मूलम्
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात्।
टीका
अग्निहोत्रादि विदुषा कर्तव्यं यावदायुषम् । विद्याख्यकार्यवृद्यर्थं यज्ञेनेत्यादिदर्शनात् ॥ [485]
मूलम्
अतोऽन्यापि ह्येकेषामुभयोः।
टीका
साधुकृत्यां सुहृद(ः) इत्युभयोः पुण्यकर्मणोः । अन्यापि प्रतिबद्धा च साधुकृत्या भवेदिति ॥ [486]
मूलम्
यदेव विद्ययेति हि।
टीका
यदेव विदियया चेति श्रुत्या तदपि सूच्यते । विद्याविहीनाः क्रतवः प्रतिबद्धफला(ः) इति ॥ [487]