मूलम्
आसीनस्सम्भवात्।
टीका
आसीनो वेदनं कुर्यात् आसीनस्यैव सम्भवात् । एकाग्रता तु मनसः नान्यथा सम्भवेदिह ॥ [476]
मूलम्
ध्यानाच्च।
टीका
निदिध्यासनशब्देन ध्यानरूपत्व बोधनात् । उपासनस्यापेक्षितं चित्तैकाग्र्यं तु सर्वदा ॥ [477]
मूलम्
अचलत्वं चापेक्ष्य।
टीका
निश्चलत्वं तु संप्रेक्ष्य पर्वतादिषु दृश्यते । ध्यानवाचोयुक्तिरिति ह्यासीनस्यैव तद्भवेत् ॥ [478]
मूलम्
स्मरन्ति च।
टीका
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । इति स्मृत्यापि चैकाग्र्यं उपास्तौ हि विधीयते ॥ [479]
मूलम्
यत्रैकाग्रता तत्राविशेषात्।
टीका
यत्रकाग्र्यं भवेत्तत्र ह्युपासनमिहोच्यते । मनोनुकूल इत्येतद्वाक्यादेवाविशेषतः ॥ [480]