मूलम्
स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात्।
टीका
उद्गीथोक्ते रसतम(ः) इति तत्स्तुतिरेव हि । इति चेन्न ह्यपूर्वत्वात् दृष्टिरेव विधीयते ॥ [441]
मूलम्
भावशब्दाच्च।
टीका
उपासीतोद्गीथमिति तत्रैव विधिशब्दतः । स्तुतिमात्रं न चैवात्र दृष्टिरेव विधीयते ॥ [442]