मूलम्
न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि।
टीका
परस्य ब्रह्मणो दोषः स्थानतोऽपि न विद्यते । यतो निर्दोषकल्याणगुणाद्युभयलिङ्गता ॥ [325]
मूलम्
भेदादिति चेन्न प्रत्येकमतद्वचनात्।
टीका
अवस्थाभेदतो दोषः जीवस्येव परस्य चेत् । नैवन्तु तत्र तत्रैव ह्यमृतत्वश्रुतेर्बलात् ॥ [326]
मूलम्
अपि चैवमेके।
टीका
एकदेहस्थितस्यापि न भोक्तृत्वं परात्मनः । द्वा सुपर्णाविति श्रुत्याऽधीयते चैकशाखिनः ॥ [327]
मूलम्
अरूपवदेव हि तत्प्रधानत्वात्।
टीका
शरीरस्थमपि ब्रह्म रूपाभाववदेव हि । नामरूपाधिकरणे प्रधानत्वात्परात्मनः ॥ [328]
मूलम्
प्रकाशवच्चावैयर्थ्यात्।
टीका
यथा ज्ञानादिवाक्यस्यावैयर्थ्यात्स्वप्रकाशता । तथैव सत्यकामादिवाक्यवैयर्थतो गुणी ॥ [329]
मूलम्
आह च तन्मात्रम्।
टीका
प्रकाशरूपतामात्रं सत्यं ज्ञानमिति श्रुतिः । वदत्यन्यान्गुणांस्तांस्तु न निषेधति वै यतः ॥ [330]
मूलम्
दर्शयति चाथो अपि स्मर्यते।
टीका
निष्कलं मामनादिं च वेत्तीत्यादि श्रुतिस्मृतौ । ब्रह्म ह्युभयलिङ्गन्तु वदतश्च विशेषतः ॥ [331]
मूलम्
अत एव चोपमा सूर्यकादिवत्।
टीका
सर्वत्रोभयलिङ्गत्वात् जलसूर्योपमा कृता । ब्रह्मणश्शास्त्रतश्चेति जलाधारेष्विवांशुमान् ॥ [332]
मूलम्
अम्बुवदग्रहणात्तु न तथात्वम् ।
टीका
वस्त्वभावेऽप्यम्भसीव ब्रह्मणोऽग्रहणात्स्थितेः । सर्ववस्तुष्वतो ब्रह्म सदोषमिति शङ्कते ॥ [333]
मूलम्
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच्च।
टीका
स्थानतो ह्रासवृद्ध्यादिभाक्त्वं चात्र निषिध्यते । आकाशसूर्यदृष्टान्तद्वया़ञ्जस्याच्च लोकतः ॥ [334]
मूलम्
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः।
टीका
प्रकृतैतावत्वमात्रं नेति नेति निषिध्यते । ततोऽधिकगुणाढ्यत्ववचनाद्ब्रह्मणस्त्विह ॥ [335]
मूलम्
तदव्यक्तमाह हि।
टीका
ब्रह्मास्वरूपं केनापि प्रमाणेन न गृह्यते । एनं न पश्यतीत्यादि श्रुतिराह हि काचन ॥ [336]
मूलम्
अपि संराधने प्रत्यक्षानुमानाभ्याम् ।
टीका
एकेन ध्यान योगेन गृह्यते परमः पुमान् । यमेवैष इति श्रुत्या तथा स्मृत्या च गम्यते ॥ [337]
मूलम्
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात्।
टीका
ध्यानकर्मणिचाभ्यासात् दर्शनं चोपजायते । ज्ञनानन्दाद्यवैशेष्यात् विभूतीनां च केषुचित् ॥ [338]
मूलम्
अतोऽनन्तेन तथा हि लिङ्गम्।
टीका
अतोऽनन्तेन कल्याणगुणजातेन योगतः । परस्य स्वप्रकाशस्योभयनिङ्गसमञ्जसम् ॥ [339]