52 सहकार्यन्तराधिकरणम्

मूलम्

सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत्।

टीका

यज्ञदानादिवन्मौनं विद्यावत्सु विधीयते । प्रकृष्टं मननं शब्दाद्बाल्यपाण्डित्ययोः परम् ॥ [464]

मूलम्

कृत्स्नभावात्तु गृहिणोपसंहारः।

टीका

गृहिणा चोपसंहारः स खल्वेवमिति श्रुतौ । सर्वेषामपि विद्याया(ः) भावात्तेषां च लक्षकः ॥ [465]

मूलम्

मौनवदितरेषामप्युपदेशात्।

टीका

मुनौ भैक्षादिनिर्देशोऽप्यन्येषामुपलक्षकः । यज्ञादीनां च धर्माणाम् उपदेशादिति स्थितम् ॥ [466]