23 अर्चिराद्यधिकरणम्

मूलम्

अर्चिरादिना तत्प्रथितेः।

टीका

एकोऽर्चिरादिस्सर्वत्र ह्युच्यते तेन गच्छति । मार्गेणैवेति तस्यैव प्रत्यभिज्ञानतः श्रुतौ ॥ [509]