मूलम्
परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः।
टीका
सेतून्मानाप्तिसम्बन्धभेदानां व्यपदेशतः । ब्रह्मणः परमेव स्यात् प्राप्यं पूर्णं तु कूलवत् ॥ [344]
मूलम्
सामान्यात्तु।
टीका
सेतुशब्दस्ततोह्यन्यत् सूचयेन्नात्र किञ्चन । सेतुसाम्याद्विधरणात् शब्दोऽयं ब्रह्म वाचकः ॥ [345]
मूलम्
बुध्यर्थः पादवत्।
टीका
चतुष्पदादि चोन्मानं त्वत्र वाक्पादवद्भवेत् । उपासार्थमनन्तस्य नातोऽन्यत्परमिष्यते ॥ [346]
मूलम्
स्थानविशेषात्प्रकाशादिवत्।
टीका
अवच्छिद्यानुसन्धानं तत्तत्स्थानविशेषतः । प्रकाशाकाशयोर्यद्वत् वातायन घटादिषु ॥ [347]
मूलम्
उपपत्तेश्च।
टीका
अमृतस्यैष सेतुरित्यत्र ब्रह्मामृतस्य च । स्वस्यैव प्राप्तये हेतुरतस्सम्बन्धसङ्गतिः ॥ [348]
मूलम्
तथाऽन्यप्रतिषेधात्।
टीका
कश्चिज्ज्यायो नास्ति चेति श्रुत्या च प्रतिषेधतः । ततो यदुत्तरतरं इति ब्रह्मैव चोच्यते ॥ [349]
मूलम्
अनेन सर्वगतत्वमायामशब्दादिभ्यः।
टीका
ब्रह्मणाऽनेन सर्वस्य व्याप्त्यत्वमवगम्यते । सर्वव्याप्तेर्वाचिशब्दैः पूर्णमित्यादिकैरिह ॥ [350]