मूलम्
तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः।
टीका
न नैष्ठिकस्यातद्भावः पुनर्नेयादिति श्रुतेः । नियन्त्रणाच्च तद्रूपाभावेभ्य(ः) इति जैमिनिः ॥ [460]
मूलम्
न चाधिकारिकमपि पतनानुमानात्तदयोगात्।
टीका
अधिकारानुरूपं च प्रायश्चित्तं न विद्यते । आरूढो नैष्ठिकमिति स्मृत्या च तदभावतः ॥ [461]
मूलम्
उपपूर्वमपीत्येके भावमशनवत्तदुक्तम् ।
टीका
उपपातकमाहुस्तत् प्रायश्चित्तं तु विद्यते । मधुभोजनतुल्यत्वात् तेषां विद्या तु वर्तते ॥ [462]
मूलम्
बहिस्तूभयथाऽपि स्मृतेराचाराच्च।
टीका
पातकित्वेऽप्युभयथा बहिर्भूतास्तु ते सदा । आचाराच्चापि दृश्यन्ते शुद्धा(ः) अपि च निष्कृतेः ॥ [463]