मूलम्
उभयव्यपदेशात्त्वहिकुण्डलवत्।
टीका
जगतो ब्रह्मणा साकं द्वैताद्वैतोपदेशतः । पृथक्त्वं चास्य चैकत्वं अहिकुण़्डलवद्भवेत् ॥ [340]
मूलम्
प्रकाशाश्रयवद्वा तेजस्त्वात्।
टीका
प्रभायास्तद्वतश्चापि तेजस्त्वेन यथैकता । प्रपञ्चब्रह्मणोस्तद्वत् इति केषांचिदाशयः ॥ [341]
मूलम्
पूर्ववद्वा।
टीका
एकजात्यादियोगाच्च नानयोरैक्यसम्भवः । जीवस्येवाचेतनस्यापृथक्स्थित्यांशता हरेः ॥ [342]
मूलम्
प्रतिषेधाच्च।
टीका
आत्माऽमृतोजरोऽमृत(ः) इति ह्यचिद्धर्मनिषेधतः । अपृथक्स्थिति योगेन तयोरंशांशि कल्पना ॥ [343]