43 पारिप्लवाधिकरणम्

मूलम्

पारिप्लवार्था इति चेन्न विशेषितत्वात्।

टीका

प्रतर्दनो हवै चेति स्युराख्यानानि यानि च । तानि पारिप्लवार्थानीति चेन्नान्यनियन्त्रणात् ॥ [443]

मूलम्

तथा चैकवाक्योपबन्धात्।

टीका

विद्याविध्येकवाक्यत्वसम्बन्धाच्चापि केवलम् । सोऽरोदीदितिवच्चापि विद्याविध्यर्थता मता ॥ [444]