मूलम्
विहितत्वाच्चाऽऽश्रमकर्मापि।
टीका
यावज्जीवमिति श्रुत्या केवलाश्रमिणामपि । अनुष्ठेयानि कर्माणि विहितत्वाद्भवन्ति हि ॥ [452]
मूलम्
सहकारित्वेन च।
टीका
विद्योत्पत्त्युपकारेण सहकारितया च तत् । अनुष्ठेयं कर्म सर्वम् इति श्रुत्यापि दर्शितम् ॥ [453]
मूलम्
सर्वथाऽपि त एवोभयलिङ्गात्।
टीका
यज्ञादेरुभयत्रैव विनियोगेऽपि नो भिदा । उभयत्र तदेवेति प्रत्यभिज्ञानलिङ्गतः ॥ [454]
मूलम्
अनभिभवं च दर्शयति।
टीका
धर्मेण पापमित्यादि श्रुतिर्विविधपाप्मभिः । विद्यायास्त्वनभिभवं धर्ममूलं ब्रवीति च ॥ [455]