47 सर्वान्नानुमत्यधिकरणम्

मूलम्

सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात्।

टीका

सर्वान्नानुमतिः प्राणविदः प्राणात्यये भवेत् । ब्रह्मविद्यावतां चापि तथैवान्यत्र दर्शनात् ॥ [448]

मूलम्

अबाधाच्च।

टीका

आहारशुद्धाविति च शुद्धाहारविधेर्बलात् । अबाधाय च तस्यापि तत्प्राणात्यय इष्यते ॥ [449]

मूलम्

अपि स्मर्यते।

टीका

प्राणसंशयमापन्नो योन्नमत्ति यतस्ततः । इति स्मृत्यापि तेषां वै परमापदि चोच्यते ॥ [450]

मूलम्

शब्दश्चातोऽकामकारे।

टीका

सुरां तु न पिबेच्चेति शब्दश्चापि निषेधति । कामकारं सुरापानं ततः प्राणात्यये स्मृतम् ॥ [451]