्र ह्युच्यते तेन गच्छति । मार्गेणैवेति तस्यैव प्रत्यभिज्ञानतः श्रुतौ ॥ [509]