मूलम्
अन्याधिष्ठिते पूर्ववदभिलापात्।
टीका
अन्याधिष्टितव्रीह्यादौ सम्बन्धः पूर्ववत्तदा । अनुभाव्यान्तराभावात् मध्ये चाप्यवरोहतः ॥ [311]
मूलम्
अशुद्धमिति चेन्न शब्दात्।
टीका
पश्वादि हिंसया स्वर्गं प्राप्तानां शिष्टकर्म च । अशुद्धमिति भोगश्चेत् न तत्, शुद्धमिति श्रुतेः ॥ [312]
मूलम्
रेतस्सिग्योगोऽथ।
टीका
रेतस्सॢञ्चति तद्भूयो भवतीति श्रुतेरिह । रेतस्सिचा यथा योगो व्रीह्यादिषु तथा भवेत् ॥ [313]
मूलम्
योनेश्शरीरम् ।
टीका
योनिप्राप्तेस्तु पश्चाद्धि शरीरं प्राप्यते पुनः । कर्मणामुपभोगाय तत्र तत्र च योनिषु ॥ [314]