49 विधुराधिकरणम्

मूलम्

अन्तरा चापि तु तद्दृष्टेः।

टीका

अनाश्रमाणामपि च ब्रह्मविद्या विधीयते । रैक्वभीष्मादिकानां तु विद्यानिष्ठत्वदर्शनात् ॥ [456]

मूलम्

अपि स्मर्यते।

टीका

जप्येनापि च संसिद्ध्येत् इति स्मृत्या च तेष्वपि । विद्यायाश्चापि संसिद्धेः अधिकारो भवेदिति ॥ [457]

मूलम्

विशेषानुग्रहश्च।

टीका

आश्रमानुक्तधर्मेण विद्यानुग्रहदर्शनात् । तपसा ब्रह्मचर्येण विद्यया चेति च श्रुतेः ॥ [458]

मूलम्

अतस्त्वितरज्ज्यायो लिङ्गाच्च।

टीका

अनाश्रमत्वादितरत् ज्यायो धर्मेण भूयसा । अनाश्रमी न तिष्ठेत्तु दिनमेकमिति स्मृतेः ॥ [459]