मूलम् वाङ्मनसि दर्शनाच्छब्दाच्च। टीका संयोग एव वाचोऽत्र मनसा न भवेल्लयः । वागभावे मनोवृत्तेः दर्शनाच्छब्दतोऽपि हि ॥ [489] मूलम् अत एव सर्वाँण्यनु। टीका अनुवाचं त्विन्द्रियाणां संपत्तिर्मनसि श्रुतेः । सम्पद्यमानैर्मनसि त्विन्द्रियैरिति शब्दतः ॥ [490]