44 अग्नीन्धनाद्यधिकरणम्

मूलम्

अत एव चाग्नीन्धनाद्यनपेक्षा।

टीका

विद्यावत्वश्रुतेरेव विद्या स्यादूर्ध्वरेतसाम् । अग्न्याधानादिरहितेत्यवगन्तुं च शक्यते ॥ [445]