51 स्वाम्यधिकरणम्

मूलम्

स्वामिनः फलश्रुतेरित्यात्रेयः।

टीका

उद्गीथोपासनं चात्र यजमानस्य युज्यते ।
कर्तर्येव फलश्रुत्येत्यात्रेयो दहरादिवत् ॥ [381]

मूलम्

आर्त्विज्यमित्यौडुलोमिः तस्मै हि परिक्रीयते।

टीका

ऋत्विग्भिः कार्यमित्येव ह्यौडुलोमिमुनेर्मतम् ।
साङ्गानुष्ठितये चैव तेषां वरणमिष्यते ॥ [382]