03 प्रतीकाधिकरणम्

मूलम्

न प्रतीके न हि सः।

टीका

नात्मत्वेन प्रतीकेषु ध्यानं कार्यं विचक्षणैः । उपासितुः प्रतीकोहि नात्मेति मन आदिकः ॥ [473]

मूलम्

ब्रह्मदृष्टिरुत्कर्षात्।

टीका

मन आदौ ब्रह्म दृष्टिः युक्ता चोत्कर्षतो भवेत् । राजदृष्टिस्तु भृत्ये हि फलायाभ्युदयाय च ॥ [474]