07 तदधिगमाधिकरणम्

मूलम्

तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात्।

टीका

विद्याप्राप्तौ तु तच्छक्त्या ह्यघयोः परपूर्वयोः । न श्लिष्यन्ते प्रधूयन्त इत्यश्लेषविनाशिता ॥ [482]