01 आवृत्त्यधिकरणम्

मूलम्

आवृत्तिरसकृदुपदेशात्।

टीका

आवृत्तमसकृच्चैव वेदनं सफलं भवेत् । ध्यानपर्याय शब्देन वेदनस्यापदेशतः ॥ [470]

मूलम्

लिङ्गाच्च।

टीका

तद्रूपप्रत्यये चैका सन्ततिश्चान्यनिःस्पृहा । इति स्मृत्यापि चावृत्तं असकृद्वेदनं भवेत् ॥ [471]