14 फलाधिकरणम्

मूलम्

फलमत उपपत्तेः।

टीका

पारत्रिकं चैहिकं च फलं सर्वमतो भवेत् । परस्मादेव पुरुषात् क्षणध्वंसि हि कर्म तत् ॥ [351]

मूलम्

श्रुतत्वाच्च।

टीका

आत्मान्नादो वसुदानो नन्दयातीति वाक्यतः । भोगापवर्गमुभयं ब्रह्मैवतद्ददाति हि ॥ [352]

मूलम्

धर्मं जैमिनिरत एव।

टीका

उपपत्तेः श्रुतत्वाच्च फलदो धर्म एव हि । अपूर्वद्वातरश्चेति जैमिनिर्मनुते मुनिः ॥ [353]

मूलम्

पूर्वं तु बादरायणो हेतुव्यपदेशात्।

टीका

पूर्वोक्तं फलधातृत्वं मनुत् बादरायणः । तत्तच्छरीरकस्यैव ब्रह्मणस्त्विति शब्दतः ॥ [354]