11 इतरक्षपणाधिकरणम्

मूलम्

भोगेन त्वितरे क्षपयित्वाऽथ सम्पद्यते।

टीका

आरब्धकार्येत्वितरे भोगेनैव विनश्यतः । अद्य कलान्तरे वापीत्यथ ब्रह्म समश्नुते ॥ [488]