22 दक्षिणायनाधिकरणम्

मूलम्

अतश्चाऽयनेऽपि दक्षिणे।

टीका

पूर्वोक्तहेतोर्विदुषस्त्वयने दक्षिणेऽपि च । मृतस्यापि भवेदेव ब्रह्मप्राप्तिस्तु तत्क्षणात् ॥ [507]

मूलम्

योगिनः प्रति स्मर्येते स्मार्ते चैते।

टीका

शुक्लकृष्णे गती चैते योगिनां सर्वदा पुनः । अनुसन्धान विषयौ स्मर्यते इति निश्चितम् ॥ [508]