41 पुरुषार्थाधिकरणम्

मूलम्

पुरुषार्थोऽतश्शब्दादिति बादरायणः।

टीका

पुरुषार्थं तु विद्यातः मन्यते बादरायणः । ब्रह्मवित्परमाप्नोतीत्यादिस्पष्टार्थशब्दतः ॥ [421]

मूलम्

शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः।

टीका

विद्यायाः कर्मशेषत्वात् स्तुतिमात्रं फलश्रुतिः । यथा हि द्रव्यसस्कारकर्मस्विति तु जैमिनिः ॥ [422]

मूलम्

आचारदर्शनात्।

टीका

यक्ष्यमाणो ह वै चेति ह्याचारस्यापि दर्शनात् । विद्यायाः कर्मशेषत्वं भवतीति च चोद्यते ॥ [423]

मूलम्

तच्छ्रुतेः।

टीका

यदेव विद्यया चेति स्पष्टश्रुत्यापि कर्मसु । विनियोगाच्च विद्यायाः कर्माङ्गत्वं तु सिद्ध्यति ॥ [424]

मूलम्

समन्वारम्भणात्।

टीका

तं विद्याकर्मणी चेति ह्येकस्मिन् कर्मविद्ययोः । साहित्यदर्शनाच्चापि विद्यायाः कर्मशेषता ॥ [425]

मूलम्

तद्वतो विधानात्।

टीका

गुरोर्वेदमधीत्येति श्रुत्या विद्यावतस्त्विह । कर्मानुष्ठानविधितः कर्माङ्गं वेदनं भवेत् ॥ [426]

मूलम्

नियमात्।

टीका

कुर्वन्नेवेह कर्माणीत्यात्मवित्पुरुषस्य हि । आयुषो नियमात्कर्मण्यतस्स्यात्कर्मशेषता ॥ [427]

मूलम्

अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात्।

टीका

विद्यातः पुरुषार्थस्तु बादरायणसंमतः । जीवाधिकपरस्यैव वेद्यत्वाच्च तथा श्रुतेः ॥ [428]

मूलम्

तुल्यं तु दर्शनम् ।

टीका

प्रधानत्वेऽपि विद्यायाः तुल्यमाचारदर्शनम् । यक्ष्यमाणो ह वै चेति विद्याङ्गत्वात्सुसङ्गतम् ॥ [429]

मूलम्

असार्वत्रिकी।

टीका

न सर्वविद्याविषया यदेवेति श्रुतिर्हि सा । उद्गीथविषयैवेति विद्याया(ः) नाङ्गता भवेत् ॥ [430]

मूलम्

विभागः शतवत्।

टीका

पृथक् (निज)स्व(स्व)फलायैते पुरुषं ह्यनुगच्छतः । क्षेत्रार्थं चापि रत्नार्थं द्विशतोक्तौ यथा भवेत् ॥ [431]

मूलम्

अध्ययनमात्रवतः।

टीका

श्रुतिर्वेदमधीत्येति विद्यावत्पुरुषं न हि । केवलाधीतिनं प्राह नातः कर्माङ्गता मता ॥ [432]

मूलम्

नाविशेषात्।

टीका

विद्वत्स्वेवेति नियमः कर्मणो नाविशेषतः । अङ्गत्वेन फलार्थं वा चोपपत्तिर्हि दृश्यते ॥ [433]

मूलम्

स्तुतयेऽनुमतिर्वा।

टीका

कुर्वन्नेवेह कर्माणीत्यत्रापि स्तुतये भवेत् । कर्मानुमतिरेवेति नाङ्गं विद्या तु कर्मणः ॥ [434]

मूलम्

कामकारेण चैके।

टीका

किं प्रजया करिष्याम(ः) इति गार्हस्थ्यकर्मणाम् । कामकारेण चैके तु त्यागमिच्छन्ति शाखिनः ॥ [435]

मूलम्

उपमर्दं च।

टीका

क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे । इत्येवं कर्मणां नाशो विद्ययेति च दर्शनात् ॥ [436]

मूलम्

ऊर्ध्वरेतस्सु च शब्दे हि।

टीका

ऊर्ध्वरेतस्सु विद्याया(ः)दर्शनात्तत्र कर्मणाम् । अभावाच्चापि नाङ्गत्वं शब्दे तेऽप्याश्रमाः स्थिताः ॥ [437]

मूलम्

परामर्शं जैमिनिरचोदनाच्चापवदति हि।

टीका

धर्मस्कन्धेष्ववैधत्वात्स्तुत्यर्थं तस्य जैमिनिः । अनुवादं तु मनुते वीरहेत्यपवादतः ॥ [438]

मूलम्

अनुष्ठेयं बादरायणस्साम्यश्रुतेः।

टीका

गृहस्थाश्रमसाम्याच्चाप्यनुष्ठेयं बुधैरिह । अन्याश्रमं श्रुतिश्चाह धर्मस्कन्धास्त्रयस्त्विति ॥ [439]

मूलम्

विधिर्वा धारणवत्।

टीका

धर्मस्कन्धास्त्रय इति विधिरेवोर्ध्वरेतसाम् । उपरि हि धारयतीत्यपूर्वविधिवद्भवेत् ॥ [440]