मूलम्
सन्ध्ये सृष्टिराह हि ।
टीका
स्वप्नस्थाने जीव एव सृजतीति च चोद्यते । सृजते स हि कर्त्तेति श्रुतिराह हि तत्र च ॥ [315]
मूलम्
निर्मातारं चैके पुत्रादयश्च।
टीका
कामानां स्वप्न काले तु निर्माता जीव एव हि । वदन्त्येके शाखिनश्च पुत्रादीन् कामशब्दतः ॥ [316]
मूलम्
मायामात्रं तु कार्त्स्न्येनाऽनभिव्यक्तस्वरूपत्वात्।
टीका
स्वप्ने यत्सृष्टमाम्नातं तदिदं ब्रह्मणा कृतम् । आश्चर्यभूतं जीवे न सत्यसङ्कल्पता तदा ॥ [317]
मूलम्
पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ।
टीका
अनादिकृतपापेन ब्रह्मसङ्कल्पतस्तदा । तिरोहितं सत्यतादि बन्धमोक्षौ ततोऽस्य हि ॥ [318]
मूलम्
देहयोगाद्वा सोऽपि।
टीका
तिरोभावो गुणानां तु सृष्टौ देहस्य योगतः । प्रळये प्रकृतेर्योगमात्रेणैव तथा भवेत् ॥ [319]
मूलम्
सूचकश्च हि श्रुतेराचक्षते च तद्विदः।
टीका
शुभादिसूचकस्वप्न(ः) इति श्रुत्या हि दृस्यते । तद्विदां वचनाच्चैव न जीवस्यात्र कर्तृता ॥ [320]