मूलम् भूतेषु तच्छ्रुतेः। टीका प्राणश्च जीवसंयुक्तः युक्तस्याद्भूतपञ्चके । सर्वभूतमयत्वं च जीवस्य श्रुतिराह हि ॥ [493] मूलम् नैकस्मिन् दर्शयतो हि। टीका एकस्मिन्प्राणसम्बन्धः तेजसीति न युज्यते । कार्याक्षमत्वादेकस्य त्रिवृत्यरण शंसनात् ॥ [494]