मूलम्
समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य।
टीका
नाडीप्रवेश पर्यन्तं समोत्क्रान्तिर्भवेद्द्वयोः । शरीरात्यागतो यस्मात् अमृतत्वं तदुच्यते ॥ [495]
मूलम्
तदापीतेः संसारव्यपदेशात्।
टीका
अत्र ब्रह्मेति वचनात् ध्यानामृतमिहाह हि । सशरीरस्य चाऽऽप्राप्तेः संसारव्यपदेशतः ॥ [496]
मूलम्
सूक्ष्मं प्रमाणतश्च तथोपलब्धेः।
टीका
प्रतिब्रूयादिति श्रुत्या सूक्ष्मदेहोपलब्धितः । संसारबन्धो नाऽदग्धः ध्यानामृतमिहाश्नुते ॥ [497]
मूलम्
नोपमर्देनातः।
टीका
अत्र ब्रह्मेति वचनात् अमृतत्वं तु सर्वथा । बन्धोपमर्दान्नोदेति ध्यानं चामृतमेव हि ॥ [498]
मूलम्
अस्यैव चोपपत्तेरूष्मा।
टीका
सूक्ष्मस्यास्मिन्वर्तमानत्वोपपत्तेश्च तद्गुणः । ऊष्मोपलभ्यते चेति मुक्तस्सूक्ष्मेण गच्छति ॥ [499]
मूलम्
प्रतिषेधादिति चेन्न शारीरात् स्पष्टो ह्येकेषाम् ।
टीका
प्राणोत्क्रान्तिनिषेधाच्चामृतत्वं ह्यत्र चेन्न च । जीवान्निषेधस्स्पष्टो हि शरीरान्न निषेधनम् ॥ [500]
मूलम्
स्मर्यते च।
टीका
ब्रह्मलोकमतिक्रम्य तेन यान्ति परां गतिम् । इति स्मृत्या हि चोत्क्रान्तिः विदुषोऽपि प्रसिध्यति ॥ [501]