मूलम् आवृत्तिरसकृदुपदेशात्। टीका आवृत्तमसकृच्चैव वेदनं सफलं भवेत् । ध्यानपर्याय शब्देन वेदनस्यापदेशतः ॥ [470] मूलम् लिङ्गाच्च। टीका तद्रूपप्रत्यये चैका सन्ततिश्चान्यनिःस्पृहा । इति स्मृत्यापि चावृत्तं असकृद्वेदनं भवेत् ॥ [471]