46 शमदमाद्यधिकरणम्

मूलम्

शमदमाद्युपेतस्स्यात् तथाऽपि तु तद्विधेस्तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात्।

टीका

कर्मसु व्यापृतोऽपि स्यादुपेतश्शान्तिदान्तिभिः । विद्याङ्गताविधानाच्चाप्यनुष्ठेयत्वदर्शनात् ॥ [447]