08 तदभावाधिकरणम्

मूलम्

तदभावो नाडीषु तच्छ्रुतेरात्मनि च।

टीका

स्वप्नाभावस्सुषुप्तिर्हि ना़डीषु च पुरीतति । ब्रह्मणीति भवेत्तेषां सुषुप्तिस्थानता श्रुतेः ॥ [321]

मूलम्

अतः प्रबोधोऽस्मात्।

टीका

पर्यङ्क स्थानभूतेषु सुषुप्तिर्ब्रह्मणीत्यतः । तस्मात्प्रबोध इत्यादि श्रुतिश्चाप्युपपद्यते ॥ [322]